Dialogues with the Guru

SANSKRIT TEXT OF THE FOREWORD

॥ श्रीगुरुभ्यो नमः ॥

तत्तादृक्प्रथितमहामहिमभूमिभिः मूर्तिमन्मेधाप्रतिभाभिः विद्वद्बृन्दविस्मापकपाण्डित्यवैखरीविराजमानैः शिष्टजनसंस्तूयमानसत्कर्मसदाचारपरायणैः श्रीशृङ्गिरिव्याख्यानभद्रपीठाधिपैः आचार्यप्राचार्यैः छात्रलोकानुजिघृक्षया समादृतदेशाटनसमये, तत्र तत्र समागतान् विनेयवरान् अभ्युदयनिश्श्रेयसपात्रमाधातुकामैः उपदिष्टान् परमार्थान् यथामति सङ्गृह्य, माधुकरवृत्त्या तान् एकत्र संयोज्य, ' एकः स्वादु न भुञ्जीत ' इत्यभियुक्तोक्तिमनुसृत्य तिरस्कृतसुधामाधुर्यगर्वां श्रीमदाचार्यमुखारविन्दविनिस्सृतां वाङ्मरन्दझरीं, भगवता महाविष्णुना संसाधितसुधास्वादनमिवामरबृन्दस्य परानप्यास्तिकसहोदरान् भोजयितुकामैः शालिवाटीपुरमधिवसद्भिः श्रीमत्कृष्णस्वामिशर्मभिः सुललितं सुसन्दर्भं सुगमं च गुरुशिष्य संवादरूपेण सङ्ग्रथ्य संप्रेषितः प्रबन्धः मामतितरामानन्दयति स्म ॥

आजानसिद्धविनयविवेकादिगुणशालिभिः विशेषतो गुरुप्रसादलब्धवैदिकश्रद्धासाधनैः ब्रह्मश्रिया विराजितैः कृष्णस्वामिशर्मभिः साक्षादाचार्यमुखावाप्ततत्त्वार्थान् यथावत संधार्य चित्ते, अनुचिन्त्य वारं बारं, कृत्वा च यथासंभवमात्मोपयोगिनः परोपकारबुद्ध्या ग्रन्थरूपेण लेखनप्रयत्नः योऽयमाचरितः, स तु सर्वजनश्लाघायाः परां कोटिमावहतीत्यत्र न संदेहलेशोऽपीत्यावेदयति ॥

युववत्सरीयश्रावणकृष्णसप्तम्याम् , नञ्जङ्गोडुपुरीतः श्रीमदाचार्यकृपापात्रं तदनुगृहीत सदाचारप्रवर्तनप्रवीणपदलाञ्छनः श्रीकण्ठशास्त्री

Contents