Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Ten Marks of a Purana
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथर्ववित्सुमन्तुश्च
शिष्यमध्यापयत्स्वकाम्
।
संहितां
सोऽपि
पथ्याय
वेददर्शाय
चोक्तवान्
2
▾
Meaning
Keep
शौक्लायनिर्ब्रह्मबलिर्मोदोषः
पिप्पलायनिः
।
वेददर्शस्य
शिष्यास्ते
पथ्यशिष्यानथो
शृणु
।
कुमुदः
शुनको
ब्रह्मन्
जाजलिश्चाप्यथर्ववित्
3
▾
Meaning
Keep
बभ्रुः
शिष्योऽथाङ्गिरसः
सैन्धवायन
एव
च
।
अधीयेतां
संहिते
द्वे
सावर्णाद्यास्तथापरे
4
▾
Meaning
Keep
नक्षत्रकल्पः
शान्तिश्च
कश्यपाङ्गिरसादयः
।
एते
आथर्वणाचार्याः
शृणु
पौराणिकान्
मुने
5
▾
Meaning
Keep
त्रय्यारुणिः
कश्यपश्च
सावर्णिरकृतव्रणः
।
वैशम्पायनहारीतौ
षड्
वै
पौराणिका
इमे
6
▾
Meaning
Keep
अधीयन्त
व्यासशिष्यात्संहितां
मत्पितुर्मुखात्
।
एकैकामहमेतेषां
शिष्यः
सर्वाः
समध्यगाम्
7
▾
Meaning
Keep
कश्यपोऽहं
च
सावर्णी
रामशिष्योऽकृतव्रणः
।
अधीमहि
व्यासशिष्याच्चतस्रो
मूलसंहिताः
8
▾
Meaning
Keep
पुराणलक्षणं
ब्रह्मन्
ब्रह्मर्षिभिर्निरूपितम्
।
शृणुष्व
बुद्धिमाश्रित्य
वेदशास्त्रानुसारतः
9
▾
Meaning
Keep
सर्गोऽस्याथ
विसर्गश्च
वृत्तिरक्षान्तराणि
च
।
वंशो
वंशानुचरितं
संस्था
हेतुरपाश्रयः
10
▾
Meaning
Keep
दशभिर्लक्षणैर्युक्तं
पुराणं
तद्विदो
विदुः
।
केचित्पञ्चविधं
ब्रह्मन्
महदल्पव्यवस्थया
11
▾
Meaning
Keep
अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः
।
भूतमात्रेन्द्रियार्थानां
सम्भवः
सर्ग
उच्यते
12
▾
Meaning
Keep
पुरुषानुगृहीतानामेतेषां
वासनामयः
।
विसर्गोऽयं
समाहारो
बीजाद्बीजं
चराचरम्
13
▾
Meaning
Keep
वृत्तिर्भूतानि
भूतानां
चराणामचराणि
च
।
कृता
स्वेन
नृणां
तत्र
कामाच्चोदनयापि
वा
14
▾
Meaning
Keep
रक्षाच्युतावतारेहा
विश्वस्यानु
युगे
युगे
।
तिर्यङ्मर्त्यर्षिदेवेषु
हन्यन्ते
यैस्त्रयीद्विषः
15
▾
Meaning
Keep
मन्वन्तरं
मनुर्देवा
मनुपुत्राः
सुरेश्वराः
।
ऋषयोंऽशावताराश्च
हरेः
षड्विधमुच्यते
16
▾
Meaning
Keep
राज्ञां
ब्रह्मप्रसूतानां
वंशस्त्रैकालिकोऽन्वयः
।
वंशानुचरितं
तेषां
वृत्तं
वंशधराश्च
ये
17
▾
Meaning
Keep
नैमित्तिकः
प्राकृतिको
नित्य
आत्यन्तिको
लयः
।
संस्थेति
कविभिः
प्रोक्ता
चतुर्धास्य
स्वभावतः
18
▾
Meaning
Keep
हेतुर्जीवोऽस्य
सर्गादेरविद्याकर्मकारकः
।
यं
चानुशायिनं
प्राहुरव्याकृतमुतापरे
19
▾
Meaning
Keep
व्यतिरेकान्वयो
यस्य
जाग्रत्स्वप्नसुषुप्तिषु
।
मायामयेषु
तद्ब्रह्म
जीववृत्तिष्वपाश्रयः
20
▾
Meaning
Keep
पदार्थेषु
यथा
द्रव्यं
सन्मात्रं
रूपनामसु
।
बीजादिपञ्चतान्तासु
ह्यवस्थासु
युतायुतम्
21
▾
Meaning
Keep
विरमेत
यदा
चित्तं
हित्वा
वृत्तित्रयं
स्वयम्
।
योगेन
वा
तदाऽऽत्मानं
वेदेहाया
निवर्तते
22
▾
Meaning
Keep
एवं
लक्षणलक्ष्याणि
पुराणानि
पुराविदः
।
मुनयोऽष्टादश
प्राहुः
क्षुल्लकानि
महान्ति
च
23
▾
Meaning
Keep
ब्राह्मं
पाद्मं
वैष्णवं
च
शैवं
लैङ्गं
सगारुडम्
।
नारदीयं
भागवतमाग्नेयं
स्कान्दसंज्ञितम्
24
▾
Meaning
Keep
भविष्यं
ब्रह्मवैवर्तं
मार्कण्डेयं
सवामनम्
।
वाराहं
मात्स्यं
कौर्मं
च
ब्रह्माण्डाख्यमिति
त्रिषट्
25
▾
Meaning
Keep
ब्रह्मन्निदं
समाख्यातं
शाखाप्रणयनं
मुनेः
।
शिष्यशिष्यप्रशिष्याणां
ब्रह्मतेजोविवर्धनम्
Previous
←
The Death of Pariksit, and the Dividing of the Veda
Next
Markandeya's Austerity
→