Gurudhyānam
In the Sacred Handwriting of
His Holiness Jagadguru Śrī Bhāratī-tīrtha Mahāsvāmin
गुरुध्यानम्
अज्ञानध्वान्तविध्वंसिसहस्रकरतेजसम् ।
सच्चित्सुखात्मकब्रह्मनिविष्टहृद्याम्बुजम् ॥
पद्मासनोपविष्टञ्च ध्यानस्तिमितलोचनम् ।
समं कायशिरोग्रीवं धारयन्तं महाप्रभम् ॥
सहस्रकिरणस्पर्धि देहकान्तिसमुज्ज्वलम् ।
निर्विकल्पसमाधिस्थं निश्चलावयवं शिवम् ॥
देहादिब्रह्मपर्यन्ते भोग्ये तुच्छत्वधीयुतम् ।
आर्तानामार्तिहन्तारं जिज्ञासुविशयच्छिदम् ॥
स्वावलोकनमात्रेण पुनानं निखिलं जगत् ।
मदीयहृत्सरोजातनिवेशितपदद्वयम् ॥
विद्यातीर्थगुरूत्तंसं ध्यायामि भवमुक्तये