Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Yoga of Rites
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
क्रियायोगं
समाचक्ष्व
भवदाराधनं
प्रभो
।
यस्मात्त्वां
ये
यथार्चन्ति
सात्वताः
सात्वतर्षभ
2
▾
Meaning
Keep
एतद्वदन्ति
मुनयो
मुहुर्निःश्रेयसं
नृणाम्
।
नारदो
भगवान्
व्यास
आचार्योऽङ्गिरसः
सुतः
3
▾
Meaning
Keep
निःसृतं
ते
मुखाम्भोजाद्यदाह
भगवानजः
।
पुत्रेभ्यो
भृगुमुख्येभ्यो
देव्यै
च
भगवान्
भवः
4
▾
Meaning
Keep
एतद्वै
सर्ववर्णानामाश्रमाणां
च
सम्मतम्
।
श्रेयसामुत्तमं
मन्ये
स्त्रीशूद्राणां
च
मानद
5
▾
Meaning
Keep
एतत्कमलपत्राक्ष
कर्मबन्धविमोचनम्
।
भक्ताय
चानुरक्ताय
ब्रूहि
विश्वेश्वरेश्वर
6
▾
Meaning
Keep
श्रीभगवानुवाच ।
न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।
संक्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः
7
▾
Meaning
Keep
वैदिकस्तान्त्रिको
मिश्र
इति
मे
त्रिविधो
मखः
।
त्रयाणामीप्सितेनैव
विधिना
मां
समर्चरेत्
8
▾
Meaning
Keep
यदा
स्वनिगमेनोक्तं
द्विजत्वं
प्राप्य
पूरुषः
।
यथा
यजेत
मां
भक्त्या
श्रद्धया
तन्निबोध
मे
9
▾
Meaning
Keep
अर्चायां
स्थण्डिलेऽग्नौ
वा
सूर्ये
वाप्सु
हृदि
द्विजः
।
द्रव्येण
भक्तियुक्तोऽर्चेत्
स्वगुरुं
माममायया
10
▾
Meaning
Keep
पूर्वं
स्नानं
प्रकुर्वीत
धौतदन्तोऽङ्गशुद्धये
।
उभयैरपि
च
स्नानं
मन्त्रैर्मृद्ग्रहणादिना
11
▾
Meaning
Keep
सन्ध्योपास्त्यादि
कर्माणि
वेदेनाचोदितानि
मे
।
पूजां
तैः
कल्पयेत्सम्यक्
सङ्कल्पः
कर्मपावनीम्
12
▾
Meaning
Keep
शैली
दारुमयी
लौही
लेप्या
लेख्या
च
सैकती
।
मनोमयी
मणिमयी
प्रतिमाष्टविधा
स्मृता
13
▾
Meaning
Keep
चलाचलेति
द्विविधा
प्रतिष्ठा
जीवमन्दिरम्
।
उद्वासावाहने
न
स्तः
स्थिरायामुद्धवार्चने
14
▾
Meaning
Keep
अस्थिरायां
विकल्पः
स्यात्स्थण्डिले
तु
भवेद्द्वयम्
।
स्नपनं
त्वविलेप्यायामन्यत्र
परिमार्जनम्
15
▾
Meaning
Keep
द्रव्यैः
प्रसिद्धैर्मद्यागः
प्रतिमादिष्वमायिनः
।
भक्तस्य
च
यथा
लब्धैर्हृदि
भावेन
चैव
हि
16
▾
Meaning
Keep
स्नानालङ्करणं
प्रेष्ठमर्चायामेव
तूद्धव
।
स्थण्डिले
तत्त्वविन्यासो
वह्नावाज्यप्लुतं
हविः
17
▾
Meaning
Keep
सूर्ये
चाभ्यर्हणं
प्रेष्ठं
सलिले
सलिलादिभिः
।
श्रद्धयोपाहृतं
प्रेष्ठं
भक्तेन
मम
वार्यपि
18
▾
Meaning
Keep
भूर्यप्यभक्तोपाहृतं
न
मे
तोषाय
कल्पते
।
गन्धो
धूपः
सुमनसो
दीपोऽन्नाद्यं
च
किं
पुनः
19
▾
Meaning
Keep
शुचिः
सम्भृतसम्भारः
प्राग्दर्भैः
कल्पितासनः
।
आसीनः
प्रागुदग्वार्चेदर्चायामथ
सम्मुखः
20
▾
Meaning
Keep
कृतन्यासः
कृतन्यासां
मदर्चां
पाणिना
मृजेत्
।
कलशं
प्रोक्षणीयं
च
यथावदुपसाधयेत्
21
▾
Meaning
Keep
तदद्भिर्देवयजनं
द्रव्याण्यात्मानमेव
च
।
प्रोक्ष्य
पात्राणि
त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च
साधयेत्
22
▾
Meaning
Keep
पाद्यार्घ्याचमनीयार्थं
त्रीणि
पात्राणि
देशिकः
।
हृदा
शीर्ष्णाथ
शिखया
गायत्र्या
चाभिमन्त्रयेत्
23
▾
Meaning
Keep
पिण्डे
वाय्वग्निसंशुद्धे
हृत्पद्मस्थां
परां
मम
।
अण्वीं
जीवकलां
ध्यायेन्नादान्ते
सिद्धभाविताम्
24
▾
Meaning
Keep
तयाऽऽत्मभूतया
पिण्डे
व्याप्ते
सम्पूज्य
तन्मयः
।
आवाह्यार्चादिषु
स्थाप्य
न्यस्ताङ्गं
मां
प्रपूजयेत्
25
▾
Meaning
Keep
पाद्योपस्पर्शार्हणादीनुपचारान्
प्रकल्पयेत्
।
धर्मादिभिश्च
नवभिः
कल्पयित्वाऽऽसनं
मम
26
▾
Meaning
Keep
पद्ममष्टदलं
तत्र
कर्णिकाकेसरोज्ज्वलम्
।
उभाभ्यां
वेदतन्त्राभ्यां
मह्यं
तूभयसिद्धये
27
▾
Meaning
Keep
सुदर्शनं
पाञ्चजन्यं
गदासीषुधनुर्हलान्
।
मुसलं
कौस्तुभं
मालां
श्रीवत्सं
चानुपूजयेत्
28
▾
Meaning
Keep
नन्दं
सुनन्दं
गरुडं
प्रचण्डं
चण्डमेव
च
।
महाबलं
बलं
चैव
कुमुदं
कुमुदेक्षणम्
29
▾
Meaning
Keep
दुर्गां
विनायकं
व्यासं
विष्वक्सेनं
गुरून्
सुरान्
।
स्वे
स्वे
स्थाने
त्वभिमुखान्
पूजयेत्प्रोक्षणादिभिः
30
▾
Meaning
Keep
चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः
।
सलिलैः
स्नापयेन्मन्त्रैर्नित्यदा
विभवे
सति
31
▾
Meaning
Keep
स्वर्णघर्मानुवाकेन
महापुरुषविद्यया
।
पौरुषेणापि
सूक्तेन
सामभी
राजनादिभिः
32
▾
Meaning
Keep
वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः
।
अलङ्कुर्वीत
सप्रेम
मद्भक्तो
मां
यथोचितम्
33
▾
Meaning
Keep
पाद्यमाचमनीयं
च
गन्धं
सुमनसोऽक्षतान्
।
धूपदीपोपहार्याणि
दद्यान्मे
श्रद्धयार्चकः
34
▾
Meaning
Keep
गुडपायससर्पींषि
शष्कुल्यापूपमोदकान्
।
संयावदधिसूपांश्च
नैवेद्यं
सति
कल्पयेत्
35
▾
Meaning
Keep
अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम्
।
अन्नाद्यगीतनृत्यादि
पर्वणि
स्युरुतान्वहम्
36
▾
Meaning
Keep
विधिना
विहिते
कुण्डे
मेखलागर्तवेदिभिः
।
अग्निमाधाय
परितः
समूहेत्पाणिनोदितम्
37
▾
Meaning
Keep
परिस्तीर्याथ
पर्युक्षेदन्वाधाय
यथाविधि
।
प्रोक्षण्याऽऽसाद्य
द्रव्याणि
प्रोक्ष्याग्नौ
भावयेत
माम्
38
▾
Meaning
Keep
तप्तजाम्बूनदप्रख्यं
शङ्खचक्रगदाम्बुजैः
।
लसच्चतुर्भुजं
शान्तं
पद्मकिञ्जल्कवाससम्
39
▾
Meaning
Keep
स्फुरत्किरीटकटककटिसूत्रवराङ्गदम्
।
श्रीवत्सवक्षसं
भ्राजत्कौस्तुभं
वनमालिनम्
40
▾
Meaning
Keep
ध्यायन्नभ्यर्च्य
दारूणि
हविषाभिघृतानि
च
।
प्रास्याज्यभागावाघारौ
दत्त्वा
चाज्यप्लुतं
हविः
41
▾
Meaning
Keep
जुहुयान्मूलमन्त्रेण
षोडशर्चावदानतः
।
धर्मादिभ्यो
यथान्यायं
मन्त्रैः
स्विष्टिकृतं
बुधः
42
▾
Meaning
Keep
अभ्यर्च्याथ
नमस्कृत्य
पार्षदेभ्यो
बलिं
हरेत्
।
मूलमन्त्रं
जपेद्ब्रह्म
स्मरन्
नारायणात्मकम्
43
▾
Meaning
Keep
दत्त्वाऽऽचमनमुच्छेषं
विष्वक्सेनाय
कल्पयेत्
।
मुखवासं
सुरभिमत्ताम्बूलाद्यमथार्हयेत्
44
▾
Meaning
Keep
उपगायन्
गृणन्
नृत्यन्
कर्माण्यभिनयन्
मम
।
मत्कथाः
श्रावयञ्छृण्वन्
मुहूर्तं
क्षणिको
भवेत्
45
▾
Meaning
Keep
स्तवैरुच्चावचैः
स्तोत्रैः
पौराणैः
प्राकृतैरपि
।
स्तुत्वा
प्रसीद
भगवन्निति
वन्देत
दण्डवत्
46
▾
Meaning
Keep
शिरो
मत्पादयोः
कृत्वा
बाहुभ्यां
च
परस्परम्
।
प्रपन्नं
पाहि
मामीश
भीतं
मृत्युग्रहार्णवात्
47
▾
Meaning
Keep
इति
शेषां
मया
दत्तां
शिरस्याधाय
सादरम्
।
उद्वासयेच्चेदुद्वास्यं
ज्योतिर्ज्योतिषि
तत्पुनः
48
▾
Meaning
Keep
अर्चादिषु
यदा
यत्र
श्रद्धा
मां
तत्र
चार्चयेत्
।
सर्वभूतेष्वात्मनि
च
सर्वात्माहमवस्थितः
49
▾
Meaning
Keep
एवं
क्रियायोगपथैः
पुमान्
वैदिकतान्त्रिकैः
।
अर्चन्नुभयतः
सिद्धिं
मत्तो
विन्दत्यभीप्सिताम्
50
▾
Meaning
Keep
मदर्चां
सम्प्रतिष्ठाप्य
मन्दिरं
कारयेद्दृढम्
।
पुष्पोद्यानानि
रम्याणि
पूजायात्रोत्सवाश्रितान्
51
▾
Meaning
Keep
पूजादीनां
प्रवाहार्थं
महापर्वस्वथान्वहम्
।
क्षेत्रापणपुरग्रामान्
दत्त्वा
मत्सार्ष्टितामियात्
52
▾
Meaning
Keep
प्रतिष्ठया
सार्वभौमं
सद्मना
भुवनत्रयम्
।
पूजादिना
ब्रह्मलोकं
त्रिभिर्मत्साम्यतामियात्
53
▾
Meaning
Keep
मामेव
नैरपेक्ष्येण
भक्तियोगेन
विन्दति
।
भक्तियोगं
स
लभते
एवं
यः
पूजयेत
माम्
54
▾
Meaning
Keep
यः
स्वदत्तां
परैर्दत्तां
हरेत
सुरविप्रयोः
।
वृत्तिं
स
जायते
विड्भुग्
वर्षाणामयुतायुतम्
55
▾
Meaning
Keep
कर्तुश्च
सारथेर्हेतोरनुमोदितुरेव
च
।
कर्मणां
भागिनः
प्रेत्य
भूयो
भूयसि
तत्फलम्
Previous
←
The Song of Aila
Next
Neither Praise Nor Blame
→