Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Markandeya Asks to See Maya
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
संस्तुतो
भगवानित्थं
मार्कण्डेयेन
धीमता
।
नारायणो
नरसखः
प्रीत
आह
भृगूद्वहम्
2
▾
Meaning
Keep
श्रीभगवानुवाच ।
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।
मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः
3
▾
Meaning
Keep
वयं
ते
परितुष्टाः
स्म
त्वद्बृहद्व्रतचर्यया
।
वरं
प्रतीच्छ
भद्रं
ते
वरदेशादभीप्सितम्
4
▾
Meaning
Keep
जितं
ते
देव
देवेश
प्रपन्नार्तिहराच्युत
।
वरेणैतावतालं
नो
यद्भवान्
समदृश्यत
5
▾
Meaning
Keep
गृहीत्वाजादयो
यस्य
श्रीमत्पादाब्जदर्शनम्
।
मनसा
योगपक्वेन
स
भवान्
मेऽक्षिगोचरः
6
▾
Meaning
Keep
अथाप्यम्बुजपत्राक्ष
पुण्यश्लोकशिखामणे
।
द्रक्ष्ये
मायां
यया
लोकः
सपालो
वेद
सद्भिदाम्
7
▾
Meaning
Keep
इतीडितोऽर्चितः
काममृषिणा
भगवान्
मुने
।
तथेति
स
स्मयन्
प्रागाद्बदर्याश्रममीश्वरः
8
▾
Meaning
Keep
तमेव
चिन्तयन्नर्थमृषिः
स्वाश्रम
एव
सः
।
वसन्नग्न्यर्कसोमाम्बुभूवायुवियदात्मसु
9
▾
Meaning
Keep
ध्यायन्
सर्वत्र
च
हरिं
भावद्रव्यैरपूजयत्
।
क्वचित्पूजां
विसस्मार
प्रेमप्रसरसम्प्लुतः
10
▾
Meaning
Keep
तस्यैकदा
भृगुश्रेष्ठ
पुष्पभद्रातटे
मुनेः
।
उपासीनस्य
सन्ध्यायां
ब्रह्मन्
वायुरभून्महान्
11
▾
Meaning
Keep
तं
चण्डशब्दं
समुदीरयन्तं
बलाहका
अन्वभवन्
करालाः
।
अक्षस्थविष्ठा
मुमुचुस्तडिद्भिः
स्वनन्त
उच्चैरभिवर्षधाराः
12
▾
Meaning
Keep
ततो
व्यदृश्यन्त
चतुःसमुद्राः
समन्ततः
क्ष्मातलमाग्रसन्तः
।
समीरवेगोर्मिभिरुग्रनक्र-
महाभयावर्तगभीरघोषाः
13
▾
Meaning
Keep
अन्तर्बहिश्चाद्भिरतिद्युभिः
खरैः
शतह्रदाभिरुपतापितं
जगत्
।
चतुर्विधं
वीक्ष्य
सहात्मना
मुनि-
र्जलाप्लुतां
क्ष्मां
विमनाः
समत्रसत्
14
▾
Meaning
Keep
तस्यैवमुद्वीक्षत
ऊर्मिभीषणः
प्रभञ्जनाघूर्णितवार्महार्णवः
।
आपूर्यमाणो
वरषद्भिरम्बुदैः
क्ष्मामप्यधाद्द्वीपवर्षाद्रिभिः
समम्
15
▾
Meaning
Keep
सक्ष्मान्तरिक्षं
सदिवं
सभागणं
त्रैलोक्यमासीत्सह
दिग्भिराप्लुतम्
।
स
एक
एवोर्वरितो
महामुनि-
र्बभ्राम
विक्षिप्य
जटा
जडान्धवत्
16
▾
Meaning
Keep
क्षुत्तृट्परीतो
मकरैस्तिमिङ्गिलै-
रुपद्रुतो
वीचिनभस्वता
हतः
।
तमस्यपारे
पतितो
भ्रमन्
दिशो
न
वेद
खं
गां
च
परिश्रमेषितः
17
▾
Meaning
Keep
क्वचिद्गतो
महावर्ते
तरलैस्ताडितः
क्वचित्
।
यादोभिर्भक्ष्यते
क्वापि
स्वयमन्योन्यघातिभिः
18
▾
Meaning
Keep
क्वचिच्छोकं
क्वचिन्मोहं
क्वचिद्दुःखं
सुखं
भयम्
।
क्वचिन्मृत्युमवाप्नोति
व्याध्यादिभिरुतार्दितः
19
▾
Meaning
Keep
अयुतायुतवर्षाणां
सहस्राणि
शतानि
च
।
व्यतीयुर्भ्रमतस्तस्मिन्
विष्णुमायावृतात्मनः
20
▾
Meaning
Keep
स
कदाचिद्
भ्रमंस्तस्मिन्
पृथिव्याः
ककुदि
द्विजः
।
न्याग्रोधपोतं
ददृशे
फलपल्लवशोभितम्
21
▾
Meaning
Keep
प्रागुत्तरस्यां
शाखायां
तस्यापि
ददृशे
शिशुम्
।
शयानं
पर्णपुटके
ग्रसन्तं
प्रभया
तमः
22
▾
Meaning
Keep
महामरकतश्यामं
श्रीमद्वदनपङ्कजम्
।
कम्बुग्रीवं
महोरस्कं
सुनसं
सुन्दरभ्रुवम्
23
▾
Meaning
Keep
श्वासैजदलकाभातं
कम्बुश्रीकर्णदाडिमम्
।
विद्रुमाधरभासेषच्छोणायितसुधास्मितम्
24
▾
Meaning
Keep
पद्मगर्भारुणापाङ्गं
हृद्यहासावलोकनम्
।
श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम्
25
▾
Meaning
Keep
चार्वङ्गुलिभ्यां
पाणिभ्यामुन्नीय
चरणाम्बुजम्
।
मुखे
निधाय
विप्रेन्द्रो
धयन्तं
वीक्ष्य
विस्मितः
26
▾
Meaning
Keep
तद्दर्शनाद्वीतपरिश्रमो
मुदा
प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः
।
प्रहृष्टरोमाद्भुतभावशङ्कितः
प्रष्टुं
पुरस्तं
प्रससार
बालकम्
27
▾
Meaning
Keep
तावच्छिशोर्वै
श्वसितेन
भार्गवः
सोऽन्तः
शरीरं
मशको
यथाविशत्
।
तत्राप्यदो
न्यस्तमचष्ट
कृत्स्नशो
यथा
पुरामुह्यदतीव
विस्मितः
28
▾
Meaning
Keep
खं
रोदसी
भागणानद्रिसागरान्
द्वीपान्
सवर्षान्
ककुभः
सुरासुरान्
।
वनानि
देशान्
सरितः
पुराकरान्
खेटान्
व्रजानाश्रमवर्णवृत्तयः
29
▾
Meaning
Keep
महान्ति
भूतान्यथ
भौतिकान्यसौ
कालं
च
नानायुगकल्पकल्पनम्
।
यत्
किंचिदन्यद्
व्यवहारकारणं
ददर्श
विश्वं
सदिवावभासितम्
30
▾
Meaning
Keep
हिमालयं
पुष्पवहां
च
तां
नदीं
निजाश्रमं
तत्र
ऋषीनपश्यत्
।
विश्वं
विपश्यञ्छ्वसिताच्छिशोर्वै
बहिर्निरस्तो
न्यपतल्लयाब्धौ
31
▾
Meaning
Keep
तस्मिन्
पृथिव्याः
ककुदि
प्ररूढं
वटं
च
तत्पर्णपुटे
शयानम्
।
तोकं
च
तत्प्रेमसुधास्मितेन
निरीक्षितोऽपाङ्गनिरीक्षणेन
32
▾
Meaning
Keep
अथ
तं
बालकं
वीक्ष्य
नेत्राभ्यां
धिष्ठितं
हृदि
।
अभ्ययादतिसंक्लिष्टः
परिष्वक्तुमधोक्षजम्
33
▾
Meaning
Keep
तावत्
स
भगवान्
साक्षाद्
योगाधीशो
गुहाशयः
।
अन्तर्दध
ऋषेः
सद्यो
यथेहानीशनिर्मिता
34
▾
Meaning
Keep
तमन्वथ
वटो
ब्रह्मन्
सलिलं
लोकसम्प्लवः
।
तिरोधायि
क्षणादस्य
स्वाश्रमे
पूर्ववत्स्थितः
Previous
←
Markandeya's Austerity
Next
Siva Comes to Markandeya
→