Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Gaṅgotrī Kṣetra Māhātmya · Śrīgomukhīyātrā
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
वन्दे
वन्द्यपदाम्बुज
द्वयममुं
राजन्यवीराग्रणीं
यस्यैकाग्रमहोग्रदीर्घतपसा
नैस्तुल्यसीमाजुषा
।
क्षेत्रं
गोत्रवरेण्यमूर्द्धगमिदं
जेजीयतेऽत्राच्युत-
क्षेत्रस्पर्धि
समस्तमस्तकनतं
गंगोत्तरख्यातिमत्
॥ १ ॥
2
▾
Meaning
Keep
धन्ये
!
धन्यभगे
!
भगीरथशिले
!
सौभाग्य
भाग्याम्बुधे
!
कात्त्र्स्येन,
नमस्करोमि
शतश
स्त्वत्पादपङ्केरुहम्
।
त्वत्पृष्ठे
ननु
निष्ठुरं
नरपतिः
स्थित्वा
तपस्तप्तवान्
यन्मूलः
खलु
भूतलेऽमृतधुनी
सञ्चार
भाग्योदयः
॥ २ ॥
3
▾
Meaning
Keep
लक्ष्मीःक्रीडति
यत्र
तत्
सुरभिलं
पश्यामि
लक्ष्मीवनं
भुञ्जे
चित्रविचित्रदृश्यसुषमां
पञ्चेन्द्रियाह्लादिकाम्
।
दुःखास्पृष्टसुखं
सुयोगिसुलभं
स्वर्गेऽपि
यद्दुर्लभं
तन्मेभाति
च
चित्तसंयममहायासं
विनाप्यञ्जसा
॥ ३ ॥
4
▾
Meaning
Keep
एतादृग्वनान्तरेषु
नितरां
वैरक्त्य
योगेन
ये
रागद्वेष
भयाकुलं
जगदिदं
विस्मृत्य
निर्वासनाः
।
दीव्यद्दिव्यविचित्रसृष्टिरचनामाहात्म्यतस्तत्पतिं
ध्यायन्तःशिवमद्वितीय
मृषयो
जीवन्ति
तेभ्यो
नमः
॥ ४ ॥
5
▾
Meaning
Keep
नालं
दुष्कृत
दूषितः
खलु
पुमां
स्त्वत्पार्श्वमागन्तुम-
प्यन्तर्द्वारसुवा
कथ
नु
स
भवत्प्रोत्क्रान्तये
स्यात्प्रभुः
।
आख्यानं
तु
तवाघमर्द्दिनि
!
शुभे
!
सम्पन्नमेतत्कथं
मन्ये
मूढ़परंपरेति
सुतरां
गौरीत्रदर्थोज्झितम्
॥ ५ ॥
6
▾
Meaning
Keep
सूर्यस्पर्शिशिलोच्चयोच्चशिखर
प्रौढच्छविच्छायया
नानावर्ण
युतं
नितान्तनिपतन्नीचैर्महारंहसा
।
हैमं
हेमनिभं
सुमञ्जु
सुमनो
गङ्गाख्यमेतज्जलं
स्वस्मिन्मां
निरुणद्धिहन्त
न
इतोगन्तुं
समर्थोऽस्म्यहम्
॥ ६ ॥
7
▾
Meaning
Keep
भ्रातर्भूर्ज
!
नमस्कृति
स्तवपदे
पुण्यातिपुण्यात्मन-
स्त्वां
निन्दन्ति
कभूययोनिरिति
ये
धिक्तान्
सुधीमानिनः
।
स्थावर्यं
तत्र
गाङ्गनीरलहरीसंघट्टिताङ्गस्य
य-
द्धन्यं
धन्यमतीवधन्यममरेन्द्राद्यैश्च
संप्रार्थितम्
॥ ७ ॥
8
▾
Meaning
Keep
आकीर्णा
बहुगण्डशैलशिशुभिः
प्रालेयसङ्घैस्तथा
विस्तीर्णा
खलु
सम्बकास्ति
पुरतः
श्री
पुष्पवासस्थली
।
आपूर्णा
चमहाद्भुतैर्द्युतिमयै
र्दिव्य
प्रसूनै
र्नृणा
मानन्दामृतवर्षिणी
दिविषदां
श्रीनन्दनोद्यानवत्
॥ ८ ॥
9
▾
Meaning
Keep
तीर्थानामपि
तीर्थमुत्तममिदं
पुंसांपुमर्थप्रदं
रम्याणामपि
रम्यमद्भुतयशः
पूतात्प्रपूतंमहत्
।
साक्षाद्विष्णुपदोद्भवं
हिमगुहाच्छिद्रेण
चात्रोदितं
गंगामूलमनन्य
भक्ति
सुलभं
श्रीगोमुखाख्यं
भजे
॥ ९ ॥
10
▾
Meaning
Keep
गंगे
!
गोमुखि
!
तुभ्यमस्तु
मनसा
वाचा
च
तन्वा
नम-
स्त्वां
दृष्ट्वा
तव
निर्मलेऽमृतसमे
स्नात्वा
च
भद्रे
जले
।
मन्ये
धन्य
जनिर्ममेति
सुतरां
धन्योऽस्मि
धन्योऽस्म्यहं
भूयो
भूयश्चानतोऽस्मि
चरितार्थोऽस्मि
त्वदासेवनात्
॥ १० ॥
Previous
←
Atha dvitīyaḥ khaṃḍaḥ
Next
Śrīgaṃgāstotrasaṃgrahaḥ
→