Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Sārvatrikī saṃsāragatiḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 3
Learning, Reflection and the Worship of Śambhu
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
पुत्रो
मुख्य
आत्मा·शेषी,
पिता
तु
तच्छेषभूतः,
अतश्च
न
पितुरर्थे
पुत्रः,
किन्तु
पुत्रार्थं
पिता
जीवतीति
प्रवदन्ति
केचिद्दार्शनिकाः ।
सांसारिकदृष्ट्या
तु
तदंशतः
सत्यमेव ।
कथम्?
पुत्रे
सकले
विकले
वात्मानमेव
सकलं
विकलं
वा
मन्यते
पिता ।
पुत्रोत्कर्ष
एव
स्वोत्कर्षः,
पुत्रविद्याकौशलमेव
स्वविद्याकौशलं;
पुत्रद्रविणादिसम्पत्तिरेव
स्वद्रविणादिसम्पत्तिः,
पुत्रयश
एव
स्वयशोऽथ
पुत्रजीवनमेव
स्वजीवनं;
पुत्रनिधनमेव
स्वनिधनञ्चेति
हि
मोमुह्यते
तात
इति
हन्त!
हन्त!
सुप्रतिष्ठिता
सार्वत्रिकीयं
संसारगतिः ।
तथा
चेदमुष्य
सुब्रह्मण्यकुमारस्यापि
जनकः,
मम
तनूजेनाप्युच्चतराङ्ग्लविद्यास्वदेशीयविदेशीयबहुबिरुदधारिणा
भवितव्यं,
ततश्च
प्रतिष्ठिततरराजकीयकर्मचारिणा
भवितव्यं,
ततः
समार्जितप्रचुरधनसम्पत्तिना
च
भवितव्यमथ
विस्तारितस्वसत्कीर्तिप्रभावेण
च
भवितव्यमित्यादींश्चेतसि
विविधान्सङ्कल्पविशेषान्यद्यरीरचदाकाशतले
समुन्नतहर्म्यभित्तीरिव,
तर्हि
किमाश्चर्यं
तत्र?
॥ १ ॥
Previous
←
Kaivalye kamanīyatā
Next
Śikṣā bhāvotpādanāya jñānotpādanāya ca
→