Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Asti bhāti
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 1
The Lord Who Is and Shines
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ईश्वरोऽस्ति
यतो
जन्माद्यस्य
नेदञ्च
नास्ति
चेत् ।
सुतजन्म
कथं
वन्ध्यासुतात्सम्भवति
क्वचित्
॥ १ ॥
2
▾
Meaning
Keep
जडाद्वा
कथमश्माभाज्जायते
पृथ्विदञ्जगत् ।
हृदाऽप्यचिन्त्यमस्माभिः
सुचारुरचनाक्रमम्
॥ २ ॥
3
▾
Meaning
Keep
यद्भिया
पवते
वायुर्भान्ति
चाहस्करादयः ।
अस्तीत्येवोपलब्धव्यो
न
नास्तीति
स
ईश्वरः
॥ ३ ॥
4
▾
Meaning
Keep
राजशक्तिविलासस्तु
प्रत्यक्षं
दृश्यते
भुवि ।
कथं
नास्तीति
राजा
स्यादनध्यक्षोऽपि
शक्तिमान्
॥ ४ ॥
5
▾
Meaning
Keep
देहित्वेऽस्मत्समानत्वमीश्वरस्य
प्रसज्यते ।
अदेहित्वे
जगत्सृष्टिकर्तृत्वन्नोपपद्यते
॥ ५ ॥
6
▾
Meaning
Keep
सन्तु
हन्त
कुबुद्धीनामेवं
तर्काः
सहस्रशः ।
अस्ति
भाति
च
सर्वेशः
शुद्धसश्रद्धचेतसाम्
॥ ६ ॥
7
▾
Meaning
Keep
परोक्षेणापरोक्षेणापीश्वरास्तित्वनिर्णये ।
प्रमाणं
प्रबलं
शुद्धा
बुद्धिर्जागर्ति
सद्धियाम्
॥ ७ ॥
8
▾
Meaning
Keep
न
तुष्यति
सताञ्चित्तं
विना
सत्तां
जगत्पितुः ।
सर्वसामर्थ्ययुक्तस्य
ज्ञस्य
कस्यचिदीशितुः
॥ ८ ॥
9
▾
Meaning
Keep
यद्यद्धि
दृश्यते
लोके
क्षुद्रं
महदपि
स्वयम् ।
शष्पपुष्पपतङ्गादि
ग्रहतारागणादि
च
॥ ९ ॥
10
▾
Meaning
Keep
तत्तदेकैकमीशस्य
सत्तां
माहात्म्यमेव
च ।
घोषयत्युल्बणतरं
श्रुतिसूत्रादिडिण्डिमात्
॥ १० ॥
Next
Tajjīvitaṃ jīvitam
→