Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Counts, and the Last Bows
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यं
ब्रह्मा
वरुणेन्द्ररुद्रमरुतः
स्तुन्वन्ति
दिव्यैः
स्तवै-
र्वेदैः
साङ्गपदक्रमोपनिषदैर्गायन्ति
यं
सामगाः
।
ध्यानावस्थिततद्गतेन
मनसा
पश्यन्ति
यं
योगिनो
यस्यान्तं
न
विदुः
सुरासुरगणा
देवाय
तस्मै
नमः
2
▾
Meaning
Keep
पृष्ठे
भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना-
न्निद्रालोः
कमठाकृतेर्भगवतः
श्वासानिलाः
पान्तु
वः
।
यत्संस्कारकलानुवर्तनवशाद्
वेलानिभेनाम्भसां
यातायातमतन्द्रितं
जलनिधेर्नाद्यापि
विश्राम्यति
3
▾
Meaning
Keep
पुराणसंख्यासम्भूतिमस्य
वाच्यप्रयोजने
।
दानं
दानस्य
माहात्म्यं
पाठादेश्च
निबोधत
4
▾
Meaning
Keep
ब्राह्मं
दशसहस्राणि
पाद्मं
पञ्चोनषष्टि
च
।
श्रीवैष्णवं
त्रयोविंशच्चतुर्विंशति
शैवकम्
5
▾
Meaning
Keep
दशाष्टौ
श्रीभागवतं
नारदं
पञ्चविंशति
।
मार्कण्डं
नव
वाह्नं
च
दशपञ्च
चतुःशतम्
6
▾
Meaning
Keep
चतुर्दश
भविष्यं
स्यात्तथा
पञ्चशतानि
च
।
दशाष्टौ
ब्रह्मवैवर्तं
लैङ्गमेकादशैव
तु
7
▾
Meaning
Keep
चतुर्विंशति
वाराहमेकाशीतिसहस्रकम्
।
स्कान्दं
शतं
तथा
चैकं
वामनं
दश
कीर्तितम्
8
▾
Meaning
Keep
कौर्मं
सप्तदशाख्यातं
मात्स्यं
तत्तु
चतुर्दश
।
एकोनविंशत्सौपर्णं
ब्रह्माण्डं
द्वादशैव
तु
9
▾
Meaning
Keep
एवं
पुराणसन्दोहश्चतुर्लक्ष
उदाहृतः
।
तत्राष्टादशसाहस्रं
श्रीभागवतमिष्यते
10
▾
Meaning
Keep
इदं
भगवता
पूर्वं
ब्रह्मणे
नाभिपङ्कजे
।
स्थिताय
भवभीताय
कारुण्यात्सम्प्रकाशितम्
11
▾
Meaning
Keep
आदिमध्यावसानेषु
वैराग्याख्यानसंयुतम्
।
हरिलीलाकथाव्राता
मृतानन्दितसत्सुरम्
12
▾
Meaning
Keep
सर्ववेदान्तसारं
यद्ब्रह्मात्मैकत्वलक्षणम्
।
वस्त्वद्वितीयं
तन्निष्ठं
कैवल्यैकप्रयोजनम्
13
▾
Meaning
Keep
प्रौष्ठपद्यां
पौर्णमास्यां
हेमसिंहसमन्वितम्
।
ददाति
यो
भागवतं
स
याति
परमां
गतिम्
14
▾
Meaning
Keep
राजन्ते
तावदन्यानि
पुराणानि
सतां
गणे
।
यावन्न
दृश्यते
साक्षात्श्रीमद्भागवतं
परम्
15
▾
Meaning
Keep
सर्ववेदान्तसारं
हि
श्रीभागवतमिष्यते
।
तद्रसामृततृप्तस्य
नान्यत्र
स्याद्रतिः
क्वचित्
16
▾
Meaning
Keep
निम्नगानां
यथा
गङ्गा
देवानामच्युतो
यथा
।
वैष्णवानां
यथा
शम्भुः
पुराणानामिदं
तथा
17
▾
Meaning
Keep
क्षेत्राणां
चैव
सर्वेषां
यथा
काशी
ह्यनुत्तमा
।
तथा
पुराणव्रातानां
श्रीमद्भागवतं
द्विजाः
18
▾
Meaning
Keep
श्रीमद्भागवतं
पुराणममलं
यद्
वैष्णवानां
प्रियं
यस्मिन्
पारमहंस्यमेकममलं
ज्ञानं
परं
गीयते
।
तत्र
ज्ञानविरागभक्तिसहितं
नैष्कर्म्यमाविष्कृतं
तच्छृण्वन्
सुपठन्
विचारणपरो
भक्त्या
विमुच्येन्नरः
19
▾
Meaning
Keep
कस्मै
येन
विभासितोऽयमतुलो
ज्ञानप्रदीपः
पुरा
तद्रूपेण
च
नारदाय
मुनये
कृष्णाय
तद्रूपिणा
।
योगीन्द्राय
तदात्मनाथ
भगवद्राताय
कारुण्यत-
स्तच्छुद्धं
विमलं
विशोकममृतं
सत्यं
परं
धीमहि
20
▾
Meaning
Keep
नमस्तस्मै
भगवते
वासुदेवाय
साक्षिणे
।
य
इदं
कृपया
कस्मै
व्याचचक्षे
मुमुक्षवे
21
▾
Meaning
Keep
योगीन्द्राय
नमस्तस्मै
शुकाय
ब्रह्मरूपिणे
।
संसारसर्पदष्टं
यो
विष्णुरातममूमुचत्
22
▾
Meaning
Keep
भवे
भवे
यथा
भक्तिः
पादयोस्तव
जायते
।
तथा
कुरुष्व
देवेश
नाथस्त्वं
नो
यतः
प्रभो
23
▾
Meaning
Keep
नामसङ्कीर्तनं
यस्य
सर्वपापप्रणाशनम्
।
प्रणामो
दुःखशमनस्तं
नमामि
हरिं
परम्
Previous
←
What This Book Has Told