108 Facets of the Inimitable Guru
Index to Quotations
| 1 | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् … श्रोत्रियं ब्रह्मनिष्ठम् ॥ | Muṇḍaka-upaniṣad 1.2.12 |
| 2 | ... अद्वैतं ... स आत्मा स विज्ञेयः ॥ | Māṇḍūkya-upaniṣad 1.7 |
| 3 | सत्यं ज्ञानमनन्तं ब्रह्म । | Taittirīya-upaniṣad 2.1.1 |
| 4 | विज्ञानमानन्दं ब्रह्म । | Bṛhadāraṇyaka-upaniṣad 3.9.28 |
| 5 | निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः ॥ | Viveka-cūḍāmaṇi 363 |
| 6 | रसो वै सः । | Taittirīya Upaniṣad 2.7.1 |
| 7 | (ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।) निर्विकल्पा च चिन्मात्रा वृत्तिः … । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ | Viveka-cūḍāmaṇi 428 |
| 8 | जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिर्मुक्तिर्नो शतकोटिजन्मसुकृतैः पुण्यैर्विना लभ्यते ॥ | Viveka-cūḍāmaṇi 2 |
| 9 | भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ | Muṇḍaka-upaniṣad 2.2.8 |
| 10 | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते । | Bṛhadāraṇyaka-upaniṣad 4.4.7 |
| 11 | यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥ | Bhagavad-gītā 3.17 |
| 12 | को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततम् । | Praśnottara-ratnamālikā 2 |
| 13 | दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरोर्ज्ञानदातुः | Śataślokī 1 |
| 14 | … श्रितचरणयुगे सद्गुरुः स्वीयशिष्ये स्वीयं साम्यं विधत्ते… | Śataślokī 1 |
| 15 | अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ | Viveka-cūḍāmaṇi 35 |
| 16 | प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थदृग्व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान् हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥ | Viveka-cūḍāmaṇi 116 |
| 17 | द्यावाभूमी जनयन्देव एकः ॥ | Śvetāśvatara-upaniṣad 3.3 |
| 18 | द्यावाभूमी हि जनयन्देव एक इति श्रुतिः । यं वर्णयति सर्वेशं तं विद्यातीर्थमाश्रये ॥ | Abhinava-vidyātīrtha-akṣaramālā-stotra 4 |
| 19 | आकाशवत् सर्वगतश्च नित्यः । | Śatapatha-brāhmaṇa 10.6.3.2 |
| 20 | तमेवैकं जानथ आत्मानम् ; अन्या वाचो विमुञ्चथ ; अमृतस्यैष सेतुः । | Muṇḍaka-upaniṣad 2.2.5 |
| 21 | नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥ … असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ | Bhagavad-gītā 3.8, 3.9, 3.19 |
| 22 | दीर्घचतुरस्रस्याक्ष्णया रज्जुःपार्श्वमानी तिर्यङ्मानी च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥ | Bodhāyana’s Śulba-sūtra 1.48 |
| 23 | अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ | Bhagavad-gītā 15.14 |
| 24 | अन्नपूर्णे सादापूर्णे शङ्करप्राणवल्लभे । ज्ञानवैराग्यसिद्धयर्थं भिक्षां देहि च पार्वति ॥ | Annapūrṇā-stotra 11 |
| 25 | श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥ | Bhāgavata-purāṇa 7.5.23 |
| 26 | ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ | Viṣṇu-purāṇa 6.2.17 |
| 27 | मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ | Viṣṇu-purāṇa 6.8.55 |
| 28 | ज्ञानतोऽज्ञानतो वाऽपि वासुदेवस्य कीर्तनात् । तत्सर्वं विलयं याति तोयस्थं लवणं यथा ॥ | Quoted in Śaṅkara-bhāṣya on Viṣṇu-sahasranāma |
| 29 | सा रसना … या … भर्गं … वदति | Śivānanda-laharī 94 |
| 30 | ஈச னடிபோற்றி யெந்தை யடிபோற்றி. தேச னடிபோற்றி சிவன்சே வடிபோற்றி. நேயத்தே நின்ற நிமல னடிபோற்றி. மாயப் பிறப்பறுக்கு மன்ன னடிபோற்றி. சீரார் பெருந்துறைநந் தேவ னடிபோற்றி. | Thiruvachakam 1.11, 1.12, 1.13, 1.14, 1.15 |
| 31 | विशुद्धज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे । श्रेय:प्राप्तिनिमित्ताय नम: सोमार्धधारिणे ॥ | Kīlaka-stotra 1 |
| 32 | नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ | Sarasvatī-rahasya-upaniṣad 17 |
| 33 | विद्यमानैः अविद्यमानैश्च गुणैः आत्मनि अध्यारोपितैः ‘विशिष्टमात्मानमहम्’ इति मन्यते, सः अहङ्कारः | Śaṅkara-bhāṣya on Bhagavad-gītā 16.18 |
| 34 | अहङ्कारं … विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ | Bhagavad-gītā 18.53 |
| 35 | देहजीवनमात्रेऽपि निर्गतममभावः निर्ममः | Śaṅkara-bhāṣya on Bhagavad-gītā 18.53 |
| 36 | त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे मानावमानसदृशा: | Dhanyāṣṭaka 4 |
| 37 | अमी यमीन्द्राः सहजामनस्कादहंममत्वे शिथिलायमाने । मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम्॥ | Yoga-tārāvalī 22 |
| 38 | सा त्वस्मिन् परमप्रेमरूपा ॥ | Nārada-bhakti-sūtra 2 |
| 39 | आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः॥ | Bhāgavata-purāṇa 1.7.10 |
| 40 | यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते(ऽ)कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ | Śvetāśvatara-upaniṣad 6.23 |
| 41 | आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने । मतञ्च वासुदेवस्य तस्मादागममुच्यते ॥ मलत्रयविनाशत्वादागम: परिकीर्तित: ॥ | Traditional sayings |
| 42 | सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनं । साधनञ्चैव सर्वेषां पुरश्चरणमेव च ॥ षट्कर्मसाधनं चैव ध्यानयोगश्चतुर्विधः । सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः ॥ | |
| 43 | सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥ | Vālmīki-Rāmāyaṇa 6.18.33 |
| 44 | योगक्षेमं वहाम्यहम् ॥ | Bhagavad-gītā 9.22 |
| 45 | ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ | Bhagavad-gītā 2.62, 2.63 |
| 46 | काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ | Bhagavad-gītā 3.37 |
| 47 | यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके। हितं करोत्यस्य यमोऽप्रियः सन्कामस्त्वनर्थं कुरुते प्रियः सन्॥ यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन्। कामः सतामेव गतिं निरुन्धन्करोत्यनर्थं ह्यसतां नु का कथा॥ | Sarva-vedānta-siddhānta-sāra-saṅgraha 56, 57 |
| 48 | यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् । गृहेषु खगवत्सक्तस्तमारूढ-च्युतं विदुः ॥ सुखमैन्द्रियकं राजन्स्वर्गे नरक एव च । देहिनां यद्यथा दुःखं तस्मान्नेच्छेत तद्बुधः ॥ | Bhāgavata-purāṇa 11.7.74, 11.8.1 |
| 49 | शान्तिमाप्नोति न कामकामी | Bhagavad-gītā 2.70 |
| 50 | दोषदृष्ट्या मुहुर्मुहुः | Viveka-cūḍāmaṇi 22 |
| 51 | देशबन्धः चित्तस्य धारणा ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधि: ॥ | Yoga-sūtras 3.1, 3.2, 3.3 |
| 52 | सद्रत्नगर्भ-हेरम्ब-पूजकः | Bhagavatpāda’s aṣṭottara-śata-nāmāvali (nāma 105) |
| 53 | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ | Kaivalya-upaniṣad 7 |
| 54 | वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् | Śaṅkara-bhāṣya on Bhagavad-gītā 6.35 |
| 55 | ब्रह्मविदश्च आप्तकामत्वात् आप्तकामस्य कामानुपपत्तेः | Śaṅkara-bhāṣya on Bṛhadāraṇyaka-upaniṣad 2.4 |
| 56 | निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः | Śaṅkara-bhāṣya on Bhagavad-gītā 2.71 |
| 57 | किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । | Bhagavad-gītā 4.16 |
| 58 | तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ | Bhagavad-gītā 4.16 |
| 59 | कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ | Bhagavad-gītā 4.18 |
| 60 | न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । | Bṛhadāraṇyaka-upaniṣad 2.4.5 |
| 61 | यत्प्रीत्या प्रीतिपात्रं तनुयुवतीतनूजार्थमुख्यं स तस्मात्प्रेयानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् । | Śataślokī 9 |
| 62 | यस्माद्यावत्सुखं स्यादिह हि विषयतस्तावदस्मिन्प्रियत्वं यावद्दुखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम् । नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाप्यप्रियोऽपि प्रियः स्यात्प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥ | Śataślokī 10 |
| 63 | कृपानुकम्पा कारुण्यमानृशंस्यं च भारत । तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥ | Mahābhārata 5.95.6 |
| 64 | कृपा परस्य सुखार्थे यत्नः। अनुकम्पा परदुःखदर्शने त्रासः। कारुण्यं परदुःखप्रहाणार्थो यत्नः। आनृशंस्यं परदुःखाप्रदानम् ॥ | Nīlakaṇṭha’s gloss on Mahābhārata 5.95.6 |
| 65 | यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । | Kṛṣṇa-yajurveda-taittirīya-āraṇyaka 1.23.1 |
| 66 | मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । | Samayocita-padya-mālikā 22.7 |
| 67 | नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् । | Yājñavalkya-upaniṣad 21 |
| 68 | अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः । बहिः सर्वसमाचारो लोके विहर राघव ॥ बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥ | Laghu-yoga-vāśiṣṭha 5.2.56, 5.2.57 |
| 69 | असौ स्वपुत्रमित्रकलत्रबन्ध्वादीन् शिखायज्ञोपवीते स्वाध्यायं च सर्वकर्माणि संन्यस्य, अयं ब्रह्माण्डं च हित्वा, कौपीनं दण्डम् आच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् | Paramahaṁsa-upaniṣad 1 |
| 70 | पादादिमस्तकप्रमाणम् अव्रणं समं सौम्यमकाकपृष्ठं सलक्षणं वैणवं दण्डमेकम् आचमनपूर्वकं ‘सखा मा गोपायौजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रग्नः शर्म मे भव यत्पापं तन्निवारय’ इति दण्डं परिग्रहेत् | Nārada-parivrājaka-upaniṣad 4.39 |
| 71 | कौपीनाधारं कटिसूत्रमोमिति गुह्याच्छादकं कौपीनमोमिति शीतवातोष्ण-त्राणकरं देहैकरक्षणमोमिति कटिसूत्र-कौपीन-वस्त्रम् आचमनपूर्वकं योगपट्टाभिषिक्तो भूत्वा कृतार्थोऽहमिति मत्वा स्वाश्रमाचारपरो भवेत् | Nārada-parivrājaka-upaniṣad 4.39 |
| 72 | गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ॥ | Guru-gītā 1.53 |
| 73 | मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ | Gurvaṣṭaka |
| 74 | आस्ते देशिकचरणं निरवधिरास्ते तदीक्षणे करुणा । आस्ते किमपि तदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥ | Svātma-nirūpaṇa 147 |
| 75 | सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी शुश्रूषुस्त्यक्तमानः प्रणिपतनपरः प्रश्नकालप्रतीक्षः । शान्तो दान्तोऽनसूयश्शरणमुपगतश्शास्त्रविश्वासशाली शिष्यः प्राप्तः परीक्षां कृतविदभिमतं तत्त्वतश्शिक्षणीयः॥ | Nyāsa-viṁśati 2 |
| 76 | सदाऽऽत्मध्याननिरतं विषयेभ्यः पराङ्मुखम् । नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥ | Verse composed by His Holiness on His Guru |
| 77 | पादप्रभाविनिर्धूताविद्यान्धतमसाय ते । यतये चितिनिर्विष्टचित्तायस्तु नमो मम ॥ | Verse composed by His Holiness on His Guru |
| 78 | श्रीमद्विष्णुपदाऽऽलम्बं वेदान्तामृतवर्षिणम् । लोकसन्तापशमन् वन्देऽभ्रसदृशं गुरुम् ॥ | Verse composed by His Holiness on His Guru |
| 79 | विनयावनतः श्रीमद्गुरुपादाम्बुजन्मनी । दयामरन्दे शिष्यालिश्चुम्बति श्रद्धया सदा ॥ | Verse composed by His Holiness on His Guru |
| 80 | गुरुवरचरणौ भक्त्या नित्यं प्रणमामि भक्तकरुणालू । यद्भानुलेशपातो हृदयध्वान्तानि सन्ततं हन्ति ॥ | Verse composed by His Holiness on His Guru |
| 81 | श्रीमद्गुरुवरान्वन्दे वन्दारुजनवत्सलान् । यद्पादाब्जदयालेशो भवकान्तारतारकः ॥ | Verse composed by His Holiness on His Guru |
| 82 | श्रुतिमस्तकभूषायमाणपादसरोरुहम् । नतार्तिहरणं कुर्वे शरणं देशिकारुणम् ॥ | Verse composed by His Holiness on His Guru |
| 83 | किरीटयाम्युत्तमाङ्गे पादुके देशिकस्य ते । ययोः स्मृतेर्हि लोकानां स्वान्तध्वान्तं प्रणश्यति ॥ | Verse composed by His Holiness on His Guru |
| 84 | श्रीमतां देशिकेन्द्राणां पादपद्मे नमाम्यहम् । मन्दोऽपि वन्दनाद्येषां विन्देत गुरुतुल्यताम् ॥ | Verse composed by His Holiness on His Guru |
| 85 | अविद्याध्वान्तानां दिनमणिरनन्तान्तरगतो विषीदद्विद्वद्धृत्कुमुदवनराका-हिमकरः । पराध्वामित्राणां विषयगहनानां हुतवहो गुरुस्तेजोरूपो जयति जनताऽऽनन्दथुरयम् ॥ | Verse composed by His Holiness on His Guru |
| 86 | वन्दे वन्दारुमन्दारं वन्दनीयं बुधोत्तमैः । आनन्दकन्दलं तीर्थवारिधिं देशिकोत्तमम् ॥ | Verse composed by His Holiness on His Guru |
| 87 | दिदृक्षामि भवव्याधिशमने दिव्यमौषधम् । यदालोकेन लभते शान्तिं तद्देशिकं जनः ॥ | Verse composed by His Holiness on His Guru |
| 88 | अविद्या-अस्मिता-राग-द्वेष-अभिनिवेशाः पञ्च क्लेशाः ॥ | Yoga-sūtra 2.3 |
| 89 | गेयं गीतानामसहस्रम् | Moha-mudgara 27 |
| 90 | चिता चिन्ता द्वयोर्मध्ये चिन्ता नाम गरीयसी । चिता दहति निर्जीवं चिन्ता दहति जीवितम् ॥ | Subhāṣita |
| 91 | मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ | Bhagavad-gītā 3.30 |
| 92 | चिन्ता नास्ति किल तेषां चिन्ता नास्ति किल । शमदमकरुणासम्पूर्णानां साधुसमागमसङ्कीर्णानाम् ॥ कालत्रयजितकन्दर्पाणां खण्डितसर्वेन्द्रियदर्पाणाम् ॥ परमहंसगुरुपदचित्तानां ब्रह्मानन्दामृतमत्तानाम् ॥ | Śrī Sadāśiva-Brahmendra’s musical composition |
| 93 | यत्र गंगा च यमुना यत्र चैव सरस्वती । तं देवतीर्थप्रवरं देवानामपि दुर्लभम् ॥ ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति । तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम् । | Padma-purāṇa 6.24.2, 6.24.3, 6.24.4 |
| 94 | प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ॥ श्रवणात् तस्य तीर्थस्य नामसंकीर्तनादपि। मृत्तिकालम्भनाद्वापि नरः पापात् प्रमुच्यते ॥ | Mahābhārata 3.83.74, 3.83.75 |
| 95 | बुद्धितो वाऽबुद्धितो वा बाल्यतो लाल्यतोऽपि वा । मया ह्यागांसि जातानि क्षन्तुमर्हन्ति देशिकाः ॥ | Verse composed by His Holiness in a letter to His Guru |
| 96 | शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः॥ | Dakṣiṇāmūrti-upaniṣad 31 |
| 97 | स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्याज्ञानमुद्राः कराब्जैः । दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ | Dakṣiṇāmūrti-upaniṣad 3 (Dhyāna-śloka of Medhā-Dakṣiṇāmūrti-mantra) |
| 98 | वटमूलं परित्यज्य शृङ्गाद्रौ निवसन्हि यः । तत्त्वं बोधयते भक्तान् दक्षिणास्यं तमाश्रये ॥ | Abhinava-vidyātīrtha-akṣaramālā-stotra 4 |
| 99 | भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमाननित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ | Bhagavatpāda’s Dakṣiṇāmūrti-stotra 9 |
| 100 | एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये | Nīti-śataka 75 |
| 101 | सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात् । | Śaṅkara-bhāṣya on Bhagavad-gītā 2.55 |
| 102 | बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ | Naiṣkarmya-siddhi 4.62 |
| 103 | पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन | Bṛhadāraṇyaka-upaniṣad 3.2.13 |
| 104 | यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ॥ | Vaiśeṣika-sūtra 1.1.2 |
| 105 | तद्वचनादाम्नायस्य प्रामाण्यम् ॥ | Vaiśeṣika-sūtra 1.1.3 |
| 106 | तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ | Bhagavad-gītā 16.24 |
| 107 | वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ | Manu-smṛti 2.12 |
| 108 | आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ | Manu-smṛti 12.106 |
| 109 | परोपकृतिकैवल्ये तोलयित्वा जनार्दन: । गुर्वीमुपकृतिं मत्वाऽवतारान्दशाग्रहीत् ॥ | |
| 110 | परोपकृतिशून्यस्य धिङ्मनुष्यस्य जीवितम्। जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥ | |
| 111 | समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥ | Maitrāyaṇī-upaniṣad 4.4.9 |
| 112 | प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ | Bhagavad-gītā 6.27 |
| 113 | युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ | Bhagavad-gītā 6.28 |
| 114 | अनुष्ठातॄणां कामोद्भवात् हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे प्रवर्धमाने च अधर्मे... | Śaṅkara-bhāṣya on Bhagavad-gītā (introduction) |
| 115 | नहि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपितु विधेयं स्तोतुम् । | |
| 116 | विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय॥ | Subhāṣita |
| 117 | स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धर | Viveka-cūḍāmaṇi 37 |
| 118 | सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ | Bhagavad-gītā 18.66 |
| 119 | शौच-सन्तोष-तपस्-स्वाध्याय-ईश्वरप्रणिधानानि नियमाः ॥ | Yoga-sūtra 2.32 |
| 120 | शौचं मृज्जलाभ्यां बाह्यमलनिवृत्तिः मैत्र्यादिभावनायान्तरसूयादिमलनिवृत्तिः । सन्तोषो यथालाभपरितुष्टिः । तपः कायशोषणम् तदुक्तं योगयाज्ञवल्क्ये – ’विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्’ इति । स्वाध्यायो गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् ... ईश्वरप्रणिधानं नाम अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे फलानपेक्षतया समर्पणम् । | Śrī Sadāśivendra Sarasvatī’s Yoga-sudhākara 2.32 |
| 121 | धर्मो रक्षति रक्षितः । | Manu-smṛti 8.15 |
| 122 | श्रेयान्स्वधर्मः | Bhagavad-gītā 3.35 |
| 123 | सर्वे भवन्तु सुखिनः । | |
| 124 | द्वितीयाद्वै भयं भवति । | Bṛhadāraṇyaka-upaniṣad 1.4.2 |
| 125 | लब्धानुग्रह आचार्यात्तेन सन्दर्शितागमः। महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ | Bhāgavata-purāṇa 10.3.48 |
| 126 | सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ | Kaṭha-upaniṣad 1.2.15 |
| 127 | अकाले कृतमकृतम् । | Smṛti attributed to Vyāsa in Kṛṣṇa-yajurvedīya-sandhyā-bhāṣya by Vedāntī Sitarama Sastry |
| 128 | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् । | Bhagavad-gītā 2.40 |
| 129 | न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ | Bhāgavata-purāṇa 9.19.14 |
| 130 | आत्माकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्ती स्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन् । चाञ्चल्यं दुःखहेतुर्मनस इदमहो यावदिष्टार्थलब्धिस्तस्यां यावत्स्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ | Śataślokī 73 |
| 131 | संतुष्टस्य योगिनः सत्त्वोत्कर्षादन्तर्निरतिशयं सुखमाविर्भवति । न केवलमेवम् ; प्रत्युत वैषायिकं सुखं विषमिव प्रतिकूलं भवतीत्यर्थः। तदुक्तम् – ‘संतोषामृतपानेन ये शान्तास्तृप्तिमागताः । भोगश्रीरतुला तेषामेषा प्रतिविषीयते’ - इति ॥ | Śrī Sadāśivendra Sarasvatī’s Yoga-sudhākara 2.42 |
| 132 | विकारहेतावुत्पन्ने गाम्भीर्यं निर्विकारता, भीशोकक्रोधहर्षाद्यैर्गाम्भीर्य्यं निर्विकारता | Sāhitya-sāgara 4.58, Sāhitya-darpaṇa 3.62 |
| 133 | आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ | Hanumatkavi’s Mahānāṭaka 3.22 |
| 134 | तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ | Yoga-sūtra 2.49 |
| 135 | कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम्।बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः॥ उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत्। उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः। कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः॥ पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ | Haṭhayoga-pradīpikā 3.70, 3.57, 3.45, 3.61 |
| 136 | चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । | Haṭhayoga-pradīpikā 2.2 |
| 137 | धारणासु च योग्यता मनसः । | Yoga-sūtrā 2.53 |
| 138 | यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणधारणात् ॥ | Amrutanāda-upaniṣad 7 |
| 139 | प्रभाते बद्रिकारण्यं मध्यान्हे मणिकर्णिकाम् । भोजने तु जगन्नाथं शयने कृष्णद्वारिकाम् ॥ | |
| 140 | यद्वेदात्प्रभुसंमितादधिगतं शब्दप्रधानाच्चिरं यच्चार्थप्रवणात्पुराणवचनादिष्टं सुहृत्संमितात् | Pratāparudrīya 1.7 |
| 141 | यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः । न चेत्पुराणं सम्विद्यान्नैव स स्याद्विचक्षणः॥ | Vāyu-purāṇa 1.1.200 |
| 142 | सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ | Kūrma-purāṇa 1.12 |
| 143 | किरीटहारकेयूरकटकादिविभूषितम् ॥ शार्ङ्ग-शङ्ख-गदा-खड्ग-चक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ व्रजतस्तिष्ठतोऽन्यद्धा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ स यदा धारणा तद्वदवस्थानवती ततः । किरीट-केयूर-मुखैर्भूषणै रहितं स्मरेत् ॥ तदेकावयवं देवं चेतसा हि पुनर्बुधः ॥ | Viṣṇu-purāṇa 6.7.84, 6.7.85, 6.7.86, 6.7.87, 6.7.88, 6.7.89, 6.7.90 |
| 144 | तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद्बुधः सुस्मितं भावयेन्मुखम्॥ | Bhāgavata-purāṇa 11.14.43 |
| 145 | इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेद: मामयं प्रतरिष्यति ॥ | Mahābhārata 1.1.204 |
| 146 | ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति । यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥ | Mahābhārata 5.59.21 |
| 147 | दयासान्द्रं बालं निखिलजगतीरक्षणचणं हरन्तं विघ्नाद्रिं विमलविमलैर्वीक्षणचयैः । परब्रह्माकारं प्रणवविदितं शान्तमनसं गुरुं विद्यातीर्थं कलयत बुधाश्चित्तकमले ॥ | A composition on His Holiness by His Guru |
| 148 | कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ | Bhagavad-gītā 9.31 |
| 149 | अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वप्यचिन्तयत् । | Raghuvaṁsa 8.8 |
| 150 | आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः संवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ । द्रष्टोऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्दसिन्धावन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥ | Śataślokī 12 |
| 151 | ब्रह्मविदाप्नोति परम् । | Taittirīya-upaniṣad 2.1.1 |
| 152 | आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । | Taittirīya-upaniṣad 2.9.1 |
| 153 | यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । | Taittirīya-upaniṣad 2.7.1 |
| 154 | अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । | Brahmānicintana 1 |
| 155 | वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ | Chāndogya-upaniṣad 6.1.4 |
| 156 | ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् | Muṇḍaka-upaniṣad 1.1.1 |
| 157 | येनाक्षरं पुरुषं वेद सत्यं... तां तत्त्वतो ब्रह्मविद्याम् ॥ | Muṇḍaka-upaniṣad 1.2.13 |
| 158 | प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः । | Śaṅkara-bhāṣya on Taittirīya-upaniṣad 2.1.1 |
| 159 | न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति | Kaṭha-upaniṣad 1.2.8 |
| 160 | तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ | Bhagavad-gītā 14.8 |
| 161 | अज्ञानं तमसः फलम् ॥ | Bhagavad-gītā 14.16 |
| 162 | मातृदेवो भव । पितृदेवो भव । | Taittirīya-upaniṣad 1.11.2 |
| 163 | परमहंसः शिखायज्ञोपवीतरहितः...एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्धूलनपरः सर्वत्यागी । | Saṁnyāsa-upaniṣad 2.13 |
| 164 | तुरीयः परमो हंसः साक्षान्नारायणो यतिः । | Nārada-parivrājaka-upaniṣad 4.14 |
| 165 | अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् ॥ | Bṛhadāraṇyaka-upaniṣad 1.4.10 |
| 166 | यत्र... अन्यद्विजानाति तदल्पं... अथ यदल्पं तन्मर्त्यम् | Chāndogya-upaniṣad 7.24.1 |
| 167 | उदरमन्तरं कुरुते । अथ तस्य भयं भवति । | Taittirīya-upaniṣad 2.7.1 |
| 168 | यत्र ...नान्यद्विजानाति स भूमा... यो वै भूमा तदमृतम् | Chāndogya-upaniṣad 7.24.1 |
| 169 | प्रपञ्चोपशमं शान्तं शिवमद्वैतम् | Māṇḍūkya-upaniṣad 1.7 |
| 170 | चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥ | Bhagavad-gītā 7.16 |
| 171 | यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः । श्रीसुन्दरीसेवनतत्पराणां भोगश्च मोक्षश्च करस्थ एव ॥ | |
| 172 | शोकमोहभयायासादिदुःखदोषनिवर्तकत्वात्... विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः | Śaṅkara-bhāṣya on Bṛhadāraṇyaka-upaniṣad 1.4.7 |
| 173 | अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ | Kaṭha-upaniṣad 1.2.12 |
| 174 | सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ | Vairāgya-śataka 31 |
| 175 | विद्वान्न बिभेति कुतश्चन | Taittirīya-upaniṣad 2.9.1 |
| 176 | इष्टप्राप्तौ हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः | Śaṅkara-bhāṣya on Bhagavad-gītā 18.27 |
| 177 | हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ॥ | Āpastambha-dharma-sūtra 1.13.4 |
| 178 | योगस्थःकुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ | Bhagavad-gītā 2.48 |
| 179 | तरति शोकमात्मवित् | Chāndogya-upaniṣad 7.1.3 |
| 180 | मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेकः भ्रमः | Śaṅkara-bhāṣya on Bṛhadāraṇyaka-upaniṣad 3.5.1 |
| 181 | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ | Bhagavadgīṭa 2.37 |
| 182 | दुर्वारसंसारदवाग्नितप्तं...भीतं प्रपन्नं परिपाहि...निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा...तत्त्वोपदेशं कृपयैव कुर्यात् ॥ | Viveka-cūḍāmaṇi 38, 43, 44 |
| 183 | मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम्॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतमिति ॥ | Maitrāyaṇī-upaniṣad 4.6, 4.11 |
| 184 | प्रज्ञानं ब्रह्म । | Aitareya-upaniṣad 3.3 |
| 185 | अहं ब्रह्मास्मि । | Bṛhadāraṇyaka-upaniṣad 1.4.10 |
| 186 | तत्त्वमसि । | Chāndogya-upaniṣad 6.4.7, 6.10.3, 8.9.4 |
| 187 | अयमात्मा ब्रह्म । | Māṇḍūkya-upaniṣad 1.2 |
| 188 | विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥ | Ātma-vidyā-vilāsa 4 |
| 189 | शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया।आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥ | Bhagavad-gītā 6.25 |
| 190 | निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा।तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः॥समाधिनानेन समस्तवासनाग्रन्थे- र्विनाशोऽखिलकर्मनाशः।अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात्॥श्रुतेः शतगुणं विद्यान्मननं मननादपि।निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम्॥निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम्।नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत्॥ | Viveka-cūḍāmaṇi 363-366 |
| 191 | स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ | Chāndogya-upaniṣad 7.24.1 |
| 192 | न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ | Śvetāśvatara-upaniṣad 6.8 |
| 193 | सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ | Bhagavad-gītā 11.41, 11.42 |
| 194 | स्मृतिर्व्यतीतविषया मतिरागामिगोचरा । बुद्धिस्तत्कालिकी ज्ञेया प्रज्ञा त्रैकालिकी मता ॥ | From Bhaṭṭa Tauta’s Kāvya-kautuka, cited by Abhinavagupta in Kāvya-kautuka-vivaraṇa and Dhvanyāloka-locana |
| 195 | अभ्यसूयन्तो... विद्धि नष्टानचेतसः ॥ | Bhagavad-gītā 3.32 |
| 196 | इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ | Bhagavad-gītā 9.1 |
| 197 | प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभः | Śataślokī 18 |
| 198 | दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ | Nītiśataka 43 |
| 199 | दानेन अदानम् । | Sāma-veda, Arka-parvan 87 |
| 200 | दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकः | Śaṅkara-bhāṣya on Bhagavad-gītā 16.4 |
| 201 | मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ | Moha-mudgara 11 |
| 202 | अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । | Mahābhārata 12.17.18 |
| 203 | प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि।कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम्॥ | Kali-viḍaṁbana 60 |
| 204 | अभिमानी देवतात्मा... वाचि बुद्धौ च बृहस्पतिः | Śaṅkara-bhāṣya on Taittirīya-upaniṣad 1.1.1 |
| 205 | यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ | Bṛhadāraṇyaka-upaniṣad 3.7.17, 3.7.20 |
| 206 | यो बुद्धेः परतस्तु सः ॥ | Bhagavad-gītā 3.42 |
| 207 | यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । | Taittirīya-upaniṣad 2.9.1 |
| 208 | वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ | Madhurāṣṭakam 2 |
| 209 | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ | Bhagavad-gītā 3.35 |
| 210 | असम्प्रदायवित् सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः । | Śaṅkara-bhāṣya on Bhagavad-gītā 13.2 |
| 211 | मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ | Vālmīki-rāmāyaṇa 5.35.11 |
| 212 | गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लङ्घयेत् । | Guru-gītā 2.144 |
| 213 | यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ | Bhagavad-gītā 3.21 |
| 214 | அந்தண மரபினுக்கும் அருமறைப் பண்பினுக்கும் சந்ததம் இன்பமோங்கத் தருண மா மழைபோலிங்கே வந்தனன் வித்யா தீர்த்த மாமுநிவரன் என் அண்ணல் முந்தவன் சேவை செய்ய முந்துமின் உலகமெல்லாம். | Śrī Śuddhānanda-bhāratī’s Svāmin’s verse on His Holiness |
| 215 | इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ | Raghu-vaṁśa 1.72 |
| 216 | स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि ॥ | Bṛhadāraṇyaka-upaniṣad 4.2.4 |
| 217 | देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ च द्वेषः | Śaṅkara-bhāṣya on Brahma-sūtra 1.3.2 |
| 218 | इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ॥ | Bhagavad-gītā 3.34 |
| 219 | नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ | Bhagavad-gītā18.23 |
| 220 | रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ | Bhagavad-gītā 2.64 |
| 221 | न च सर्वस्यैकात्मत्वे रागादयः सम्भवन्ति | Śaṅkara-bhāṣya on Brahma-sūtra 1.2.1 |
| 222 | रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते । अथ सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति । तन्नयनाज्जाता रुद्राक्षा इति होवाच...तद्रुद्राक्षं… धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति । | Rudrākṣa-jābāla-upaniṣad |
| 223 | कैलासयात्रा-संप्राप्त-चन्द्रमौलि-प्रपूजकः | Bhagavatpāda’s aṣṭottara-śata-nāmāvali (nāma 80) |
| 224 | पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ | Kaṭha-upaniṣad 4.1 |
| 225 | शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्ग-मातङ्ग-पतङ्ग-मीन-भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ | Viveka-cūḍāmaṇi 78 |
| 226 | यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ | Bhagavad-gītā 2.60 |
| 227 | तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ | Bhagavad-gītā 2.61 |
| 228 | नटत्याननरङ्गे हि यस्य साक्षात्सरस्वती । … तं विद्यातीर्थमाश्रये ॥ | Abhinava-vidyātīrtha-akṣaramālā-stotra 3 |
| 229 | विद्यया विनयावाप्तिः | Subhāṣita-ratna-bhaṇḍāgara, Sāmānya-nīti 551 |
| 230 | सूते सूकरयुवतिः सुतशतामत्यन्तदुर्भगं झटिति । करिणी चिराय सूते सकलमहीपाललालितं कलभम् ॥ | Śubhāṣita-ratna-bhāṇḍāgāra, Sthalācāra-nyāyokti, 66 |
| 231 | अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति समासेन तेषां प्रस्थान- भेदोऽत्रोद्दिश्यते। तथा हि-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति वेदाङ्गानि षट् । पुराणन्यायमीमांसा धर्म-शास्त्राणि चेति चत्वार्युपाङ्गानि । अत्रोपपुराणानामपि पुराणेऽन्तर्भावः । वैशेषिक-शास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः सांख्यपातञ्जल-पाशुपतवैष्णवादीनां धर्मशास्त्रे, मिलित्वा चतुर्दश विद्याः । | Madhusūdana-sarasvatī’s Prasthāna-bheda |
| 232 | नाध्यापयिष्यन् निगमान् श्रमेणोपाध्यायलोकाः यदि शिष्यवर्गान् । निर्वेदवादं किल निर्वितानम् उर्वीतलं हन्त तदाऽभविष्यत् ॥ | Subhāṣita-ratna-bhanḍāgara |
| 233 | सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ | Nītiśataka 38 |
| 234 | विषयाशां परित्यज्य वैराग्यं परमं श्रिताः । मुनयो यत्कृपाभाजस्तं विद्यातीर्थमाश्रये ॥ | Abhinava-vidyātīrtha-akṣaramālā-stotra 5 |
| 235 | शकुनीनामिवाकाशे जले वारिचरस्य च । पदं यथा न दृश्येत तथा ज्ञानवतां गतिः ॥ | Mahābhārata 12.181.9 |
| 236 | शरच्चन्द्रनिभानना ॥ | Lalitā-sahasranāma 129 |
| 237 | इत्येतदनुशासनम् सर्ववेदान्तोपदेशः; एष सर्ववेदान्तानामुपसंहृतोऽर्थः; एतदमृतमभयम्; परिसमाप्तश्च शास्त्रार्थः ॥ | Śaṅkara-bhāṣya on Bṛhadāraṇyaka-upaniṣad 2.5.19 |
| 238 | स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतस्स एवेद... सर्वमित्यथातो... । | Chāndogya-upaniṣad 7.25.1 |
| 239 | त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ नीलः पतङ्गो हरितो लोहिताक्षतडिद्गर्भ ऋतवः समुद्राः । | Śvetāśvatara-upaniṣad 4.3, 4.4 |
| 240 | ब्रह्मैवेदं विश्वमिदं वरिष्ठम् । | Muṇḍaka-upaniṣad 2.2.12 |
| 241 | नक्षत्राणामहं शशी... इन्द्रियाणां मनश्चास्मि... मेधा... सरसामस्मि सागरः... मृगाणां च मृगेन्द्रोऽहं... पवनः पवतामस्मि... झषाणां मकरश्चास्मि... अक्षराणामकारोऽस्मि... अहमेवाक्षयः कालो... ऋतूनां कुसुमाकरः... द्यूतं छलयतामस्मि... व्यवसायोऽस्मि... मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् । | Bhagavad-gītā 10.21, 10.22, 10.34, 10.24, 10.30, 10.31, 10.31, 10.33, 10.33, 10.35, 10.36, 10.36, 10.38 |
| 242 | मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् । प्रभवः प्रलयस्स्थानं निधानं बीजमव्ययम् ॥ | Bhagavad-gītā 9.16, 9.18 |
| 243 | नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमः । | Krsna-yajur-veda-samhita 4.5.3 |
| 244 | यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान्परिणामयेद्यः । | Śvetāśvatara-upaniṣad 5.5 |
| 245 | न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । | Kaṭha-upaniṣad 1.2.18 |
| 246 | अज्ञानान्तर्गहनपतितानात्मविद्योपदेशैस्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् । मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती शम्भोर्मूर्तिश्चरति भुवने शकराचार्यरुपा ॥ | Mādhavīya Śaṅkara-vijaya 4.60 |
| 247 | आक्रान्तां रत्नगर्भां दनुतनुजजुषां सौगतैरंशभेदैः तान्सर्वान्द्रावयित्वा परमतभिदुरैः युक्तिवृन्दैरभेद्यैः । स्वस्थां चक्रेऽथ यस्स श्रुतिकमलरविर्दक्षिणामूर्तिरूपो नोऽद्वैताचार्यवर्यो भवजनितभियां शङ्करश्शङ्करोतु ॥ | Verse composed by His Holiness on Bhagavatpāda |
| 248 | विलाप्य विकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । परिशिष्टं च सन्मात्रं चिदानन्दं विचिन्तयेत् ॥ | Yoga-sudhākara on Yoga-sūtra 4.2 |
| 249 | पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ | Brahmānucintana 12 |
| 250 | आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ | Bhagavad-gītā 6.3 |
| 251 | योगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थः । | Śaṅkara-bhāṣya on Bhagavad-gītā 6.3 |
| 252 | को हि जानाति कस्याद्य मृत्युकालो भविष्यति । युवैव धर्मशीलस्स्यादनित्यं खलु जीवितम् ॥ | Mahābhārata 12.175.16 |
| 253 | बाल्ये नष्टविवेको विषयसुखास्वादलम्पटस्तरुणः । परतो जातविवेको वृद्धोऽशक्तः किमाप्नुयात्सिद्धिम् ॥ | |
| 254 | यज्ञानां जपयज्ञोऽस्मि | Bhagavad-gītā10.25 |
| 255 | वाणी लक्ष्मीस्तथा गौरी तिष्ठन्तं निद्रया युतम् । गच्छन्तमुपविष्टञ्च पान्तु त्वां गुरुशेखरम् ॥ | Verse composed on His Holiness by His Guru |
| 256 | एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः।सर्गरक्षालयगुणैर्निर्गुणोऽपिनिरञ्जनः॥ | Kūrma-purāṇa 1.4.53 |
| 257 | शिवाय विष्णुरूपाय शिवरूपाय विष्णवे।यथा शिवमयो विष्णुरेवं विष्णुमय:शिवः। | Skanda-upaniṣad 8, 9 |
| 258 | श्रीशेशयोर्भेदधीः... नामापराधा दश । | Bhagavannāma-bhūṣaṇa referred in Bhagavan-nāmāmṛta-rasodaya, ullāsa 6 |
| 259 | सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ययस्थितं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् । त्र्यक्षं चक्रपिनाकसाभयवरान्बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ | Dhyāna-śloka of the mantrarāja of Lakṣmī-narasiṁha |
| 260 | चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम । | Taittirīya-āraṇyaka 10.1.11 |
| 261 | इत: कोऽन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । | Viveka-cūḍāmaṇi 5 |
| 262 | वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ | Upadeśa-pañcaka1 |
| 263 | पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ | Moha-mudgara 21 |
| 264 | मृत्युयुक्तः संसारः मृत्युसंसारः, स एव सागर इव सागरः, दुस्तरत्वात् | Śaṅkara-bhāṣya on Bhagavad-gītā 12.7 |
| 265 | ...सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः । | Invocatory verses of the Bhagavad-gītā |
| 266 | शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥ | Viveka-cūḍāmaṇi 39 |
| 267 | सत्यं वद । | Taittirīya-upaniṣad 1.11.1 |
| 268 | अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमाः ॥ | Patañjali-yoga-sūtras 2.30 |
| 269 | अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ | Patañjali-yoga-sūtras 2.35 |
| 270 | यत्नादपि परक्लेशं हर्त्तुं या हृदि जायते । इच्छा भूमिसुरश्रेष्ठ सा दया परिकीर्त्तिता ॥ | Padma-purāṇa 7.17.87 |
| 271 | दया भूतेषु ... सम्पदं दैवीमभिजातस्य | Bhagavad-gītā 16.2, 16.3 |
| 272 | दया सर्वभूतेषु | Gautama-dharma-sūtras 1.8.24 |
| 273 | मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ | Yoga-sutra 1.33 |
| 274 | तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ | Bhagavad-gītā10.11 |
| 275 | जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाऽहमहमित्यन्तः स्फुरन्नेकधा । नानाकारविकारभाजिन इमान्पश्यन्नहंधीमुखान्नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ | Vivekacūḍāmaṇi 219 |
| 276 | प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । | Mādhavīya Śaṅkara-vijaya 1.1 |
| 277 | श्रुतिमृतीतिहासानामभिप्रायविदव्ययः।श्रुतिव्याख्यानतस्तुष्याद्विद्यातीर्थमहेश्वरः ॥ | Anubhūti-prakāśa |
| 278 | यस्य निश्वसितं वेदाः ... तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ | Jīvanmukti-viveka 1 |
| 279 | लम्बिकायोगनिरतमम्बिकापतिरूपिणम् । | Śrī Saccidānanda Śivābhinava Nṛsiṁha Bhāratī Mahāsvāmin’s Vidyātīrthāṣṭaka 2 |
| 280 | विद्यातीर्थयतीन्द्रोऽयमतिशेते दिवाकरम्। तमो हरति यत्पुंसामन्तर्बहिरहर्निशम् ॥ | Sringeri inscriptions: No.2 |
| 281 | वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे । विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः ॥ | Vidyātīrthāṣṭaka 1 |
| 282 | विद्यातीर्थाय गुरवे परस्मै तेजसे नमः । यस्य नाङ्गीकृतस्नेहदशाहानिः कदाचन ॥ |
❧
His Holiness Jagadguru Śrī Abhinava Vidyātīrtha
Mahāsvāmin, the 35th Jagadguru Shankaracharya
of the Sringeri Sri Sharada Peetham, was a sage
who had attained, by the age of eighteen, the
state of jīvanmukti (liberation while living),
hailed by the scriptures as the greatest of
all achievements, for it leaves nothing to be
achieved thereafter, vouchsafing, as it does,
freedom from the cycle of births and deaths.
His Holiness was a consummate yogin, and an
authority on scriptural matters, being a scholar
par excellence especially in Tarka and Vedānta.
Apart from His Holiness’s spiritual stature
and scriptural expertise, His devotion to His
Guru and God, infinite compassion for all living
beings, His razor-sharp intellect, His deep insight
into and understanding of modern science, His
capacity and openness to learn and adapt to
new things, His administrative acumen, His wide-
ranging knowledge, His acceptance of and ready
rapport with all manners of people irrespective
of caste, creed, religion, nationality, belief or
even lack of belief, His straightforwardness and
His egolessness, made Him a Guru who guided
not only by precept but also by practice. He
untiringly toured India several times to inculcate
dhārmika and spiritual values in the multitudes
who flocked to Him. He was looked up to by
thousands across India as well as other parts of
the world, for His infallible grace and guidance.
After His Holiness shed His mortal form in 1989,
His disciple and present Jagadguru Śrī Bhāratī
Tīrtha Mahāsvāmin, composed an aṣṭottara-
śata-nāmāvali (series of 108 nāmas) on His Guru,
which describes 108 facets of His Holiness and
provides a wealth of information on His life and
teachings. This book offers an explanation for
each of these 108 nāmas, supported by various
episodes from His Holiness’s life and relevant
extracts from His teachings, all of which are not
only fascinating but compellingly edifying.
ISBN 978-81-950399-8-2
9 788195 039982