Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Lord's Emblems, and the Sun's Twelve Companies
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथेममर्थं
पृच्छामो
भवन्तं
बहुवित्तमम्
।
समस्ततन्त्रराद्धान्ते
भवान्
भागवततत्त्ववित्
2
▾
Meaning
Keep
तान्त्रिकाः
परिचर्यायां
केवलस्य
श्रियः
पतेः
।
अङ्गोपाङ्गायुधाकल्पं
कल्पयन्ति
यथा
च
यैः
3
▾
Meaning
Keep
तन्नो
वर्णय
भद्रं
ते
क्रियायोगं
बुभुत्सताम्
।
येन
क्रियानैपुणेन
मर्त्यो
यायादमर्त्यताम्
4
▾
Meaning
Keep
नमस्कृत्य
गुरून्
वक्ष्ये
विभूतीर्वैष्णवीरपि
।
याः
प्रोक्ता
वेदतन्त्राभ्यामाचार्यैः
पद्मजादिभिः
5
▾
Meaning
Keep
मायाद्यैर्नवभिस्तत्त्वैः
स
विकारमयो
विराट्
।
निर्मितो
दृश्यते
यत्र
सचित्के
भुवनत्रयम्
6
▾
Meaning
Keep
एतद्वै
पौरुषं
रूपं
भूः
पादौ
द्यौः
शिरो
नभः
।
नाभिः
सूर्योऽक्षिणी
नासे
वायुः
कर्णौ
दिशः
प्रभोः
7
▾
Meaning
Keep
प्रजापतिः
प्रजननमपानो
मृत्युरीशितुः
।
तद्बाहवो
लोकपाला
मनश्चन्द्रो
भ्रुवौ
यमः
8
▾
Meaning
Keep
लज्जोत्तरोऽधरो
लोभो
दन्ता
ज्योत्स्ना
स्मयो
भ्रमः
।
रोमाणि
भूरुहा
भूम्नो
मेघाः
पुरुषमूर्धजाः
9
▾
Meaning
Keep
यावानयं
वै
पुरुषो
यावत्या
संस्थया
मितः
।
तावानसावपि
महापुरुषो
लोकसंस्थया
10
▾
Meaning
Keep
कौस्तुभव्यपदेशेन
स्वात्मज्योतिर्बिभर्त्यजः
।
तत्प्रभा
व्यापिनी
साक्षात्
श्रीवत्समुरसा
विभुः
11
▾
Meaning
Keep
स्वमायां
वनमालाख्यां
नानागुणमयीं
दधत्
।
वासश्छन्दोमयं
पीतं
ब्रह्मसूत्रं
त्रिवृत्स्वरम्
12
▾
Meaning
Keep
बिभर्ति
सांख्यं
योगं
च
देवो
मकरकुण्डले
।
मौलिं
पदं
पारमेष्ठ्यं
सर्वलोकाभयङ्करम्
13
▾
Meaning
Keep
अव्याकृतमनन्ताख्यमासनं
यदधिष्ठितः
।
धर्मज्ञानादिभिर्युक्तं
सत्त्वं
पद्ममिहोच्यते
14
▾
Meaning
Keep
ओजःसहोबलयुतं
मुख्यतत्त्वं
गदां
दधत्
।
अपां
तत्त्वं
दरवरं
तेजस्तत्त्वं
सुदर्शनम्
15
▾
Meaning
Keep
नभोनिभं
नभस्तत्त्वमसिं
चर्म
तमोमयम्
।
कालरूपं
धनुः
शार्ङ्गं
तथा
कर्ममयेषुधिम्
16
▾
Meaning
Keep
इन्द्रियाणि
शरानाहुराकूतीरस्य
स्यन्दनम्
।
तन्मात्राण्यस्याभिव्यक्तिं
मुद्रयार्थक्रियात्मताम्
17
▾
Meaning
Keep
मण्डलं
देवयजनं
दीक्षा
संस्कार
आत्मनः
।
परिचर्या
भगवत
आत्मनो
दुरितक्षयः
18
▾
Meaning
Keep
भगवान्
भगशब्दार्थं
लीलाकमलमुद्वहन्
।
धर्मं
यशश्च
भगवांश्चामरव्यजनेऽभजत्
19
▾
Meaning
Keep
आतपत्रं
तु
वैकुण्ठं
द्विजा
धामाकुतोभयम्
।
त्रिवृद्वेदः
सुपर्णाख्यो
यज्ञं
वहति
पूरुषम्
20
▾
Meaning
Keep
अनपायिनी
भगवती
श्रीः
साक्षादात्मनो
हरेः
।
विष्वक्सेनस्तन्त्रमूर्तिर्विदितः
पार्षदाधिपः
।
नन्दादयोऽष्टौ
द्वाःस्थाश्च
तेऽणिमाद्या
हरेर्गुणाः
21
▾
Meaning
Keep
वासुदेवः
सङ्कर्षणः
प्रद्युम्नः
पुरुषः
स्वयम्
।
अनिरुद्ध
इति
ब्रह्मन्
मूर्तिव्यूहोऽभिधीयते
22
▾
Meaning
Keep
स
विश्वस्तैजसः
प्राज्ञस्तुरीय
इति
वृत्तिभिः
।
अर्थेन्द्रियाशयज्ञानैर्भगवान्
परिभाव्यते
23
▾
Meaning
Keep
अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम्
।
बिभर्ति
स्म
चतुर्मूर्तिर्भगवान्
हरिरीश्वरः
24
▾
Meaning
Keep
द्विजऋषभ
स
एष
ब्रह्मयोनिः
स्वयंदृक्
स्वमहिमपरिपूर्णो
मायया
च
स्वयैतत्
।
सृजति
हरति
पातीत्याख्ययानावृताक्षो
विवृत
इव
निरुक्तस्तत्परैरात्मलभ्यः
25
▾
Meaning
Keep
श्रीकृष्ण
कृष्णसख
वृष्ण्यृषभावनिध्रुग्-
राजन्यवंशदहनानपवर्गवीर्य
।
गोविन्द
गोपवनिताव्रजभृत्यगीत-
तीर्थश्रवः
श्रवणमङ्गल
पाहि
भृत्यान्
26
▾
Meaning
Keep
य
इदं
कल्य
उत्थाय
महापुरुषलक्षणम्
।
तच्चित्तः
प्रयतो
जप्त्वा
ब्रह्म
वेद
गुहाशयम्
27
▾
Meaning
Keep
शुको
यदाह
भगवान्
विष्णुराताय
शृण्वते
।
सौरो
गणो
मासि
मासि
नाना
वसति
सप्तकः
28
▾
Meaning
Keep
तेषां
नामानि
कर्माणि
संयुक्तानामधीश्वरैः
।
ब्रूहि
नः
श्रद्दधानानां
व्यूहं
सूर्यात्मनो
हरेः
29
▾
Meaning
Keep
अनाद्यविद्यया
विष्णोरात्मनः
सर्वदेहिनाम्
।
निर्मितो
लोकतन्त्रोऽयं
लोकेषु
परिवर्तते
30
▾
Meaning
Keep
एक
एव
हि
लोकानां
सूर्य
आत्माऽऽदिकृद्धरिः
।
सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः
31
▾
Meaning
Keep
कालो
देशः
क्रिया
कर्ता
करणं
कार्यमागमः
।
द्रव्यं
फलमिति
ब्रह्मन्नवधोक्तोऽजया
हरिः
32
▾
Meaning
Keep
मध्वादिषु
द्वादशसु
भगवान्
कालरूपधृक्
।
लोकतन्त्राय
चरति
पृथग्द्वादशभिर्गणैः
33
▾
Meaning
Keep
धाता
कृतस्थली
हेतिर्वासुकी
रथकृन्मुने
।
पुलस्त्यस्तुम्बुरुरिति
मधुमासं
नयन्त्यमी
34
▾
Meaning
Keep
अर्यमा
पुलहोऽथौजाः
प्रहेतिः
पुञ्जिकस्थली
।
नारदः
कच्छनीरश्च
नयन्त्येते
स्म
माधवम्
35
▾
Meaning
Keep
मित्रोऽत्रिः
पौरुषेयोऽथ
तक्षको
मेनका
हहाः
।
रथस्वन
इति
ह्येते
शुक्रमासं
नयन्त्यमी
36
▾
Meaning
Keep
वसिष्ठो
वरुणो
रम्भा
सहजन्यस्तथा
हुहूः
।
शुक्रश्चित्रस्वनश्चैव
शुचिमासं
नयन्त्यमी
37
▾
Meaning
Keep
इन्द्रो
विश्वावसुः
श्रोता
एलापत्रस्तथाङ्गिराः
।
प्रम्लोचा
राक्षसो
वर्यो
नभोमासं
नयन्त्यमी
38
▾
Meaning
Keep
विवस्वानुग्रसेनश्च
व्याघ्र
आसारणो
भृगुः
।
अनुम्लोचा
शङ्खपालो
नभस्याख्यं
नयन्त्यमी
39
▾
Meaning
Keep
पूषा
धनञ्जयो
वातः
सुषेणः
सुरुचिस्तथा
।
घृताची
गौतमश्चेति
तपोमासं
नयन्त्यमी
40
▾
Meaning
Keep
ऋतुर्वर्चा
भरद्वाजः
पर्जन्यः
सेनजित्तथा
।
विश्व
ऐरावतश्चैव
तपस्याख्यं
नयन्त्यमी
41
▾
Meaning
Keep
अथांशुः
कश्यपस्तार्क्ष्य
ऋतसेनस्तथोर्वशी
।
विद्युच्छत्रुर्महाशङ्खः
सहोमासं
नयन्त्यमी
42
▾
Meaning
Keep
भगः
स्फूर्जोऽरिष्टनेमिरूर्ण
आयुश्च
पञ्चमः
।
कर्कोटकः
पूर्वचित्तिः
पुष्यमासं
नयन्त्यमी
43
▾
Meaning
Keep
त्वष्टा
ऋचीकतनयः
कम्बलश्च
तिलोत्तमा
।
ब्रह्मापेतोऽथ
शतजिद्धृतराष्ट्र
इषम्भराः
44
▾
Meaning
Keep
विष्णुरश्वतरो
रम्भा
सूर्यवर्चाश्च
सत्यजित्
।
विश्वामित्रो
मखापेत
ऊर्जमासं
नयन्त्यमी
45
▾
Meaning
Keep
एता
भगवतो
विष्णोरादित्यस्य
विभूतयः
।
स्मरतां
सन्ध्ययोर्नॄणां
हरन्त्यंहो
दिने
दिने
46
▾
Meaning
Keep
द्वादशस्वपि
मासेषु
देवोऽसौ
षड्भिरस्य
वै
।
चरन्
समन्तात्तनुते
परत्रेह
च
सन्मतिम्
47
▾
Meaning
Keep
सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः
संस्तुवन्त्यमुम्
।
गन्धर्वास्तं
प्रगायन्ति
नृत्यन्त्यप्सरसोऽग्रतः
48
▾
Meaning
Keep
उन्नह्यन्ति
रथं
नागा
ग्रामण्यो
रथयोजकाः
।
चोदयन्ति
रथं
पृष्ठे
नैरृता
बलशालिनः
49
▾
Meaning
Keep
वालखिल्याः
सहस्राणि
षष्टिर्ब्रह्मर्षयोऽमलाः
।
पुरतोऽभिमुखं
यान्ति
स्तुवन्ति
स्तुतिभिर्विभुम्
50
▾
Meaning
Keep
एवं
ह्यनादिनिधनो
भगवान्
हरिरीश्वरः
।
कल्पे
कल्पे
स्वमात्मानं
व्यूह्य
लोकानवत्यजः
Previous
←
Siva Comes to Markandeya
Next
What This Book Has Told
→