Exalting Elucidations

42. APPENDIX – List of Sanskrit references

¹ ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने… नमः (M, I.30)

² न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति (KU, I.2.8)

³ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ (BG, XVI.24)

⁴ यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । (TU, I.11.3)

⁵ स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् । (BG, II.40)

⁶ शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ (YV, II.9.30)

⁷ यद्भावि न तद्भावि भावि चेन्न तदन्यथा । (P, VII.168)

⁸ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ (BG, III.33)

⁹ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ (BG, III.34)

¹⁰ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ (MS, II.12)

¹¹ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ (MS, X.63)

¹² नाधर्मश्चरितो लोके सद्यः फलति गौरिव । शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥ (MS, IV.172)

¹³ अधर्मेणैधते तावत्ततो भद्राणि पश्यति । ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ (MS, IV.174)

¹⁴ धर्मो रक्षति रक्षितः (MB, III.30.8; NN, 34)

¹⁵ श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ (SPM, 95)

¹⁶ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ (BG, XII.13)

¹⁷ लोकाः समस्ताः सुखिनो भवन्तु (SPSS, 1)

¹⁸ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ (BG, XVIII.26)

¹⁹ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ (BG, XII.8)

²⁰ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ (BG, XII.9)

²¹ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ (BG, XII.10)

²² अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ (BG, XII.11)

²³ कुरु… केवलमीश्वरार्थम् (BGB, II.48)

²⁴ ईश्वरो मे तुष्यतु (BGB, II.48)

²⁵ श्रीपरमेश्वरप्रीत्यर्थं… उपासिष्ये

²⁶ मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । (VC, 32)

²⁷ यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् । (BP, VII.10.4)

²⁸ सा त्वस्मिन्परमप्रेमरूपा ॥ (NBS, 2)

²⁹ अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ (SL, 61)

³⁰ मूर्खो वदति विष्णाय विद्वान्वदति विष्णवे । उभयोः सद्दशं पुण्यं भावग्राही जनार्दनः ॥

³¹ मामनुस्मर युध्य च (BG, VIII.7)

³² पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ (BG, IX.26)

³³ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ (BG, IX.27)

³⁴ माण्डूक्यमेकमेवाऽलं मुमुक्षूणां विमुक्तये । (MukU, I.26)

³⁵ पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः । (AU, 18)

³⁶ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ (BG, XII.13-14)

³⁷ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । (BG, III.10)

³⁸ स्वाध्यायोऽध्येतव्यः (TA, II.15.19)

³⁹ वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । (SV, I.1.7.366)

⁴⁰ यदहरेव विरजेत् तदहरेव प्रव्रजेत् (JU, 4)

⁴¹ ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा (JU, 4)

⁴² किं प्रजया करिष्यामः । (BU, IV.4.22)

⁴³ यदहरेव विरजेत् तदहरेव प्रव्रजेत् (JU, 4)

⁴⁴ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ (BG, VI. 34)

⁴⁵ असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ (BG, VI. 35)

⁴⁶ लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात् समप्राप्तं न चालयेत् ॥ (GK, III. 44)

⁴⁷ यथाऽभिमतध्यानाद्वा । (YS, I. 39)

⁴⁸ चैलाजिनकुशोत्तरम् (BG, VI. 11)

⁴⁹ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । (YS, I. 14)

⁵⁰ मुक्ताभिरावृतं सूत्रं मुक्तयोर्मध्य ईक्ष्यते । तथा वृत्तिविकल्पैश्चित्स्पष्टा मध्ये विकल्पयोः ॥ (LV, 10)

⁵¹ मायां तु प्रकृतिं विद्यात् । (SU, IV.10)

⁵² नेति नेति । (BU, II. 3.6)

⁵³ मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि । (AG, I. 11)

⁵⁴ ज्ञानादेव तु कैवल्यम् ।

⁵⁵ तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय । (PS)

⁵⁶ न कर्मणा… (MNU, XII.14)

⁵⁷ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । (B, 20)

⁵⁸ आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ (BP, I.7.10)

⁵⁹ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ (MuU, II. 2.8)

★★★★

Contents