Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Mohamayī saṃsāragatiḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 4
Sarasvatī's Grace and Love of the Lord
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
4
▾
Meaning
Keep
एकदा
तु
शास्त्रिपादानध्यापनार्थमावासमागतान्स्वागतवाक्यैः
समाराध्येत्थमप्राक्षीत्तस्य
पिता,
भो
न्यायग्रन्थाध्ययनेनास्य
मम
तनयस्य
किं
प्रयोजनं
स्यादिति ।
अथ!
प्रत्युक्तश्च
तैः
न्यायशास्त्रज्ञानं
वेदान्तशास्त्रविशेषव्युत्पत्तये
महदुपकरोति
वेदान्तशास्त्रव्युत्पत्तिस्तु
त्यागवैराग्यशीलानामधिकारिणामीश्वरतत्त्वावधारणाय
महदुपकरोतीति
न
विशेषतो
वक्तव्यमिति ।
अहो!
साधारणमपि
शास्त्रिमुखादापतितमिदमुत्तरवाक्यं
सद्य
एवासाधारणं
किमपि
वैकृत्यमुदपादयत्तस्य
चेतसि
प्रचण्डः
कुलिशनिर्घोष
इवाकम्पनमपि
तददभ्रतरमकम्पयञ्च ।
कथम्?
हन्त!
हन्त!
पुत्रस्य
त्यागवैराग्यपथसञ्चार
ईश्वरतत्त्वनिर्णिनीषा
चास्मिञ्जगति
कस्मै
पित्रे
रोचते?
भोगैश्वर्यजीवितं
हि
सुतस्य
सुतरामभिकाङ्क्षति
पिता ।
अहन्तु
विरक्तो
भूत्वा
सर्वं
सन्त्यज्य
विपिनं
यास्यामि
तथापि
मम
तनयो
मा
विरष्ट
इति
हि
हार्दिकी
सर्वेषां
पितॄणामाशंसा ।
अहो
खलु
मोहमयी
संसारगतिः
॥ ४ ॥
Previous
←
Surasarasvatyanugrahaḥ
Next
Samīkṣyakārī
→