Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Gaṅgotrī Kṣetra Māhātmya · Vanavāṇī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
Verse
▾
Meaning
Keep
पश्यन्तु
केचिदमलं
जलमेव
गंगे—
त्यन्ये
वयन्तु
भवयन्त्रविमुक्तिहेतुः
।
श्रीमूलशक्ति
रखिलेश्वररूपरूपि—
ण्यानन्दकन्दमिति
नित्यमुपास्महे
त्वाम्
॥
(गंगास्तोत्रम्)
Prose passage
▾
Meaning
Keep
अथ
किलक्षणकं
पवित्रं
क्षेत्रमित्याकांक्षायामिदं
वदामो
यदकृच्छ्रेणैव
पवित्रभावभावकत्वं
तल्लक्षणमिति
।
पवित्रेषु
च
भावेषु
भावुकतमः
खलु
पारमेश्वरो
भाव
इति
सर्वसम्प्रतिपन्नम्
।
तथा
चैकान्ततयैतल्लक्षणलक्षितानि
त्रिपथगोत्तरादीन्युत्तराखण्डमूर्द्धन्यानि
क्षेत्राणीति
लक्षणप्रमाणाभ्यां
पावित्र्यसिद्धिस्तेषाम्
।
ननु
लक्षणमिदमसंभवदोष
विदूषितं,
यतस्तत्रत्यानामविशेषतया
निरवशेषाणामपि
पुरुषाणां,
तथा
शार्दूलभल्लूकप्रभृतीनां
तिरश्चीनानाञ्च
पवित्रभावभाविता
प्रसज्यत
इति
चेत्,
प्रसज्यतां
नाम
!
ततः
किं
बिभेति
भवान्
?
अवश्यमस्ति
हि
गंगोत्तरादिपुण्यक्षेत्रवर्तिनां
सर्वेषामपि
प्राणिनामनितरसाधारणः
पवित्र
भावः
।
किन्तु
स्यादयं
प्रौढवादः
।
तथाऽपि
क्रिया
खलु
करणं
कारकमपि
समपेक्षते
स्वजनुषि,
न
केवलकरणं,
किन्तु
पटुकरणमपेक्षत
इति
शास्त्रकृत्समयः
।
तथा
च
सति,
यदि
करणापटुतया
सम्यगिव
यः
कश्चिद्वस्तुनिष्ठगुणग्रहणासमर्थस्तर्हि
गुणविरहविशिष्टं
वस्तु
कथं
स्यात्
?
हन्त
!
हन्त
!
यदि
पेचको
न
पश्यति
प्रचण्डमार्तण्डमण्डलगतं
प्रभापटलं,
किमु
तत्तमोमण्डलमतः
सम्पद्येत
?
न
कदापि
।
एवमेव
हि
यदि
योग्यकरणनिर्धनतया
नालं
कश्चिद्गंगोदयादिस्थानानां
पावित्र्यगुणमप्रतिष्टंभमास्वादयितुं,
तर्हि
तद्देशानिष्ठनैसर्गिकतद्गुणविरहः
कथमुपपद्येत
?
Prose passage
▾
Meaning
Keep
अतश्च
नूनमनवद्यलक्षणसमन्वयात्,
अर्थतः
सुखेनाध्यात्मिकादिमेध्यभावजनकत्वगुणयोगादिदं
जह्नुजोदारं
पूतात्पूततरं
क्षेत्रमित्यत्र
नास्ति
संशातिलेशः
।
अहो
?
खलूदग्रदिव्येन
प्राकृतकसुषमासौष्ठववितानेन,
प्रशान्तैकान्ततरेण
च
निजादक्
चक्रवालान्तरालनाथ
च
पतितपावन्या
नित्यनिर्मल
निरर्गलसलिल-प्रवाहेण,
ततश्च
परितः
शश्वत्
पारमेश्वरभावप्रसारणवैभवेनैतदतुलित
माहात्म्यं
जेजीयतेऽस्मिन्
जगति
।
अतएव
च
पृथिवीपृष्ठनिष्ठानामखिलपुण्यस्थलीनां
गणनाप्रसंगे
सुष्ठु
कनिष्ठिकामतिरभसरंहसाऽधितिष्ठतीयं
गंगाशिरःस्थलीति
निश्चप्रच
मेतत्
।
अपि
चेह
बहुषु
सुसम्मतेष्वपि
पुण्यक्षेत्रेषु,
हन्त
!
हन्त
कालस्यन्दनमधिरूढाया
अपावित्र्यपिशाचिकाया
निजवयस्याजनं
पाद्यमानाया
महतोल्लासयात्राकोलाहलेन,
बीभत्सतरेण
चाट्टहासेन,
समन्ततो
मुखरीक्रियमाणेषु,
ज्योत्स्नासंकाशमन्दस्मितविकसितमुखी
सत्त्वसंहनना
श्रीपावित्र्यदेवताऽप्याक्रम्यमाना
शान्त्यादिस्वसखीसंवृताऽभिरक्षत्यकुतोभयमिमां
भगीरथतपोभुवमित्यहो
!
महानस्याया
अनुग्रहः
।
Prose passage
▾
Meaning
Keep
तत्तादृग्गुणगरिम्णो
गंगोत्तरस्य,
तथाऽन्यासामुदग्देशस्योदक्सीमावर्तिनीनां
पुण्यवसुन्धराणां
सौम्यकाशी,
हृषीकेश
बदरीश,
कैलास
शैलप्रमुखाणां
कर्तुमुपक्रान्ता
पौनःपुन्येन
तीर्थयात्रा
मुरुतनूरुहाणां
जातकर्ममहोत्सवात्
प्रागेव
दक्षिणदेशस्य
दक्षिणसीमातश्चेतःस्यन्दनमधिरोहद्भिरस्माभिर्मञ्जु
शब्दावगततत्तत्प्रभावमहोदयैः
।
मनोमुकु-
…
Prose passage
▾
Meaning
Keep
…
जिघ्रन्तु
तत्रभवन्तः
।
तत्फलं
तु
स्वयं
श्रीमन्त
एव
हि
जानन्तीत्युपरम्यत
इति
शम्
।
Verse
▾
Meaning
Keep
यत्सूत्रयन्त्रितं
विश्वं
नरीनर्ति
जगत्त्रयम्
।
सन्तस्तमेव
पृच्छन्तु
यदत्र
स्खलितं
मम
॥
Signature
▾
Meaning
Keep
इति
उत्तरकाशी
७-१२-१९३६
निःस्वानामस्वामी
स्वामी
तपोवनम्
…
Next
Maṅgalācaraṇam
→