The Multifaceted Jivanmukta

Appendix - Sanskrit Quotations and Their References

QuotationsReferencesPg. no.

Preface

असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥Śiva-mahimna-stotra 329
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।Taittirīya-upaniṣad 2.4.19
महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥Śiva-mahimna-stotra 19
यदत्र सौष्ठवं किञ्चित्तद्गुरोरेव मे न हि । यदत्रासौष्ठवं किञ्चित्तन्ममैव गुरोर्न हि ॥Siddhānta-bindu, concluding verse9

Chapter 1: The Advent

अथ यत्र … सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ।Bṛhadāraṇyaka-upaniṣad 4.3.2019
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥Bhagavad-gītā 9.2628

Chapter 2: Meeting His Master

आचार्यस्तस्य यां जातिं विदिवद्वेदपारगः । (विदध्याद्वेदपारगः ।)Manu-smṛti 2.14832
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥Manu-smṛti 2.170
बहुनोक्तेन किं विप्रा जपेनास्याश्च होमतः । अभीष्टं सर्वमाप्नोति नात्र सन्देहकारणम् ॥Sūta-saṁhitā 4.6.5936
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥Manu-smṛti 2.7936
दारा इमे मे तनया इमे मे गृहा इमे मे पशवश्च मे मे । इत्थं नरो मेषसमानधर्मा मेमेकरः कालवृकेण नीतः ॥39
सूते सूकरयुवतिः सुतशतमत्यन्तदुर्भगं झटिति । करिणी चिराय सूते सकलमहीपाललालितं कलभम् ॥Śubhāṣita-ratna-bhāṇḍāgāra, Sthalācāra-nyāyokti, 6640
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।Hitopadeśa 1.17241
यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य ‘मां हन्तुमयमिच्छति’ इति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रत्यभिमुखीभवन्ति… ।Brahmasūtra-bhāṣya, introduction (adhyāsa-bhāṣya)42
गोशतादपि गोक्षीरं प्रस्थं धान्यशतादपि । प्रासादेऽपि च खट्वार्धं शेषाः परविभूतयः ॥Śubhāṣita42
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य वा । पयः पिबति यो यस्याः धेनुस्तस्येति निश्चयः ॥Piṅgalāgītā 2342
यत्सारभूतं तदुपासितव्यम् ।Śubhāṣita-bhāṇḍāgāra, Sāmānyanīti 180/87842
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥Soundaryalaharī 7544
मनो न मे योषिदुरोजकुम्भे न शिष्यडिम्भे न च शातकुम्भे । परं तु रन्तुर्गिरिकन्यकायाः पादारविन्दे रतिमेव विन्दे ॥Verse uttered by the senior Jagadguru in His state of seclusion45
अवचनचिन्मुद्राभ्यामद्वैतं बोधरूपमात्मानम् । ब्रूते तत्र च मानं पुस्तकभुजगाग्निभिर्महादेवः ॥Verse uttered by the senior Jagadguru in His state of seclusion46
बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते - ‘स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उपशान्तोऽयमात्मा’ इति ।Brahmasūtra-bhāṣya 3.2.1746
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥Bhagavad-gītā 4.3747

Chapter 3: Young Ascetic

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।Mahānārāyaṇa-upaniṣad 1.10.2149
नहि नहि मनुतां स्वत्वं मर्त्यः स्वीये शरीरेऽपि । पितृभूमिशृगालगणाः स्वत्वं परिचिन्तयन्ति तत्काले ॥Verse uttered by the senior Jagadguru in His state of seclusion49
सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् । तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥Prabodha-sudhākara 2649
को हि जानाति कस्याद्य मृत्युकालो भविष्यति । युवैव धर्मशीलस्स्यादनित्यं खलु जीवितम् ॥Mahābhārata 12.175.1649
बाल्ये नष्टविवेको विषयसुखास्वादलम्पटस्तरुणः । परतो जातविवेको वृद्धोऽशक्तः किमाप्नुयात्सिद्धिम् ॥49-50
लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः । मुक्तिस्संसरणं वा तदन्यलोकोऽथ वा नाद्यः ॥Prabodha-sudhākara 3550
सर्वेऽपि पुत्रभाजस्तन्मुक्तौ नैव संसृतिर्भवति । श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥Prabodha-sudhākara 3651
तत्प्राप्त्युपायसत्त्वाद्वितीयपक्षेऽप्यपुत्रस्य । पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् ॥Prabodha-sudhākara 3751
धनं वा धान्यं वा भवतु बहुशो भोग्यमपि वा विरामे को ब्रूते ननु चिरमहं निर्वृत इति । प्रकोपप्रोद्भिन्नप्रकटयमदंष्ट्रां तु पुरतः प्रपश्यन्किं कुर्यात्प्रसभमवसाने प्रभुरपि ॥Verse uttered by the senior Jagadguru in His state of seclusion52
यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे । संप्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥Prabodha-sudhākara 2553
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसञ्चयः ॥Nārada-purāṇa 39.4953
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥Hitopadeśa, Prāstāvikā 353
लब्धा विद्या राजमान्या ततः किं प्राप्ता संपत्प्राभवाढ्या ततः किम् । भुक्ता नारी सुन्दराङ्गी ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥Anātmaśrīvigarhaṇam 154
नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥Mohamudgara 356
सद्गुरो शरणम् । शिवोऽहं शिवोऽहम् ।Words uttered by Sri Srinivasa Sastry when delirious57
सद्गुरो पाहि । सद्गुरो पाहि ।Words uttered by Sri Srinivasa Sastry when delirious57
सर्वज्ञं श्रीनिवासं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥Prayer of the senior Jagadguru to Śāradāmbā57
पितुर्वन्द्यो हि मस्करी ।Skanda-purāṇa60
सहस्रशीर्षा पुरुषः ।Taittirīya-āraṇyaka 3.1262
पृथिव्यप्तेजोवायुराकाशा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासꣳस्वाहा ॥ शब्दस्पर्शरूपरसगन्धा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासꣳस्वाहा ॥ अव्यक्तभावैरहङ्कारैर्ज्योतिरहं विरजा विपाप्मा भूयासꣳस्वाहा ॥Mahānarāyaṇa-upaniṣad 66.1,66.2,66.462
ओं भूः संन्यस्तं मया । ओं भुवः संन्यस्तं मया । ओं सुवः संन्यस्तं मया । ओं भूर्भुवस्सुवः संन्यस्तं मया ।Nārada-Parivrājakopaniṣad 463
अभयं सर्वभूतेभ्यो …मत्तः स्वाहा ।Nārada-Parivrājakopaniṣad 463
भो आयुष्मन् , इत एहि ।The senior Jagadguru calling out to His Holiness64
प्रज्ञानं ब्रह्म ।Aitareya-upaniṣad 3.1.365
अहं ब्रह्मास्मि ।Bṛhadāraṇyaka-upaniṣad 1.4.1065
तत्त्वमसि ।Chāndogya-upaniṣad 6.8.765
अयमत्मा ब्रह्म ।Māṇḍūkya-upaniṣad 265
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।Mādhavīya-śankara-vijaya 1.166
श्रुतिस्मृतीतिहासानामभिप्रायविदव्ययः ।Śrī Vidyāraṇya’s Anubhūti-66
श्रुतिव्याख्यानतस्तुष्याद्विद्यातीर्थमहेश्वरः ॥prakāśaḥ invocatory verse
यस्य निःश्वसितं वेदाः ... तमहं वन्दे विद्यातीर्थ महेश्वरम् ॥Jīvanmuktiviveka 166
लम्बिकायोगनिरतमम्बिकापतिरूपिणम् । …Śrī Saccidānanda Śivābhinava Nṛsiṁha Bhāratī Mahāsvāmin’s Vidyātīrthāṣtaka 266
विद्यातीर्थाय गुरवे परस्मै तेजसे नमः । यस्य नाङ्गीकृतस्नेहदशाहानिः कदाचन ॥66
विद्यातीर्थयतीन्द्रोऽयमतिशेते दिवाकरम् । तमो हरति यत्पुंसामन्तर्बहिरहर्निशम् ॥Sringeri inscriptions: No.266
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥Yoga-sūtra 2.3570

Chapter 4: Haṭha-yoga Mastered

कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥Haṭhayoga-pradīpikā 3.7074
उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥Haṭhayoga-pradīpikā 3.5774
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥Haṭhayoga-pradīpikā 2.4574
उड्डियानकस्तु कुम्भकान्ते कुम्भकस्यान्ते किञ्चित्कुम्भकशेषे रेचकस्यादौ रेचकादौ रेचकात्पूर्वं कर्तव्यः ।Jyotsnā, commentary on the Haṭhayoga-pradīpikā 2.4574-75
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ।Haṭhayoga-pradīpikā 2.275
धारणासु च योग्यता मनसः ॥Yoga-sūtra 2.5375
यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणधारणात् ॥Amrutanāda-upaniṣad 775
अथ सूर्यभेदनम् - आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ आ केशादा नखाग्राच्च निरोधावधि कुम्भयेत् । ततश्शनैस्सव्यनाड्या रेचयेत्पवनं शनैः ॥Haṭhayoga-pradīpikā 2.48, 4976
अथोज्जायी -मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥Haṭhayoga-pradīpikā 2.51, 5276
अथ सीत्कारी -सीत्कां कुर्यात्तथा वक्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥Haṭhayoga-pradīpikā 2.5476
अथ शीतली - जिह्वया वायुमाकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥Haṭhayoga-pradīpikā 2.5776
अथ भस्त्रिका -सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः ।Haṭhayoga-pradīpikā 2.60, 61, 6276
पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥Haṭhayoga-pradīpikā 3.6177
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥Yoga-sūtra 2.5179
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ यथेष्टधारणाद्वायोः सिध्येत्केवलकुम्भकः । केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥ न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ।Yogatattva-upaniṣad 49, 50, 5179
छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीसिद्धिः ॥Haṭhayoga-pradīpikā 3.3380
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥Haṭhayoga-pradīpikā 3.3780
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥Haṭhayoga-pradīpikā 3.3980
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥Haṭhayoga-pradīpikā 2.2481
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं वस्तिकर्म तत् ॥Haṭhayoga-pradīpikā 2.2681
सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥Haṭhayoga-pradīpikā 2.2981
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसंपातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् ॥Haṭhayoga-pradīpikā 2.3184
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥Haṭhayoga-pradīpikā 2.3384
QuotationsReferencesPg. no.
भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥Haṭhayoga-pradīpikā 2.3584
न तत्र रथा न रथयोगा न पन्थानो भवन्ति ।Bṛhadāraṇyaka-upaniṣad 4.3.1088
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥Brahma-sūtra 3.2.388
स्वप्ननिद्राज्ञानालम्बनं वा ॥Yoga-sūtra 1.3888

Chapter 5: Everything Unto God

सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् । त्र्यक्षं चक्रपिनाकसाभयवरान्बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥Dhyāna-śloka of Mantrarāja of Lakṣmī-narasiṁha91
लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पं कल्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजास्समर्पयामि ।Words of pañcopacāra-pūjā93
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥Mantrarāja of Lakṣmī-narasiṁha93

Chapter 6: Contemplating the Self

आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थ-स्संवित्सूत्रानुविद्धो मणिरहमिति वाऽस्मीन्द्रियार्थप्रतीतौ । द्रष्टा(द्रष्टो)ऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्दसिन्धा-वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥Śataślokī 1298-100

Chapter 7: Meditation on God - Start to Finish

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान्वेणोरधरसुधया पूरयन्गोपवृन्दैर्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥Śrīmad-bhāgavata 10.21.5113
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥Bālamukundāṣṭaka 1114
किरीटहारकेयूरकटकादिविभूषितम् ॥ शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ व्रजतस्तिष्ठतोऽन्यद्धा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥Viṣṇu-purāṇa 6.7.84, 85, 86, 87115
ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥Viṣṇu-purāṇa 6.7.88115
सा यदा धारणा तद्वदवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ तदेकावयवं देवं चेतसा हि पुनर्बुधः ॥Viṣṇu-purāṇa 6.7.89, 90115
देशबन्धश्चित्तस्य धारणा ॥Yoga-sūtra 3.1118
तत्र प्रत्ययैकतानता ध्यानम् ॥Yoga-sūtra 3.2118
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥Yoga-sūtra 3.3118

Chapter 8: Headway in Kuṇḍalinī-yoga

श्री शारदायै नमः ।His Holiness’s salutation to Goddess Śāradāmbā121
इयं सुषुम्ना नाडी ।Divine voice121
इयं चित्रिणी नाडी । अत्र ब्रह्मनाडी वर्तते । सा सुषुम्नेत्यपि व्यपदिश्यते ।Divine voice122
अत्र परमशिवः स्थितः ।Divine voice127
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥Ṛg-veda 1.164.45129
आज्ञासीद्गौरवी मे तव खलु करुणावारिधिः शारदाम्बा साष्टाङ्गं योगमारादुपदिशति भवानौरसः सूनुरस्याः ।Śrī-śāradā-śataślokī-stavaḥ 25130
आगच्छन्ती सदनमदसीयं पुरा शारदाम्बा ताटङ्काढ्या मुदितवदना स्वप्न एवं ह्यपश्यम् । काले काले बहुलकृपया शब्दयन्ती स्वनाम्ना ह्वायं ह्वायं सकलमपि मे बोधयामास देवी ॥Śrī-śāradā-stuti-mañjarī 13131
ब्रह्मग्रन्थिं भित्त्वेयमूर्ध्वं गच्छति ।Divine voice132
विष्णुग्रन्थिश्छिन्नः ।Divine voice132
रुद्रग्रन्थिभेदो जातः ।Divine voice133
कुण्डलिनी परमशिवेन युक्ता ।Divine voice133
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥Lalitā-sahasranāma 2.39137
शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् । अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥Āryā-dviśatī 211137

Chapter 9: An Extraordinary Blessing

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमानित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥Dakṣiṇāmūrti-stotra 9142
शान्तं पद्मासनस्थं शशधरमकुटं पञ्चवक्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥Dhyāna-ślokā of Śiva-pañcākṣarī-mantra143
वत्स, श्वःप्रभृत्यत्र निराकारे परे तत्त्वे मनः समाधत्स्व । अचिरेण ब्रह्मसंस्थो भविष्यसि ।Īśvara’s words to His Holiness144
स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्याज्ञानमुद्राः कराब्जैः । दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥Dhyāna-śloka of Medhā-dakṣiṇāmūrti-mantra found in Dakṣiṇāmūrti-upaniṣad 3145

Chapter 10: Blossoming of Enlightenment

ब्रह्मविदाप्नोति परम् ।Taittirīya-upaniṣad 2.1.1149
आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति ।Taittirīya-upaniṣad 2.9.1149
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ।Taittirīya-upaniṣad 2.8.1149
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥Bhagavad-gītā 13.5, 6150
सत्यं ज्ञानमनन्तं ब्रह्म ।Taittirīya-upaniṣad 2.1.1151
तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।Taittirīya-upaniṣad 2.1.1152
यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ।Taittirīya-upaniṣad 3.1.1152
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।Taittirīya-upaniṣad 2.8.5152
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥Bhagavad-gītā 6.29, 30152
अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।Brahmānu-cintana 1ab153, 156
नित्यशुद्धबुद्धमुक्तसत्यस्वभावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मि ।Pañcīkaraṇa156
यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥Mahānārāyaṇa-upaniṣad 13.5157
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥Chāndogya-upaniṣad 6.1.4157
सर्वाधिष्ठानभूतसन्मात्रब्रह्मास्मि ।His Holiness’s words158
विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥Ātma-vidyā-vilāsa 4159
शनैश्शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥Bhagavad-gītā 6.25160
निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः ॥Vivekacūḍāmaṇi 363161
समाधिनानेन समस्तवासनाग्रन्थेर्विनाशोऽखिलकर्मनाशः । अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥Vivekacūḍāmaṇi 364161
श्रुतेः शतगुणं विद्यान्मननं मननादपि । निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥Vivekacūḍāmaṇi 365161
निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥Vivekacūḍāmaṇi 366161
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ्न भाति किन्त्वम्भ एकमेवावभासते ॥ यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता । पृथङ्न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ज्ञात्रादिकल्पनाऽभावान्मतोऽयं निर्विकल्पकः ।Sarva-vedānta-siddhānta-sāra-saṅgrahaḥ 823, 824, 825, 826161
अचिरेण ब्रह्मसंस्थो भविष्यसि ।Īśvara’s words to His Holiness167

Chapter 11: Ever in the Supreme

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥Muṇḍaka-upaniṣad 2.2.8169
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।Bṛhadāraṇyaka-upaniṣad 4.4.7169
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥Bhagavad-gītā 3.17169
तत्त्वमाध्यात्मिकं दृष्टं तत्त्वं दृष्टं तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवान् ॥The senior Jagadguru’s utterance170
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥Gauḍapāda-kārikā 2.38170
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥Śrīmad-bhāgavata 1.7.10171
अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः । वहिः सर्वसमाचारो लोके विहर राघव ॥Laghu-yoga-vāsiṣṭha 5.2.56175
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥Laghu-yoga-vāsiṣṭha 5.2.57175
मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ।Yogatārāvalī 29177

Chapter 12: A Unique Bond

सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी शुश्रूषुस्त्यक्तमानः प्रणिपतनपरः प्रश्नकालप्रतीक्षः । शान्तो दान्तोऽनसूयश्शरणमुपगतश्शास्त्रविश्वासशाली शिष्यः प्राप्तः परीक्षां कृतविदभिमतं तत्त्वतश्शिक्षणीयः ॥Nyāsa-vimśati 2179
गच्छतः पृष्ठतो गच्छेद्गुरुच्छायां न लङ्घयेत् ।Gurugītā 2.144180
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥Bhagavad-gītā 3.22184
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥Bhagavad-gītā 3.23184
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥Hanumat-stavana185
गुरुवरचरणौ भक्त्या नित्यं प्रणमामि भक्तकरुणालू । यद्भानुलेशपातो हृदयध्वान्तानि सन्ततं हन्ति ॥Verse composed by His Holiness on His Guru199
आक्रन्तां रत्नगर्भां दनुतनुजजुषां सौगतैरंशभेदैः तान्सर्वान्द्रावयित्वा परमतभिदुरैः युक्तिवृन्दैरभेद्यैः । स्वस्थां चक्रेऽथ यस्स श्रुतिकमलरविर्दक्षिणामूर्तिरूपो नोऽद्वैताचार्यवर्यो भवजनितभियां शङ्करश्शङ्करोतु ॥Verse composed by His Holiness on Bhagavatpāda199
पादप्रभाविनिर्धूताविद्यान्धतमसाय ते । यतये चितिनिर्विष्टचित्तायास्तु नमो मम ॥Verse composed by His Holiness on His Guru201
कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाश्श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥Kamalaja-dayitāṣṭaka 5203
विनयावनतः श्रीमद्गुरुपादाम्बुजन्मनी । दयामरन्दे शिष्यालिश्चुम्बति श्रद्धया सदा ॥Verse composed by His Holiness on His Guru204
सदाशिवसमारम्भां शंकराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥A verse that is traditionally chanted when paying obeisance to the Advaitic Guru-paraṁparā206
शंकरं शंकराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥A verse that is traditionally chanted when paying obeisance to Veda-Vyāsa and Śaṅkara-bhagavatpāda206
QuotationsReferencesPg. no.
श्रुतिमस्तकभूषायमाणपादसरोरुहम् । नतार्तिहरणं कुर्वे शरणं देशिकारुणम् ॥Verse composed by His Holiness on His Guru212
बुद्धितो वाऽबुद्धितो वा बाल्यतो लाल्यतोऽपि वा । मया ह्यागांसि जातानि क्षन्तुमर्हन्ति देशिकाः ॥Verse composed by His Holiness addressed to His Guru212
दिदृक्षामि भवव्याधिशमने दिव्यमौषधम् । यदालोकेन लभते शान्तिं तद्देशिकं जनः ॥Verse composed by His Holiness on His Guru212
श्रीचन्द्रशेखरभारतीतिप्रथितप्रातस्स्मरणीयनामधेया अस्मदाचार्यपादाः कृततपश्चर्याः सर्वतन्त्रस्वतन्त्राः शास्त्रोपदिष्टार्थानुष्ठाननिष्ठागरिष्ठा अपरोक्षीकृतात्मतत्त्वा जीवन्मुक्ता अभूवन् ।His Holiness’s preface to His Guru’s commentary on the Vivekacūḍāmaṇi219
अस्मदाचार्यपादाः ब्रह्मनिष्ठा ब्रह्मपरा जीवन्मुक्ताः समस्तानामास्तिकानामादर्शचरिता अभूवन् ।His Holiness’s Śrīmukha to Śrī-Jagadgurucaritāmṛta by Śrī Bhāṣya-svāmin219
अविद्याध्वान्तानां दिनमणिरनन्तान्तरगतो विषीदद्विद्वद्धृत्कुमुदवनराकाहिमकरः । पराध्वामित्राणां विषयगहनानां हुतवहो गुरुस्तेजोरूपो जयति जनताऽऽनन्दथुरयम् ॥Verse composed by His Holiness on His Guru219
वन्दे वन्दारुमन्दारं वन्दनीयं बुधोत्तमैः । आनन्दकन्दलं तीर्थवारिधिं देशिकोत्तमम् ॥Verse composed by His Holiness on His Guru219
श्रीमद्विष्णुपदाऽऽलम्बं वेदान्तामृतवर्षिणम् । लोकसंतापशमनं वन्देऽभ्रसदृशं गुरुम् ॥Verse composed by His Holiness on His Guru220
श्रीमदगुरुवरान्वन्दे वन्दारुजनवत्सलान् । यत्पादाब्जदयालेशो भवकान्तारतारकः ॥Verse composed by His Holiness on His Guru220
किरीटयाम्युत्तमाङ्गे पादुके देशिकस्य ते । ययोः स्मृतेर्हि लोकानां स्वान्तध्वान्तं प्रणश्यति ॥Verse composed by His Holiness on His Guru220
श्रीमतां देशिकेन्द्राणां पादपद्मे नमाम्यहम् । मन्दोऽपि वन्दनाद्येषां विन्देत गुरुतुल्यताम् ॥Verse composed by His Holiness on His Guru220
अभिनवविद्यातीर्थं सततं सौशील्यसच्चरित्रयुतम् । नीरोगदृढतनुत्वं दत्वा परिपाहि चन्द्रमौळीश ॥Verse composed on His Holiness by His Guru221
दयासान्द्रं बालं निखिलजगतीरक्षणचणं हरन्तं विघ्नाद्रिं विमलविमलैर्वीक्षणचयैः । परब्रह्माकारं प्रणवविदितं शान्तमनसं गुरुं विद्यातीर्थं कलयत बुधाश्चित्तकमले ॥Verse composed on His Holiness by His Guru221
सद्विद्यायाः कृते धर्मा गुरुभिर्बहुधा कृताः । कृतानां रक्षणं श्रीमदायत्तं वश्यमानसाः ॥Verse composed on His Holiness by His Guru221
शरीरेन्द्रियचित्तानां शुद्धये कल्पिता महाः । बहवो गुरुदेवानां तत्फलं भवतां तनुः ॥Verse composed on His Holiness by His Guru221
शारदा चन्द्रमौलीशो मृत्युमृत्युर्महाहरिः । श्रीमती राजराजेशी पान्तु त्वां गुरुशेखरम् ॥Verse composed on His Holiness by His Guru221
ब्रह्मावसिष्ठमुखरा अस्मदाचार्यपुङ्गवाः । लोपामुद्रामुखाः साध्व्यः पान्तु त्वां गुरुशेखरम् ॥Verse composed on His Holiness by His Guru221
वाणी लक्ष्मीस्तथा गौरी तिष्ठन्तं निद्रया युतम् । गच्छन्तमुपविष्टञ्च पान्तु त्वां गुरुशेखरम् ॥Verse composed on His Holiness by His Guru221
करण्डकं सदा रक्ष चन्द्रमौलीशितुर्विभोः । तेन त्वां रक्षितः पाति भगवान्गणराट्पिता ॥Verse composed on His Holiness by His Guru221

Chapter 13: Becoming the Pontiff

न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतिBṛhadāraṇyaka-upaniṣad 4.4.6229

Chapter 14: Technical Acumen

செயற்கரிய செய்வார் பெரியர் சிறியர் செயற்கரிய செய்கலா தார்Thirukkural 26240

Chapter 15: All-round Administrator

अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन ।Mahābhārata-śānti-parva 12.16.18304

Chapter 16: He Graced All

… स्त्रियः समस्ताः सकला जगत्सु ।Durgā-saptaśatī 11.6310
विलाप्य विकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । परिशिष्टं च सन्मात्रं चिदानन्दं विचिन्तयेत् ॥Verse cited in Yoga-sudhākara in gloss on Yoga-sūtra 4.2317
पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥Brahmānucintana 12317
जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्च भूतानि । परिशिष्टमात्मतत्त्वं पश्यन्नास्ते मुनिश्शान्तः ॥Ātma-vidyā-vilāsa 11318
प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥Kaliviḍambana 60333
आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥Vāyu-purāṇa 59.30335
देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवे विदुषस्त्वहंधीः । विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥Vivekacūḍāmaṇi 162356
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥Nītiśataka 94379
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् … श्रोत्रियं ब्रह्मनिष्ठम् ॥Muṇḍaka-upaniṣad 1.2.12382
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥Muṇḍaka-upaniṣad 3.1.10382
स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥Muṇḍaka-upaniṣad 3.2.1382
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति… ॥Kaṭha-upaniṣad 1.2.8382
…को गुरुरधिगततत्त्वः शिष्यहितायोद्यतस्सततम् ॥Praśnottara-ratnamālikā 2382
सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्त्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् । दम्भासूयादिमुक्तं जितविषयगणं दीर्घबन्धुं दयालुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥Nyāsa-vimśati 1383

Chapter 17: At Home With the Young

दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति ॥Gautama-dharma-sūtra 1.8.24386

Chapter 19: Nation First

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥Vālmīki-rāmāyaṇa 6.124.17403
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥Bhagavad-gītā 2.32404
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।Bhagavad-gītā 8.7405
अहिंसा परमो धर्मःMahābhārata 1.11.12405
आततायिनमायान्तं हन्यादेवाविचारयन् ।Manu-smṛti 8.350405
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥Bhagavad-gītā 3.21426
धर्मो रक्षति रक्षितः ।Manu-smṛti 8.15426
स्वधर्मे निधनं श्रेयः ।Bhagavad-gītā 3.35426

Chapter 20: Admired Personage

सर्वं खल्विदं ब्रह्म ।Chāndogya-upaniṣad 3.14.1432
अयमात्मा ब्रह्म ।Māṇḍūkya-upaniṣad 2432
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥Śvetāśvatara-upaniṣad 6.23436
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।Brahmajñānāvalīmālā 20436

Chapter 21: Chosen Successor

अखिलानन्दसन्दायि मनोज्ञमुखपङ्कजम् । जगद्गुरुं जगत्पूज्यं विद्यातीर्थमहं श्रये ॥१॥ भिद्यते हृदयग्रन्थिर्दृष्टे यस्मिन्निति श्रुतिः । जगौ परावरं शान्तं तं विद्यातीर्थमाश्रये ॥२॥ नटत्याननरङ्गे हि यस्य साक्षात्सरस्वती । नतार्तिशमने दक्षं तं विद्यातीर्थमाश्रये ॥३॥ वटमूलं परित्यज्य शृङ्गाद्रौ निवसन्हि यः ।“Śrī Abhinava Vidyātīrtha Akṣaramālā Stotra” composed by Jagadguru Śrī Bhāratī-tīrtha Mahāsvāmin465
तत्त्वं बोधयते भक्तान्दक्षिणास्यं तमाश्रये ॥४॥ विषयाशां परित्यज्य वैराग्यं परमं श्रिताः । मुनयो यत्कृपाभाजस्तं विद्यातीर्थमाश्रये ॥५॥ द्यावाभूमी हि जनयन्देव एक इति श्रुतिः । यं वर्णयति सर्वेशं तं विद्यातीर्थमाश्रये ॥६॥ तीरे तुङ्गातटिन्या यस्तत्त्वं शिष्यान्प्रबोधयन् । आस्ते देशिकराजं तं विद्यातीर्थं समाश्रये ॥७॥ र्थमपूर्वं श्रुतेर्यस्तु यथावदवबोधयन् । शिष्यान्धर्मपथासक्तान्कुरुते तमहं श्रये ॥८॥
अज्ञानध्वान्तविध्वंसिसहस्रकरतेजसम् । सच्चित्सुखात्मकब्रह्मनिविष्टहृदयाम्बुजम् ॥ पद्मासनोपविष्टञ्च ध्यानस्तिमितलोचनम् । समंकायशिरोग्रीवं धारयन्तं महाप्रभम् ॥ सहस्रकिरणस्पर्धिदेहकान्तिसमुज्ज्वलम् । निर्विकल्पसमाधिस्थं निश्चलावयवं शिवम् ॥ देहादिब्रह्मपर्यन्ते भोग्ये तुच्छत्वधीयुतम् । आर्तानामार्तिहन्तारं जिज्ञासुविशयच्छिदम् ॥ स्वावलोकनमात्रेण पुनानं निखिलं जगत् । मदीयहृत्सरोजातनिवेशितपदद्वयम् । विद्यातीर्थगुरूत्तंसं ध्यायामि भवमुक्तये ॥Verses composed by Jagadguru Śrī Bhāratī-tīrtha Mahāsvāmin describing His Holiness in samādhi466

Chapter 23: Cogent Elucidations

1. Eight Great Qualities
दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति ॥Gautama-dharma-sūtra 1.8.24586
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च...Bhagavad-gītā 12.13-20586
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥Yoga-sūtra 1.33586
कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥Vālmīki Rāmāyaṇa 2.1.11587
सन्तोषं जनयेत्प्राज्ञस्तदेवेश्वरपूजनम् ।Samayocita-padyamālikā587
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥Bhagavad-gītā 9.1587
पिशुनैः प्रकाममुदितां परस्य निन्दां शृणोति कर्णाभ्याम् । तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥Prabodha-sudhākara 59588
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥Śārṅgadhāra-paddhati 273588
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मस्सनातनः ॥Manu-smṛti 4.138588
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥Bhagavad-gītā 17.15588
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥Bhagavad-gītā 16.21589
मृतोऽप्यर्थं न मोक्ष्यामि बद्ध्वा नेष्यामि मूर्धनि । इति चेत्सुदृढा बुद्धिः पात्रे देयमशङ्कितम् ॥Sabhārañjana-śataka 38589
सङ्गी हि बाध्यते लोके निस्सङ्गस्सुखमश्नुते । तेन सङ्गः परित्याज्यस्सर्वदा सुखमिच्छता ॥Pañcadaśī 6.274590
2. Stages of Devotion
यस्त आशिष आशास्ते न स भृत्यस्स वै वणिक् ।Śrīmadbhāgavata 7.10.4591
मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥Śivānandalaharī 19591
अहं भक्तपराधीनो ह्यस्वतंत्र इव द्विज ।Śrīmadbhāgavata 9.4.63592
उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥Bhagavad-gītā 7.18592
3. Prostrate, Surrender and Become Blessed
वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न क्वापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तस्सम्प्रत्यहमतनुरग्रेप्यनतिमानितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥Subhāṣita-ratna-kośa 4.7592
पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव । द्विजिह्वः पुनस्सोऽपि ते कण्ठभूषा त्वदङ्गीकृताश्शर्व सर्वेऽपि धन्याः ॥Śivabhujaṅga 12593
QuotationsReferencesPg. no.
4. The Nectar of Devotion
सा त्वस्मिन्परमप्रेमरूपा ॥Nārada-bhakti-sūtra 1.2594
सौम्या सौम्यतराऽशेषसौम्येभ्यस्त्वतिसुन्दरी । परा पराणां परमा त्वमेव परमेश्वरी ॥Devī-māhātmya 1.81595
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम् ।Soundaryalaharī 22595
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥Vālmīki-rāmāyaṇa 6.18.33-34595
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥Śrīmadbhāgavata 11.14.16595
अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुस्सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥Śivānandalaharī 61597-598
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥Bhagavad-gītā 12.8-11598
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥Bhagavad-gītā 18.65599
5. Fundamental tenets of the Gītā
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥Bhagavad-gītā 2.20599
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥Bhagavad-gītā 13.31600
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥Bhagavad-gītā 3.27600
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥Bhagavad-gītā 13.29600
श्रद्धावान् लभते ज्ञानं तत्परस्संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥Bhagavad-gītā 4.39600
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥Bhagavad-gītā 7.14600
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥Bhagavad-gītā 10.11600-601
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥Bhagavad-gītā 4.37601
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥Bhagavad-gītā 6.3601
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।Bhagavad-gītā 2.27601
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥Bhagavad-gītā 18.5601
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥Bhagavad-gītā 6.29601
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।Bhagavad-gītā 10.20601
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।Bhagavad-gītā 13.2601
6. True Advaitin-s and Pseudo-Advaitins are Poles Apart
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥Bhagavad-gītā 7.19602
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥Garuḍa-purāṇa (Venkateswara Steam Press Edition) 2.49.64603
सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्वं ब्रह्मेति वादश्च सद्यः प्रत्ययहेतवः ॥Kaliviḍambana 90603
नाविरतोदुश्चरितान्नाशान्तो नासमाहितः ।नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥Kaṭha-upaniṣad 1.2.24603
7. Essential Prerequisites for Knowing the Supreme
अथातो ब्रह्मजिज्ञासा ॥Brahma-sūtra 1.1.1603
आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥Kaṭha-upaniṣad 1.3.3-4605
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥Bhagavad-gītā 2.60605
8. The Source of All Evil
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥Bhagavad-gītā 3.36607
काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥Bhagavad-gītā 3.37607
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीरणा ॥Viṣṇu-purāṇa 6.5.74608
उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥Viṣṇu-purāṇa 6.5.78608
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥Bhagavad-gītā 3.38608
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥Manu-smṛti 2.94608
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥Bhagavad-gītā 3.40608
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥Bhagavad-gītā 3.41608
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥Bhagavad-gītā 2.60608
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥Bhagavad-gītā 3.43608
तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥Bṛhadāraṇyaka-upaniṣad 4.4.6609
9. Three Impure Tendencies
लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥Muktika-upaniṣad 2.2.2610
नायमात्मा प्रवचनेन लभ्यो नमेधयान बहुना श्रुतेन ।यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूꣳस्वाम् ॥Kaṭha-upaniṣad 1.2.23612
बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥Muktika-upaniṣad 2.63612
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥Yoga-sūtra 2.32613
भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदूषिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे निःसारेऽस्मिञ्शरीरे किं कामोपभोगैः ॥Maitri-upaniṣad 1.1.2613
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥Yoga-sūtra 2.40613
10. God, the Universe’s Cause
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥Śvetāśvatara-upaniṣad 6.19614
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥Brahma-sūtra 1.4.23614-615
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ।Chāndogya-upaniṣad 6.1.2615
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।Bṛhadāraṇyaka-upaniṣad 2.4.5615
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥Muṇḍaka-upaniṣad 1.1.2615
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवꣳ सोम्य स आदेशो भवतीति ॥Chāndogya-upaniṣad 6.1.4-6615
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।Chāndogya-upaniṣad 6.2.1616
11. God is Neither Partial Nor Cruel
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥Brahma-sūtra 2.1.34617
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनBṛhadāraṇyaka-upaniṣad 3.2.13617
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।Bhagavad-gītā 4.11617
न कर्माविभागादिति चेन्नानादित्वात् ॥Brahma-sūtra 2.1.35617
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।Chāndogya-upaniṣad 6.2.1618
उपपद्यते चाप्युपलभ्यते च ॥Brahma-sūtra 2.1.36618
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्Ṛg Veda Saṁhita 10.190.3 (also Taittirīya-āraṇyaka 10.1)619
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।Bhagavad-gītā 15.3619
12. No Total Change of Brahman into the World
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥Brahma-sūtra 2.1.26619
श्रुतेस्तु शब्दमूलत्वात् ॥Brahma-sūtra 2.1.27620
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् (योजयेत्) । प्रकृतिभ्यः परं यत्तु (यच्च) तदचिन्त्यस्य लक्षणम् ॥Mahābhārata 6.5.12620
तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥Chāndogya-upaniṣad 3.12.6620
देवादिवदपि लोके ॥Brahma-sūtra 2.1.25621
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते ।Bṛhadāraṇyaka-upaniṣad 4.3.10621
13. The Greatest Secret
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥Bhagavad-gītā 9.1622
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥Bhagavad-gītā 9.2622
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ न च मत्स्थानि भूतानि … ।Bhagavad-gītā 9.4, 9.5a622
… पश्य मे योगमैश्वरम् ।Bhagavad-gītā 9.5b623
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।Bhagavad-gītā 7.14623
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥Bhagavad-gītā 13.13623
लौकिकव्यवहारेऽहं गच्छामीत्यादिके बुधः । विविच्यैव चिदाभासं कूटस्थात्तं विवक्षति ॥ असङ्गोऽहं चिदात्माहमिति शास्त्रीयदृष्टितः । अहंशब्दं प्रयुङ्क्षेयं कूटस्थे केवले बुधः ॥Pañcadaśī 7.12, 13623
14. Māyā - The Great Enigma
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता ॥Śvetāśvatara-upaniṣad 1.9627
तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिःŚvetāśvatara-upaniṣad 1.10627
15. Ātman is Self-effulgent Consciousness
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥Bṛhadāraṇyaka-upaniṣad 4.3.2627
अत्रायं पुरुषस्स्वयं ज्योतिःBṛhadāraṇyaka-upaniṣad 4.3.14627
किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने किं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥Ekaślokī627-628
….न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥Bṛhadāraṇyaka-upaniṣad 4.3.30630
16. Liberation of Sages with Divine Missions
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥Brahma-sūtra 3.3.32631
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥Muṇḍaka-upaniṣad 2.2.8631
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥Bhagavad-gītā 4.37631-632
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥Chāndogya-upaniṣad 6.14.2632

Chapter 24: From His Pen

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥Bhagavad-gītā 2.27636
न तस्य प्राणा उत्क्रामन्तिBṛhadāraṇyaka Upaniṣad 4.4.6636
अत्रैव समवनीयन्तेBṛhadāraṇyaka Upaniṣad 3.2.11636
तमेव विदित्वाऽतिमृत्युमेतिŚvetāśvatara-upaniṣad 3.8637
पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।Mohamudgara 21637
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।Bṛhadāraṇyaka-upaniṣad 2.4.5637
QuotationsReferencesPg. no.
सकलभवनिवृत्तं चित्तमेतन्न यस्माच्छ्रवणमननकर्मानुष्ठितिः स्यान्न तस्मात् । विषयकृतविषादो नापि सोढुं प्रशक्यो हरिपदभजनं तन्निवृत्त्यै प्रकुर्मः ॥637
बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥Mohamudgara 7637
सा त्वस्मिन्परमप्रेमरूपा ॥Nārada-bhaktisūtra 1.2638
सत्यं ज्ञानमनन्तं ब्रह्म ।Taittirīya-upaniṣad 2.1.1638
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥Bhagavad-gītā 4.6638
अजायमानो बहुधा विजायते ।Taittirīya-āraṇyaka 3.13638
परोपकृतिकैवल्ये तोलयित्वा जनार्दनः । गुर्वीमुपकृतिं मत्वा ह्यवतारान्दशाग्रहीत् ॥Subhāṣita-ratna-bhāṇḍāgāra, prakaraṇa 2, paropakāra-praśaṁsā verse 5639
परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥Śārṅgadhara-paddhati (nīti 59) 1478639
हा कृष्ण द्वारकावास क्वासि यादवनन्दन । इमामवस्थां संप्राप्तामनाथां किमुपेक्षसे ॥Mahābhārata (dākṣiṇātya-pāṭha) 2.61.47639
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति । यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥Mahābhārata 5.58.21639
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥Śrīmad-bhāgavata 1.7.10639
योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥Śivānandalaharī 35639
श्रवणं कीर्तनं विष्णोस्स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥Śrīmadbhāgavata 7.5.23-24640
ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥Viṣṇu Purāṇa 6.2.17641
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्वान्मैत्रो ब्राह्मण उच्यते ॥Manu-smṛti 2.87641
कलेर्दोषनिधे राजन्नस्ति ह्येको महान्गुणः । कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥Śrīmad-bhāgavata 12.3.51641
सन्निन्दाऽसति नामवैभवकथा श्रीशेशयोर्भेदधीरश्रद्धा श्रुतिशास्त्रदेशिकगिरां नाम्न्यर्थवादभ्रमः । नामाऽस्तीति निषिद्धवृत्तिविहितत्यागौ च धर्मान्तरैस्साम्यं नामनि शङ्करस्य च हरेर्नामापराधा दश ॥Bhagavannāma-bhūṣaṇa (not extant); referenced in Bhagavannāmāmṛta-rasodaya, ullāsa 6641
तृणादपि सुनीचेन तरोरपि सहिष्णुना । अमानिना मानदेन कीर्तनीयः सदा हरिः ॥Caitanya’s Śikṣāṣṭaka 3641
तज्जपस्तदर्थभावनम् ॥Yoga-sūtra 1.28642
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥Bhagavad-gītā 9.22642
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं विभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान्वेणोरधरसुधया पूरयन्गोपवृन्दैर्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥Śrīmad-bhāgavata 10.21.5642
अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च ।यथा पूर्वं तथा भावः स्वर्णादीनां न विष्णुता ॥642
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥Bhagavad-gītā 9.26643
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।Bhagavad-gītā 11.40643
श्रुतिस्मृतिर्ममैवाज्ञाViṣṇudharma 74.30643
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥Bhagavad-gītā 9.27644
विहर पितृवने वा विश्वपारे पुरे वा रजतगिरितटे वा रत्नसानुस्थले वा । दिश भवदुपकण्ठं देहि मे भृत्यभावं परमशिव तव श्रीपादुकावाहकानाम् ॥Ātmārpaṇa-stuti 45644
तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥Bhagavad-gītā 18.62644
तच्चिन्तनं तत्कथनमन्योऽन्यं तत्प्रबोधनम् । एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥Yoga-vāsiṣṭha 3.22.24644
यद्वक्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा नैषां गर्वगिरः शृणोति न च तान्प्रत्याशया धावसि । काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥Verse ascribed to Bhartṛhari; Sāyaṇa’s Subhāṣita-sudhānidhi 2.136.22; Kuvalayānanda, example for vyājastuti-alaṅkāra645
न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् । तत्तदिव पामराणामाकिञ्चन्यं धनं विदुषाम् ॥Nīlakaṇṭha-dīkṣita’s Vairāgyaśataka 43645
द्वे विद्ये वेदितव्ये ...परा चैवापरा च ।Muṇḍaka-upaniṣad 1.1.4646
कारीर्या वृष्टिकामो यजेत ।Āpastamba-śrautasūtra 19.25.16646
ज्योतिष्टोमेन स्वर्गकामो यजेत ।Āpastamba-śrautasūtra 10.2.1646
अथ परा यया तदक्षरमधिगम्यते ।Muṇḍaka-upaniṣad 1.1.5646
निचाय्य तन्मृत्युमुखात्प्रमुच्यते ॥Kaṭha-upaniṣad 1.3.15647
वाक्यार्थश्च विचार्यतां … श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।Upadeśapañcaka 3647
तर्काप्रतिष्ठानात् …Brahma-sūtra 2.1.11647
यत्नेनानुमितोप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥Bhāmatī on Brahma-sūtra 2.1.11647
विदुषां निवहैरिहैकमत्या यददुष्टं निरटङ्क यच्च दुष्टम् । मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुतां तदन्यथैव ॥Dīdhiti647
पूर्णमदः पूर्णमिदम्Bṛhadāraṇyaka-upaniṣad 5.1.1648
पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन् ।Kaṭha-upaniṣad 2.1.1649
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥Bhagavad-gītā 6.34649
अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान्यत्नमाचरेत् ॥Maxim cited in the Śābara-bhāṣya on Mīmāṁsā-sūtra 1.2.4650
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।Bhagavad-gītā 16.14650
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥Manu-smṛti 2.94650
नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते । स विवेको यः शान्तिकृदविवेकोऽन्यः समस्तोऽपि ॥Nīlakaṇṭha-dīkṣita’s Vairāgya-śataka 20651
तरति शोकमात्मवित्Chāndogya-upaniṣad 7.1.3651
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःBṛhadāraṇyaka-upaniṣad 2.4.5651
पिशुनैः प्रकाममुदितां परस्य निन्दां शृणोति कर्णाभ्याम् । तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥Prabodha-sudhākara 59652
यस्माद्यावत्सुखं स्यादिह हि विषयतस्तावदस्मिन्प्रियत्वं यावद्दुःखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम् । नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाऽप्यप्रियोऽपि प्रियःस्यात्प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥Śataślokī 10653
यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ॥Bṛhadāraṇyakopaniṣad-bhāṣya-vārtika 1.4.402654
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाऽहमहमित्यन्तः स्फुरन्नेकधा । नानाकारविकारभाजिन इमान्पश्यन्नहंधीमुखान्नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥Vivekacūḍāmaṇi 219654
शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥Vivekacūḍāmaṇi 39654
प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थदृ-ग्व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणा-न्हन्तासौ प्रबला दुरन्ततमसश्शक्तिर्महत्यावृतिः ॥Vivekacūḍāmaṇi 116655
आविद्यो ह्येष बन्धो विरमति न विना वेदनं कर्मजालै-र्मालोद्भूताहिरस्तं व्रजति किमु नमस्कारमन्त्रौषधाद्यैः ।Svārājyasiddhi 1.7656
ज्ञात्वा देवं सर्वपाशापहानिःŚvetāśvatara-upaniṣad 1.11656
तमेवं विद्वानमृत इह भवति ।Taittirīya-āraṇyaka 3.12.7656
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।Gauḍapāda-kārikā 2.6656
स्वस्याविद्याबन्धसंबन्धमोक्षात्सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तस्सिद्धा स्वानुभूतिः प्रमाणम् ॥Vivekacūḍāmaṇi 475657
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।Taittirīya-upaniṣad 2.8.5657
ब्रह्मविदाप्नोति परम् ।Taittirīya-upaniṣad 2.1.1657
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ।Taittirīya-upaniṣad 2.7.1657
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥Garuḍa-purāṇa 2.49.64658
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥Vivekacūḍāmaṇi 60658
शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥Vivekacūḍāmaṇi 356658
ब्रह्म वेद ब्रह्मैव भवतिMuṇḍaka-upaniṣad 3.2.9659
तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्Termed a śruti of the Śāṭyāyanins in the bhāṣya on Brahma-sūtra 3.3.26659

Chapter 25: His Scientific Insight

दीर्घचतुरश्रस्याक्ष्णया रज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥Bodhāyana-sulba-sūtra 1.48667
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतस्स एवेद... सर्वमित्यथातो ... ।Chāndogya-upaniṣad 7.25.1668
त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः ।Śvetāśvatara-upaniṣad 4.3,4.4668
ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ।Muṇdaka-upaniṣad 2.2.12668
नक्षत्राणामहं शशी… इन्द्रियाणां मनश्चास्मि…मेधा... सरसामस्मि सागरः… मृगाणां च मृगेन्द्रोऽहं… पवनः पवतामस्मि… झषाणां मकरश्चास्मि… अक्षराणामकारोऽस्मि… अहमेवाक्षयः कालो… ऋतूनां कुसुमाकरः... द्यूतं छलयतामस्मि… व्यवसायोऽस्मि… मौनं चैवास्मि गुह्यानां…Bhagavad-gītā - 10.21, 10.22, 10.34, 10.24, 10.30, 10.31, 10.31, 10.33, 10.33, 10.35, 10.36, 10.36, 10.38668
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ प्रभवः प्रलयस्स्थानं निधानं बीजमव्ययम् ॥Bhagavad-gītā 9.16, 9.18668
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥Bhagavad-gītā 15.14668
नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमः ।Śrī-rudra 6.2669
यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान्परिणामयेद्यः ।Śvetāśvatara-upaniṣad 5.5670
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।Kaṭha-upaniṣad 1.2.18671

Chapter 26: Beyond Embodiment

नीरोग उपविष्टो वा रुग्णो वा विलुठन्भुवि । मूर्च्छितो वा त्यजत्वेष प्राणान्भ्रान्तिर्न सर्वथा ॥Paṅcadaśī 2.106682
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥Paramārthasāra 81682
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥Brahma-sūtra 4.1.13-14683
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥Bhagavad-gītā 5.26683
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ।Chāndogya-upaniṣad 6.14.2683
न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ।Bṛhadāraṇyaka-upaniṣad 4.4.6683

Contents