Yoga, Enlightenment and Perfection

15. Appendix – List of Sanskrit references

1. H.H. Jagadguru Sri Abhinava Vidyatheertha Mahaswamigal

¹ भवदीयपत्रिकया भवच्छरीरे निरामयतामध्ययनाध्यापनप्रक्रियां च निष्प्रत्यूहं निर्वर्त्यमानां विदित्वा निरर्गलमानन्दं समवापि । (Letter from Paramacharyal to Acharyal)

² पादप्रभाविनिर्धूताविद्यान्धतमसाय ते ।

यतये चितिनिर्विष्टचित्तायास्तु नमो मम ॥

(Verse composed by Acharyal on Paramacharyal)

³ श्रीमतां देशिकेन्द्राणां पादपद्मे नमाम्यहम् । मन्दोऽपि वन्दनाद्येषां विन्देत गुरुतुल्यताम् ॥ (Verse composed by Acharyal on Paramacharyal)

⁴ पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।

सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥ (Malavikāgnimitra I.2)
⁵ शकुनीनामिवाकाशे जले वारिचरस्य च ।
पदं यथा न दृश्येत तथा ज्ञानवतां गतिः ॥

(Mahābhārata, Gita Press Edition, 12.181.19)

⁶ नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनꣳ हि तत् (Bṛhadāraṇyaka-upaniṣad IV.4.21cd)

⁷ द्वेष्योऽपि संमतश्शिष्टस्तस्यार्तस्य यथौषधम् ।

त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ (Raghuvaṁsa I.28)
⁸ अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वप्यचिन्तयत् । (Raghuvaṁsa VIII.8)

⁹ जातः पिङ्गलहायने यतिरभूद्यश्च प्रजापत्यभि-

ख्येऽब्दे पीठपतिर्बभूव जयवर्षे यश्च शृङ्गाचले।
कीर्तिं प्राप्य दिगन्तगां तनुमिमां यश्शुक्लवर्षे जहौ
विद्यातीर्थगुरुर्जयत्यभिनवो लोकान् सदा पालयन् ॥

(Verse composed by H.H. Jagadguru Sri Bharathi Theertha Mahaswamigal on Acharyal in the year 1989)

2. H.H. Jagadguru Sri Chandrasekhara Bharathi Mahaswamigal

¹ श्रीचन्द्रशेखरभारतीतिप्रथितप्रातस्स्मरणीयनामधेया अस्मदाचार्यपादाः कृततपश्चर्याः सर्वतन्त्रस्वतन्त्राः शास्त्रोपदिष्टार्थानुष्ठाननिष्ठागरिष्ठा अपरोक्षीकृतात्मतत्त्वा जीवन्मुक्ता अभूवन् । (Acharyal’s preface to Vivekacūḍāmaṇi with the commentary of Paramacharyal)

² अस्मदाचार्यपादाः ब्रह्मनिष्ठा ब्रह्मपरा जीवन्मुक्ताः समस्तानामास्तिकानामादर्शचरिता अभूवन् । (Śrīmukha to Śrī-Jagadgurucaritāmṛta by Bhashya Swamigal)

³ अविद्याध्वान्तानां दिनमणिरनन्तान्तरगतो विषीदद्विद्वद्भृत्कुमुदवनराकाहिमकरः ।

पराध्वामित्राणां विषयगहनानां हुतवहो
गुरुस्तेजोरूपो जयति जनताऽऽनन्दथुरयम् ॥

(Verse composed by Acharyal on Paramacharyal)

⁴ वन्दे वन्दारुमन्दारं वन्दनीयं बुधोत्तमैः ।

आनन्दकन्दलं तीर्थवारिधिं देशिकोत्तमम् ॥

(Verse composed by Acharyal on Paramacharyal)

⁵ करतलभिक्षस्तरुतलवासः (Mohamudgara 16)

⁶ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ (Bhagavad-gītā III.22)
⁷ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ (Bhagavad-gītā III.23)

⁸ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । (Bhagavad-gītā III.24ab)

⁹ संसारनामकसरिन्नाथोत्तरणे तवास्ति यदि वाञ्छा ।

बालक श्रृणु मद्वचनं श्रुतिमस्तकसंमतं हितोदर्कम् ॥
प्रविधाय सशिखवपनं छित्त्वा यज्ञार्थमाहृतं सूत्रम् ।
स्वीकृतपारमहंस्यः स्थिरतरसाधनचतुष्टयोपेतः ॥
श्रद्धाभक्तियुतात्मा प्रविचारय तत्त्वमात्मनः सुचिरम् ।

(Composed by His Holiness Sri Sacchidananda Sivabhinava Nrisimha Bharathi Mahaswamigal)

सद्गुरुमुखाम्बुजातस्रवदागमशीर्षवाक्यपीयूषैः ॥
¹⁰ प्रवर्तितो दीप इव प्रदीपात् (Raghuvaṁsa V.37cd)

¹¹ शंभोर्मूर्तिश्चरति भुवने शङ्कराचार्यरूपा (Mādhavīya-Śaṁkaravijaya IV.60cd)

¹² तमांसि ध्वंसन्ते परिणमति भूयानुपशमः सकृत्संवादेऽपि प्रथत इह चामुत्र च फलम् ।

अथ प्रत्यासङ्गः कमपि महिमानं वितरति प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते ॥ (Mahavīra-carita 12)
¹³ सदाऽऽत्मध्याननिरतं विषयेभ्यः पराङ्मुखम् ।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥

(Verse composed by Acharyal on Paramacharyal)

¹⁴ श्रीमद्विष्णुपदाऽऽलम्बं वेदान्तामृतवर्षिणम् । लोकसंतापशमनं वन्देऽभ्रसदृशं गुरुम् ॥ (Verse composed by Acharyal on Paramacharyal)

¹⁵ गुरुवरचरणौ भक्त्या नित्यं प्रणमामि भक्तकरुणालू ।

यद्भानुलेशपातो हृदयध्वान्तानि सन्ततं हन्ति ॥

(Verse composed by Acharyal on Paramacharyal)

3. Childhood To Saṁnyāsa: The Spiritual Foundation

¹ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ (Bhagavad-gītā IX.26)
² दारा इमे मे तनया इमे मे गृहा इमे मे पशवश्च मे मे ।
इत्थं नरो मेषसमानधर्मा मेमेकरः कालवृकेण नीतः ॥
³ सूते सूकरयुवतिः सुतशतमत्यन्तदुर्भगं झटिति ।
करिणी चिराय सूते सकलमहीपाललालितं कलभम् ॥
(Śubhāṣita-ratna-bhāṇḍāgāra, Sthalācāra-nyāyokti, 66)
⁴ बहुनोक्तेन किं विप्रा जपेनास्याश्च होमतः ।
अभीष्टं सर्वमाप्नोति नात्र सन्देहकारणम् ॥ (Sūta-saṁhitā IV.6.59)
⁵ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ (Manu-smṛti II.79)
⁶ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
(Mahānārāyaṇa-upaniṣad I.10.21)
⁷ ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (Bhagavad-gītā V.22)
⁸ शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ (Bhagavad-gītā V.23)
⁹ असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ (Bhagavad-gītā VI.35)
¹⁰ नहि नहि मनुतां स्वत्वं मर्त्यः स्वीये शरीरेऽपि ।
पितृभूमिश्शृगालगणाः स्वत्वं परिचिन्तयन्ति तत्काले ॥
(Verse uttered by Paramacharyal in His state of seclusion)
¹¹ सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् ।
तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥ (Prabodha-sudhākara I.26)
¹² को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् ॥ (Mahābhārata 12.175.16)
¹³ बाल्ये नष्टविवेको विषयसुखास्वादलम्पटस्तरुणः ।
परतो जातविवेको वृद्धोऽशक्तः किमाप्नुयात्सिद्धिम् ॥
¹⁴ लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः ।
मुक्तिः संसरणं वा तदन्यलोकोऽथ वा नाद्यः ॥ (Prabodha-sudhākara II.35)

¹⁵ सर्वेऽपि पुत्रभाजस्तन्मुक्तौ नैव संस्मृतिर्भवति । श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥ (Prabodha-sudhākara II.36)

¹⁶ तत्रास्त्युपायसत्त्वाद्वितीयपक्षेऽप्यपुत्रस्य । पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् ॥ (Prabodha-sudhākara II.37)

¹⁷ धनं वा धान्यं वा भवतु बहुशो भोग्यमपि वा विरामे को ब्रूते ननु चिरमहं निर्वृत इति । प्रकोपप्रोद्भिन्नप्रकटयमदंष्ट्रां तु पुरतः प्रपश्यन्किं कुर्यात्प्रसभमवसाने प्रभुरपि ॥ (Verse uttered by Paramacharyal in His state of seclusion)

¹⁸ यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे । संप्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥ (Prabodha-sudhākara I.25)

¹⁹ नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसञ्चयः (Nārada-purāṇa, Pūrvārdha 39.49)

²⁰ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ (Hitopadeśa, Prāstāvikā 3)

²¹ लब्धा विद्या राजमान्या ततः किं प्राप्ता संपत्प्राभवाढ्या ततः किम् । भुक्ता नारी सुन्दराङ्गी ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ (Anātmaśrīvigarhaṇam 1)

²² नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ (Mohamudgara 3)

²³ सद्गुरो शरणं शिवोऽहं शिवोऽहम् (Words uttered by Sri Srinivasa Sastry when delirious)

²⁴ सद्गुरो पाहि सद्गुरो पाहि (Words uttered by Sri Srinivasa Sastry when delirious)

²⁵ सर्वज्ञं श्रीनिवासं कुरु शिवदयिते सत्वरं मद्विनम्रम् (Prayer of Paramacharyal to Sharadambal)

4. Haṭha-yoga

¹ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा… (Haṭhayoga-pradīpikā I.35)

² कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ (Haṭhayoga-pradīpikā III.70)

³ उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ (Haṭhayoga-pradīpikā III.57)

⁴ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ (Haṭhayoga-pradīpikā II.45)

⁵ उड्डियानकस्तु कुम्भकान्ते कुम्भकस्यान्ते किञ्चित्कुम्भकशेषे रेचकस्यादौ रेचकादौ रेचकात्पूर्वं कर्तव्यः । (Jyotsnā, commentary on the Haṭhayoga-pradīpikā II.45)

⁶ चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । (Haṭhayoga-pradīpikā II.2ab)

⁷ धारणासु च योग्यता मनसः । (Yogasūtrā II.53)

⁸ यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणधारणात् ॥ (Amrutanāda-upaniṣad 7)

⁹ अथ सूर्यभेदनम् आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः॥ (Haṭhayoga-pradīpikā II.48)

¹⁰ आ केशादा नखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ (Haṭhayoga-pradīpikā II.49)

¹¹ अथोज्जायी मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ (Haṭhayoga-pradīpikā II.51)

¹² पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ (Haṭhayoga-pradīpikā II.52)

¹³ अथ सीत्कारी सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥ (Haṭhayoga-pradīpikā II.54)

¹⁴ अथ शीतली जिह्वया वायुमाकृष्य पूर्ववत्कुम्भसाधनम् शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ (Haṭhayoga-pradīpikā II.57)

¹⁵ अथ भस्त्रिका सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ (Haṭhayoga-pradīpikā II.60)

¹⁶ यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ (Haṭhayoga-pradīpikā II.61)

¹⁷ पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । (Haṭhayoga-pradīpikā II.62ab)

¹⁸ पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ (Haṭhayoga-pradīpikā III.61)

¹⁹ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ (Yogasūtrā II.51)

²⁰ ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ (Yogatattva-upaniṣad 49cd)

²¹ यथेष्टधारणाद्वायोः सिध्येत्केवलकुम्भकः । केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥ (Yogatattva-upaniṣad 50)

²² न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते । (Yogatattva-upaniṣad 51ab)

²³ छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीसिद्धिः ॥ (Haṭhayoga-pradīpikā III.33)

²⁴ कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ (Haṭhayoga-pradīpikā III.37)

²⁵ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ (Haṭhayoga-pradīpikā III.39)

²⁶ चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत्। पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ (Haṭhayoga-pradīpikā II.24)

²⁷ नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं वस्तिकर्म तत्॥ (Haṭhayoga-pradīpikā II.26)

²⁸ सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ (Haṭhayoga-pradīpikā II.29)

²⁹ निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसंपातपर्यन्तमाचार्यैस्त्राटकं स्मृतम्॥ (Haṭhayoga-pradīpikā II.31)

³⁰ अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ (Haṭhayoga-pradīpikā II.33)

³¹ भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ (Haṭhayoga-pradīpikā II.35)

³² न तत्र रथा न रथयोगा न पन्थानो भवन्ति (Bṛhadāraṇyaka-upaniṣad IV.3.10)

³³ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ (Brahmasūtra III.2.3)

³⁴ स्वप्ननिद्राज्ञानालम्बनं वा ॥ (Yogasūtra I.38)

5. Devotion and Karma-yoga

¹ सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् । त्र्यक्षं चक्रपिनाकसाभयवरान्बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ (Dhyāna-śloka of Mantrarāja of Lakṣmī-Narasiṁha)

² लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पं कल्पयामि ।

यं वाय्वात्मने धूपमाघ्रापयामि ।

रं अग्न्यात्मने दीपं दर्शयामि ।

वं अमृतात्मने अमृतोपहारं निवेदयामि ।

सं सर्वात्मने सर्वोपचारपूजास्समर्पयामि । (Words of pañcopacāra-pūjā)

³ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ (Mantrarāja of Lakṣmī-Narasiṁha)

⁴ महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे ॥ (Bhartṛhari’s Vairāgya-śataka)

6. Exposure to Kuṇḍalinī-yoga

¹ श्री शारदायै नमः।

² इयं सुषुम्ना नाडी ।

³ इयं वज्रा नाडी ।

⁴ इयं चित्रिणी नाडी । अत्र ब्रह्मनाडी वर्तते । सा सुषुम्नेत्यपि व्यपदिश्यते ।

⁵ इयम् इडा नाडी ।

⁶ इयं पिङ्गला नाडी ।

⁷ तदुक्तं यामले-

इडा च पिङ्गला चैव तस्य वामे च दक्षिणे ।
ऋज्वीभूते शिरे ते च वामदक्षिणभेदतः ।
सर्वपद्मानि संवेष्ट्य नासारन्ध्रगते शुभे ॥
इति ।
अत्र ’शिरे ते च’ इत्यत्र चकारो वार्थः ।... एतेनानयोः स्थित्यां द्विविधः कल्पो

दर्शितः । अन्यत्रानयोर्धनुराकारेण स्थितिरुक्ता । तद्यथा - विद्धि ते धनुराकारे नाडीडापिङ्गले परे ॥ इति ।

(Yāmalā - Kālicaraṇa’s commentary on the first verse of the Saṭcakranirūpaṇa)

⁸ इदं मूलाधार-चक्रम् ।

⁹ इदं स्वाधिष्ठान-चक्रम् ।

¹⁰ इदं मणिपूर-चक्रम् ।

¹¹ इदम् अनाहत-चक्रम् ।

¹² इदं विशुद्ध-चक्रम् ।

¹³ इदम् आज्ञा-चक्रम् ।

¹⁴ अत्र परमशिवः स्थितः ।

¹⁵ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ (Ṛg-veda I.164.45)

¹⁶ चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् ॥ (Yogacūḍāmaṇi-upaniṣad 4cd)

¹⁷ नाभौ दशदलं पद्मं हृदयं द्वादशारकम् । षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा ॥ (Yogacūḍāmaṇi-upaniṣad 5)

¹⁸ सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि । (Yogacūḍāmaṇi-upaniṣad 6 ab)

¹⁹ तस्योर्ध्वे नाभिमूले दशदललसिते पूर्णमेघप्रकाशे नीलाम्भोजप्रकाशैरुपहितजठरे डादिफान्तैः सचन्द्रैः । ध्यायेद्वैश्वानरस्यारुणमिहिरसमं मण्डलं तत्त्रिकोणम् तद्बाह्ये स्वस्तिकाख्यैस्त्रिभिरभिलसितं तत्र वह्नेः स्वबीजम् ॥ (Saṭcakranirūpaṇa 19)

²⁰ ध्यायेन्मेषाधिरूढं नवतपननिभं वेदबाहूज्ज्वलाङ्गं तत्क्रोडे रुद्रमूर्तिर्निवसति सततं शुद्धसिन्दूररागः । भस्मालिप्ताङ्गभूषाभरणसितवपुर्वृद्धरूपी त्रिनेत्रो लोकानामिष्टदाताऽभयलसितकरः सृष्टिसंहारकारी ॥ (Saṭcakranirūpaṇa 20)

²¹ अत्रास्ते लाकिनी सा सकलशुभकरी वेदबाहूज्ज्वलाङ्गी श्यामा पीताम्बराद्यैर्विविधविरचनालङ्कृता मत्तचित्ता । ध्यात्वैतन्नाभिपद्मं प्रभवति नितरां संहृतौ पालने वा वाणी तस्याननाब्जे निवसति सततं ज्ञानसन्दोहलक्ष्मीः॥ (Saṭcakranirūpaṇa 21)

²² आज्ञासीद्गौरवी मे तव खलु करुणावारिधि शारदाम्बा साष्टाङ्गं योगमारादुपदिशति भवानौरसः सूनुरस्याः । (Śrī-śāradā-śataślokīstavaḥ 25ab)

²³ आगच्छन्ती सदनमदसीयं पुरा शारदाम्बा ताटङ्काढ्या मुदितवदना स्वप्न एवं ह्यपश्यम् । काले काले बहुलकृपया शब्दयन्ती स्वनाम्ना ह्वायं ह्वायं सकलमपि मे बोधयामास देवी ॥ (Śrī-śāradā-stuti-mañjarī 13)

²⁴ ब्रह्म-ग्रन्थिं भित्वेयमूर्ध्वं गच्छति ।

²⁵ विष्णु-ग्रन्थिश्छिन्नः ।

²⁶ रुद्रग्रन्थिभेदो जातः ।

²⁷ कुण्डलिनी परमशिवेन युक्ता ।

²⁸ प्रसार्य स्वशरीरं तु सुषुम्नावदनान्तरे॥ (Yoga-kuṇḍalī-upaniṣad I.66cd)

²⁹ ब्रह्मग्रन्थिं ततो भित्वा रजोगुणसमुद्भवम् ।
सुषुम्नावदने शीघ्रं विद्युल्लेखेव संस्फुरेत् ॥ (Yoga-kuṇḍalī-upaniṣad I.67)
³⁰ विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता ।
ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् ॥ (Yoga-kuṇḍalī-upaniṣad I.68)

³¹ भ्रुवोर्मध्यं तु संभिद्य याति शीतांशुमण्डलम् । (Yoga-kuṇḍalī-upaniṣad I.69ab)

³² ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ (Brahmavidyā-upaniṣad 70cd)

³³ रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । (Brahmavidyā-upaniṣad 71ab)

7. Contemplation on the Ātman

¹ आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने

² आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः
संवित्सूत्रानुविद्धो मणिरहमिति वाऽस्मीन्द्रियार्थप्रतीतौ ।
द्रष्टा(द्रष्टो)ऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्दसिन्धौ
अन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥ (Śataślokī 12)
³ ... भावयन्नासनस्थः
संवित्सूत्रानुविद्धो मणिरहमिति वाऽस्मी
⁴ ... इन्द्रियार्थप्रतीतौ ।
द्रष्टा(दृष्टो)ऽस्म्यात्मावलोकादिति

⁵ शयनविधौ मग्न आनन्दसिन्धौ

⁶ अन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥

⁷ वस्तुतन्त्रो भवेद्बोधः कर्तृतन्त्रमुपासनम् ॥ (Pañcadaśī IX.74cd)

⁸ विचाराज्जायते बोधोऽनिच्छा यं न निवर्तयेत् ।
स्वोत्पत्तिमात्रात्संसारे दहत्यखिलसत्यताम् ॥ (Pañcadaśī IX.75)
⁹ पुरुषस्येच्छया कर्तुमकर्तुं कर्तुमन्यथा ।
शक्योपास्तिरतो नित्यं कुर्यात्प्रत्ययसन्ततिम् ॥ (Pañcadaśī IX.80)

¹⁰ ब्रह्मज्ञानायते साक्षान्निर्गुणोपासनं शनैः ॥ (Pañcadaśī IX.122cd)

¹¹ जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्यन्नास्ते मुनिश्शान्तः (Ātma-vidyā-vilāsa 11)

¹² प्रविलाप्य पञ्चभूतानि

¹³ पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ (Brahmānucintana 12)

¹⁴ परिशिष्टमात्मतत्त्वं पश्यन्

¹⁵ क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ॥ (Brahmānucintana 9cd)

¹⁶ तन्महापातकं हन्ति तमः सूर्योदयो यथा । (Brahmānucintana 10ab)

8. Initiating Deep Meditation

¹ ऐं क्लीं सौः सौः क्लीं ऐं (Bālā-Tripurasundarī-mantra)

² अरुणकिरणजालैरञ्चिताशावकाशा विधृतजपपटीकापुस्तकाभीतिहस्ता। इतरकरवराढ्या फुल्लकल्हारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ (Dhyāna-śloka of Bālā-Tripurasundarī-mantra)

³ ओं नमो नारायणाय (Nārāyaṇa-aṣṭākṣarī-mantra)

9. Meditation and Samādhi on Divine Forms

¹ बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान्वेणोरधरसुधया पूरयन्गोपवृन्दैर्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ (Bhāgavata X.21.5)

² करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ (Balamukundāṣṭakam 1)

³ किरीटहारकेयूरकटकादिविभूषितम् ॥ (Viṣṇu-purāṇa VI.7.84)

⁴ शार्ङ्गशङ्खगदाखङ्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ (Viṣṇu-purāṇa VI.7.85)

⁵ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।
तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ (Viṣṇu-purāṇa VI.7.86)
⁶ व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ (Viṣṇu-purāṇa VI.7.87)

⁷ ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ (Viṣṇu-purāṇa VI.7.88)

⁸ सा यदा धारणा तद्वदवस्थानवती ततः ।
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ (Viṣṇu-purāṇa VI.7.89)
⁹ तदेकावयवं देवं चेतसा हि पुनर्बुधः ॥ (Viṣṇu-purāṇa VI.7.90ab)

¹⁰ तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद्बुधः सुस्मितं भावयेन्मुखम् ॥ (Bhāgavata-purāṇa XI.14.43)

¹¹ देशबन्धश्चित्तस्य धारणा ॥ (Yogasūtra III.1)

¹² तत्र प्रत्ययैकतानता ध्यानम् ॥ (Yogasūtra III.2)

¹³ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ (Yogasūtra III.3)

¹⁴ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ (Kaivalya-upaniṣad 7)

¹⁵ वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ (Cited in Kalpataru, gloss relating to Brahmasūtra I.1.20)

10. Ascent of the Kuṇḍalinī and Descent of Nectar

¹ सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ (Lalitā-sahasranāma II.39 cd)

² शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् । अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ (Āryā-dviśatī 211)

³ शीर्षाम्भोरुहमध्ये

⁴ शीतलपीयूषवर्षिणीं भवतीम् ।

⁵ अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥

11. From Divine Forms to the Formless Reality

¹ ओं नमः शिवाय।

² भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमानित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ (Dakṣiṇamūrti-stotra 9)

³ शान्तं पद्मासनस्थं शशधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खङ्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ (Dhyāna-ślokā of Śiva-pañcākṣarī-mantra)

⁴ वत्स, श्वःप्रभृत्यत्र निराकारे परे तत्त्वे मनः समाधत्स्व । अचिरेण ब्रह्मसंस्थो भविष्यसि । (Īśvarā’s words to Acharyal)

⁵ ओं नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । (dhyāna-śloka Medha-Dakṣiṇāmūrti-mantra)

⁶ स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्याज्ञानमुद्राः कराब्जैः। दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ (Dhyāna-śloka of Medha-Dakṣiṇāmūrti-mantra found in Dakṣiṇāmūrti-upaniṣad 3)

12. Intense Reflection and Focus on Brahman

¹ ब्रह्मविदाप्नोति परम् । (Taittirīya-upaniṣad II.1.1)

² आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । (Taittirīya-upaniṣad II.9.1)

³ यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । (Taittirīya-upaniṣad II.8.1)

⁴ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ (Bhagavad-gītā XIII.5)
⁵ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ (Bhagavad-gītā XIII.6)

⁶ सत्यं ज्ञानमनन्तं ब्रह्म । (Taittirīya-upaniṣad II.1.1)

⁷ तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः ।
वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । (Taittirīya-upaniṣad. II.1.1)
⁸ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । (Taittirīya-upaniṣad III.1.1)
⁹ स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । (Taittirīya-upaniṣad II.8.5)
¹⁰ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ (Bhagavad-gītā VI.29)
¹¹ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ (Bhagavad-gītā VI.30)

¹² अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । (Brahmānucintana 1ab)

¹³ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥ (Bhagavad-gītā VII.19)

¹⁴ परमार्थतत्त्वं च वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतोऽभिव्यञ्जयत्... गीताशास्त्रम् । (Bhagavatpāda's introduction to Gītā-bhāṣya)

¹⁵ छादयामि जगद्विश्वं भूत्या सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततः स्मृतः॥ (Mokṣadharma of Mahābhārata XII.328.36)
¹⁶ सर्वाणि तत्र भूतानि वसन्ति परमात्मनि ।
भूतेषु च सर्वात्मा वासुदेवस्ततः स्मृतः ॥ (Viṣṇu-purāṇa VI.8.80)
¹⁷ अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । (Brahmānucintana 1ab)
¹⁸ ब्रह्माकारमनोवृत्तिप्रवाहोऽहङ्कृतिं विना ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥ (Muktika-upaniṣad 53)
¹⁹ ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।
तदाकारकारितया चित्तवृत्तेरवस्थितिः ॥

(Sarva-vedānta-siddhānta-sāra-saṅgrahaḥ 820)

²⁰ सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः ।
मृद एवावभानेऽपि मृन्मयद्विपभानवत् ॥

(Sarva-vedānta-siddhānta-sāra-saṅgrahaḥ 821)

²¹ सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी ।
समाधिरत एवायं सविकल्प इतीर्यते ॥

(Sarva-vedānta-siddhānta-sāra-saṅgrahaḥ 822)

²² अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । (Brahmānucintana 1ab)
²³ नित्यशुद्धबुद्धमुक्तसत्यस्वभावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मि । (Pañcīkaraṇa)
²⁴ यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः॥ (Mahānārāyaṇa-upaniṣad XIII.5)
²⁵ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥

(Chāndogya-upaniṣad VI.1.4 )

²⁶ सर्वाधिष्ठानभूतसन्मात्रब्रह्मास्मि ।
²⁷ दृश्यशब्दानुवेधेन सविकल्पः पुनर्द्विधा ॥ (Dṛg-dṛśya-viveka 3cd)
²⁸ कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ।
ध्यायेद्दृश्यानुविद्धोऽयं समाधिस्सविकल्पकः ॥ (Dṛg-dṛśya-viveka 24)
²⁹ असङ्गसच्चिदानन्दस्स्वप्रभो द्वैतवर्जितः ।
अस्मीति शब्दानुविद्धोऽयं समाधिस्सविकल्पकः॥ (Dṛg-dṛśya-viveka 25)
³⁰ हृदीव बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि ।
समाधिराद्यस्सन्मात्रान्नामरूपपृथक्कृतिः॥ (Dṛg-dṛśya-viveka 27)
³¹ अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् ।
इत्यविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ (Dṛg-dṛśya-viveka 28)

13. Enlightenment and Establishment in Brahman

¹ विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥ (Ātma-vidyā-vilāsa 4cd)
² विगलितसर्वविकल्पः

³ यो वै भूमा तत्सुखम् (Chāndogya-upaniṣad VII.23.1)

⁴ यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ
यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् ॥

(Chāndogya-upaniṣad VII.24.1)

⁵ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । (Māndūkya-upaniṣad III.45ab)
⁶ शनैश्शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥ (Bhagavad-gītā VI.25)
⁷ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ (Maitrāyaṇī-upaniṣad IV.4.1)
⁸ लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ।
यदा यात्यमनीभावं तदा तत्परमं पदम् ॥ (Maitrāyaṇī-upaniṣad IV.4.7)
⁹ तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम् । (Maitrāyaṇī-upaniṣad IV.4.8ab)
¹⁰ निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः॥ (Vivekacūdāmaṇi 363)
¹¹ समाधिनानेन समस्तवासनाग्रन्थेर्विनाशोऽखिलकर्मनाशः ।
अन्तर्बहिःसर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ (Vivekacūdāmaṇi 364)
¹² श्रुतेः शतगुणं विद्यान्मननं मननादपि ।
निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ (Vivekacūdāmaṇi 365)
¹³ निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ (Vivekacūdāmaṇi 366)
¹⁴ समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥

(Maitrāyaṇī-upaniṣad IV.4.9)

¹⁵ यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ (Bhagavad-gītā VI.20)
¹⁶ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ (Bhagavad-gītā VI.21)
¹⁷ द्विविधः समाधिः संप्रज्ञातोऽसंप्रज्ञातश्च, ध्येयैकाकारसत्त्ववृत्तिर्भेदेन कथञ्चिज्ज्ञायमाना संप्रज्ञातः समाधिः, कथमपि पृथगज्ञायमाना सैव सत्त्ववृत्तिरसंप्रज्ञातः समाधिः (Anandagiri's gloss on Bhagavatpāda's bhāṣya on verse (VI.20) of

the Bhagavad-gītā)

¹⁸ ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।

मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥

(Sarva-vedānta-siddhānta-sāra-sangrahaḥ 823)

¹⁹ जले निक्षिप्तलवणं जलमात्रतया स्थितम् ।
पृथङ् न भाति किन्त्वम्भ एकमेवावभासते ॥

(Sarva-vedānta-siddhānta-sāra-sangrahaḥ 824)

²⁰ यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता ।
पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥

(Sarva-vedānta-siddhānta-sāra-sangrahaḥ 825)

²¹ ज्ञात्रादिकल्पनाऽभावान्मतोऽयं निर्विकल्पकः ।

(Sarva-vedānta-siddhānta-sāra-sangraha 826ab)

²² आदौ जलधिजीमूतभेरीनिर्झरसंभवः ।
मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा ॥
अन्ते तु किंकिणीवंशवीणाभ्रमरनिःस्वनः। (Nādabindu-upaniṣad 35ab)
²³ विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः ।
एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ (Nādabindu-upaniṣad 39)
²⁴ योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः ।
मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः ॥ (Yogatattva-upaniṣad 19)

²⁵ लययोगश्चित्तलयः कोटिशः परिकीर्तितः । (Yogatattva-upaniṣad 23ab)

²⁶ सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके । नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥ (Yogatārāvali 2)

²⁷ अन्यदेव तद्विदितात् (Kena-upaniṣad I.3)

²⁸ येनेदꣳ सर्वं विजानाति तं केन विजानीयात् (Bṛhadāraṇyaka-upaniṣad II.4.14)

²⁹ न विज्ञातेर्विज्ञातारं विजानीयाः (Bṛhadāraṇyaka-upaniṣad III.4.2)

³⁰ नान्यदतोऽस्ति विज्ञातृ (Bṛhadāraṇyaka-upaniṣad III.8.11)

³¹ ... अविद्याध्यारोपणनिराकरणमात्रं ब्रह्मणि कर्तव्यं नतु ब्रह्मज्ञाने यत्नोऽत्यन्तप्रसिद्धत्वात् । अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धित्वा-दत्यन्तप्रसिद्धं सुविज्ञेयमासन्नतरमात्मभूतमप्यप्रसिद्धं दुर्विज्ञेयमतिदूरमन्यदिव च प्रतिभात्यविवेकिनाम् ।बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां नातः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नमस्ति । (Bhagavatpāda’s bhāṣya on verse (XVIII.50) of the Bhagavad-gītā)

³² एतावद्धि ब्राह्मणेन कर्तव्यं यदुत सर्वानात्मप्रत्ययतिरस्करणमेतत्कृत्वा कृतकृत्यो योगी भवति । (Bhagavatpāda’s bhāṣya on Bṛhadāraṇyaka-upaniṣad)

³³ प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ (Bhagavad-gītā XIV.22)

³⁴ …यथाऽतत्त्वदर्शी कश्चिच्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनुचलित-मात्मानं मन्यमानस्तत्त्वाचलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतोऽहमात्मतत्त्वादिदानीमिति । समाहिते तु मनसि कदाचित्तत्त्वभूतं प्रसन्नात्मानं मन्यत इदानीमस्मि तत्त्वीभूत इति । न तथाऽऽत्मविद्भवेत् । आत्मन एकरूपत्वात्स्वरूपप्रच्यवनासम्भवाच्च । सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत् ... (Bhagavatpāda’s bhāṣya on the Gauḍapāda-kārikā (II.38))

³⁵ जीवभावजगद्भावबाधे स्वात्मैव शिष्यते ॥ (Pañcadaśī VI.12cd)

³⁶ नाप्रतीतिस्तयोर्बाधः किन्तु मिथ्यात्वनिश्चयः । नो चेत्सुषुप्तिमूर्च्छादौ मुच्येतायत्नतो जनः ॥ (Pañcadaśī VI.13)

³⁷ परमात्मावशेषोऽपि तत्सत्यत्वविनिश्चयः । न जगद्विस्मृतिर्नो चेज्जीवन्मुक्तिर्न संभवेत् ॥ (Pañcadaśī VI.14)

³⁸ स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु । निर्विकल्पस्समाधिस्स्यान्निवातस्थितदीपवत् ॥ (Sarasvatī-rahasya-upaniṣad 26)

³⁹ स्थब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः । (Sarasvatī-rahasya-upaniṣad 29ab)

⁴⁰ स्वनुभवो ब्रह्मात्मना संस्थितिः (Vivekacūdāmaṇi 2)

⁴¹ सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः। न चैवमात्मानमनुभवतः किञ्चिदन्यत्कृत्यमवशिष्यते (Bhagavatpāda's Brahmasūtra-bhāṣya IV.1.2))

⁴² तत्रोपास्यसाक्षात्कारपर्यन्तामुपास्तिं कृत्वा यदि ज्ञाने प्रवर्तेत तदा वासनाक्षयमनोनाशयोर्दृढतरत्वेन ज्ञानादूर्ध्वं विद्वत्संन्यासजीवन्मुक्ती स्वत एव सिध्यतः। तादृश एव शास्त्राभिमतो मुख्यो विद्याधिकारी । (Vāsanākṣayaprakaraṇa of the Jīvanmukti-viveka)

⁴³ अपि च नैवात्र विवदितव्यं ब्रह्मविदा कश्चित्कालं शरीरं ध्रियते न वा ध्रियत इति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं चापरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदेव निरुच्यते । (Bhagavatpāda's Brahmasūtra-bhāsya on sūtra (IV.1.15))

⁴⁴ आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः । अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु ॥ (Upadeśasāhasrī Metrical part IV.4)

⁴⁵ देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ (Upadeśasāhasrī Metrical part IV.5)

⁴⁶ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ (Bhagavad-gītā IV.26)

⁴⁷ स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव । (Brhadāraṇyaka-upaniṣad III.5.1)

⁴⁸ एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । (Brhadāraṇyaka-upaniṣad IV.4.23)

14. The Divine Drama that Followed

¹ एष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः (Bṛhadāraṇyaka-upaniṣad IV.4.23)

² यदि मन्यसे सुवेदेति (Kena-upaniṣad II.1)

³ स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परमस्तीत्युपरराम । न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ । यतस्तमेवं विकारानृतब्रह्मविज्ञानेन पीरतुष्टमकृतार्थं परमार्थसत्यातिवादिनमात्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषाद्विप्रच्यावयन्नाह भगवान्सनत्कुमारः । (Bhāṣya on the Chāndogya-upaniṣad VII.16.1)

⁴ विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य तदेव ब्रह्म त्वं विद्धीति स्वाराज्येऽभिषिच्योपास्यप्रतिषेधेनाथास्य बुद्धिं विचालयति यदि मन्यसे सुवेदाहं ब्रह्मेति... । सा पुनर्विचालना किमर्थेत्युच्यते पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । (Vākya-bhāṣya on Kena-upaniṣad II.1)

⁵ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ (Muṇḍaka-upaniṣad II.2.8)

⁶ अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते (Bṛhadāraṇyaka-upaniṣad IV.4.7)

⁷ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ (Bhagavad-gītā III.17)

⁸ तत्त्वमाध्यात्मिकं दृष्टं तत्त्वं दृष्टं तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवान् ॥ (Paramacharyal's utterance)

⁹ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत्॥ (Gauḍapāda kārikā II.38)

¹⁰ निश्चित्य सकृदात्मानं यदापेक्षा तदैव तम् । वक्तुं मन्तुं तथा ध्यातुं शक्नोत्येव हि तत्त्ववित् ॥ (Pañcadaśī IX.95)

¹¹ उपासक इव ध्यायँल्लौकिकं विस्मरेद्यदि । विस्मरत्येव सा ध्यानाद्विस्मृतिर्न तु वेदनात् ॥ (Pañcadaśī IX.96)

¹² ध्यानं त्वैच्छिकमेतस्य वेदनान्मुक्तिसिद्धितः । (Pañcadaśī IX.97ab)

¹³ निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् । (Vyāsa's bhāṣya on Yogasūtra (I.51))

¹⁴ एतदुक्तं भवति - वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूर्तार्धयामादिव्यापितयाऽनुभूयते योगिना (Vacaspati Miśra's gloss, Tattva-Vaiśāradi)

¹⁵ शौनक उवाच स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥ (Bhāgavata-purāṇa I.7.9)

¹⁶ सूत उवाच आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ (Bhāgavata-purāṇa I.7.10)

¹⁷ हरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिः । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥ (Bhāgavata-purāṇa I.7.11)

¹⁸ अत्र भूमिकात्रितयं ब्रह्मविद्यायाः साधनमेव, न तु विद्याकोटावन्तर्भवति । (Śrī Vidyāraṇya's Svarūpasiddhiprayojana-prakaraṇa of Jīvanmukti-viveka)

¹⁹ ... ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्त्वापत्तिः ।... सोऽयं चतुर्थीं भूमिकां प्राप्तो योगी ब्रह्मविदित्युच्यते । पञ्चम्यादयस्तिस्रो भूमयो जीवन्मुक्तेरवान्तरभेदाः । ते च निर्विकल्पसमाध्यभ्यासकृतेन विश्रान्ति-तारतम्येन संपद्यन्ते । पञ्चमभूमौ निर्विकल्पकात् स्वयमेव व्युत्तिष्ठते । सोऽयं योगी ब्रह्मविद्वरः । षष्ठभूमौ पार्श्वस्थैर्बोधितो व्युत्तिष्ठते । सोऽयं ब्रह्मविद्वरीयान् ।… तुरीयाभिधां सप्तमीं भूमिं प्राप्तस्य योगिनः स्वतः परतो वा व्युत्थानमेव नास्ति ।… सोऽयमीदृशो योगी...ब्रह्मविद्वरिष्ठ इत्युच्यते । (Śrī Vidyāraṇya's Svarūpasiddhiprayojana-prakaraṇa of Jīvanmukti-viveka)

²⁰ भ्रष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा वसति वासना ॥ (Laghu-yoga-vāsiṣṭha V.4.132)

²¹ अपि वर्षसहस्रान्ते तयैवान्तरवस्थया । सति देहे प्रबुध्यन्ते कुतोऽत्युच्छूनया शनैः ॥ (Laghu-yoga-vāsiṣṭha V.4.134)

²² अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः । वहिः सर्वसमाचारो लोके विहर राघव ॥ (Laghu-yoga-vāsiṣṭha V.2.56)

²³ बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः । कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥ (Laghu-yoga-vāsiṣṭha V.2.57)

²⁴ बहिस्तप्तोऽन्तरा शीतो लोके विहर राघव ॥(Laghu-yoga-vāsiṣṭha V.2.60 cd)

²⁵ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ (Bhagavad-gītā III.21)

²⁶ अविद्वदनुसारेण वृत्तिर्बुद्धस्य युज्यते । स्तनन्धयानुसारेण वर्तते तत्पिता यतः ॥ (Pañcadaśī VII.287)

²⁷ येनायं नटनेनात्र बुध्यते कार्यमेव तत् । (Pañcadaśī VII.290ab)

²⁸ न विधिर्न निषेधश्च त्वत्प्रसादादहं पुनः । तथापि तव वाक्यं तत्करणीयं च सर्वदा ॥ (Laghu-yoga-vāsiṣṭha VI.18.74)

²⁹ वेदागमपुराणेषु स्मृतिष्वपि महामुने । गुरुवाक्यं विधिः प्रोक्तो निषेधस्तद्विपर्ययः ॥ (Laghu-yoga-vāsiṣṭha VI.18.75)

³⁰ ननु ज्ञानिनो रागाद्यभ्युपगमे धर्माधर्मद्वारेण जन्मान्तरप्रसङ्ग इति चेन्मैवम्, अदग्धबीजवदविद्यापूर्वककामादेरेव मुख्यरागादित्वेन पुनर्जन्महेतुत्वात् । ज्ञानिनस्तु दग्धबीजवदाभासमात्रा एव रागादयः। (Śrī Vidyāraṇya's Vāsānākṣaya-prakaraṇa of Jīvanmukti-viveka)

³¹ … तत्काले मुख्यवदेवाभासमानानां बाधकत्वात् , रज्जुसर्पोऽपि मुख्यसर्पवदेव तदानीं भीषयन्नुपलभ्यते तद्वत् । तर्ह्याभासत्वानुसन्धानानुवृत्तौ न कोऽपि बाध इति चेच्चिरं जीवतु भवान्। इयमेवास्मदभिमता जीवन्मुक्तिः । (Śrī Vidyāraṇya's Vāsānākṣaya-prakaraṇa of Jīvanmukti-viveka)

³²… च विपरीतप्रत्ययो विद्यावत उत्पद्यते ।… क्वचित्तु विद्यायाः पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमाना विपरीतप्रत्ययभ्रान्तिमकस्मात्कुर्वन्ति । यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः । (Bhagavatpāda’s Brhadāraṇyaka-upaniṣad-bhāṣya on the passage (I.4.10))

³³ भोगकाले कदाचित्तु मर्त्योऽहमिति भासते ॥ (Pañcadaśī VII.245cd)

³⁴ नैतावताऽपराधेन तत्त्वज्ञानं विनश्यति ।
जीवन्मुक्तिव्रतं नेदं किन्तु वस्तुस्थितिः खलु ॥ (Pañcadaśī VII.246)
³⁵ दयासान्द्रं बालं निखिलजगतीरक्षणचणं
हरन्तं विघ्नाद्रिं विमलविमलैर्वीक्षणचयैः ।
परब्रह्माकारं प्रणवविदितं शान्तमनसं
गुरुं विद्यातीर्थं कलयत बुधाश्चित्तकमले ॥

(Paramacharyal’s composition on Acharyal)

³⁶ शरीरेन्द्रियचित्तानां शुद्धये कल्पिता महाः ।
बहवो गुरुदेवानां तत्फलं भवतां तनुः॥

(Paramacharyal’s composition on Acharyal)

³⁷ वाणी लक्ष्मीस्तथा गौरी तिष्ठन्तं निद्रया युतम् ।
गच्छन्तमुपविष्टञ्च पान्तु त्वां गुरुशेखरम् ॥

(Paramacharyal’s composition on Acharyal)

✧✧✧✧

Contents