Scientific Evidence – Vedantic Light
DEDICATION
परब्रह्ममायेशकारुण्यसिन्धुं स्वमायाधृताङ्गं सदा बन्धशून्यम् ।
कृताध्यात्मिकाभ्याससिद्ध्याप्तिलीलं भवाचार्यमत्कृत्स्नमेकं प्रपद्ये ॥
नटत्याननरङ्गे हि यस्य साक्षात्सरस्वती ।
नतार्तिशमने दक्षं तं विद्यातीर्थमाश्रये ॥
इमां कृतिं मत्परमपूज्यसद्गुरुश्रीमदभिनवविद्यातीर्थमहास्वामिनां पादपद्मयोः त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये इति भावेन सप्रणामं समर्पये ।
(With the idea, “O Lord, I offer You what is Yours,” I offer this work, with my namaskāras, at the lotus-feet of my most worshipful, enlightened and enlightenment-giving Guru, H.H. Śrī Abhinava Vidyātīrtha Mahāsvāmin.)
दक्षिणाम्नायश्रृङ्गेरीशारदापीठाधीश्वराणाम् अनन्तश्रीविभूषितानां जगद्गुरुशङ्कराचार्याणां श्रीश्रीभारतीतीर्थमहास्वामिनामनुग्रहसन्देशः अस्मद्गुरुचरणाः प्रातस्स्मरणीयाः जगद्गुरुश्रीमदभिनवविद्यातीर्थमहास्वामिनः अप्रतिमप्रज्ञाशालिन आसन् । स्वीये चतुर्दशे वयसि स्वीकृतपारमहंस्यास्ते अनभ्यस्तलौकिकविद्या अपि अधुनातनविज्ञानविषयान् सम्यगाकलयामासुः। तैस्सह कृतसँल्लापा विज्ञानिनः तदिदं स्वयमनुभूय विस्मयाम्बुधिमग्ना भवन्ति स्म । तदीयं पवित्रं चरित्रं तत्पादसरोजभृङ्गः अस्मत्प्रियतमान्तेवासी उमेशब्रह्मचारी आङ्ग्लभाषया बृहद्ग्रन्थरूपेण व्यरचयत् । तत्र सूक्ष्मतया प्रदर्शितं गुरुचरणानां विज्ञानपाण्डित्यं केषाश्चित् सहृदयानामपेक्षया विस्तरेण प्रकाशयितुं अधुना पुनरन्यं ग्रन्थं व्यलेखीत् । स चायं प्रकाशयिष्यत इति विदित्वा भृशं प्रसीदामः। अयमपि ग्रन्थः प्राक्तन इव लोकान् रञ्जयिष्यतीति विश्वसिमः। प्रकाशनकार्येऽस्मिन् कृतसाह्यास्समेऽपि श्रेयांसि समश्चुवीरन्नित्याशास्महे । श्रृङ्गगिरिः शोभकृद्वैशाखकृष्णपञ्चमी सौम्यवासरः 10-5-2023
इति नारायणस्मरणम् भारतीतीर्थः