Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Sannyāsadīkṣā
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 1
Initiation into Sannyāsa, Towards the Himālaya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
17
▾
Meaning
Keep
सन्न्यासदीक्षा
सन्न्यासव्रतोपक्रम
उच्यते ।
वटुदीक्षाग्रहो
यद्वद्वटुव्रतनिषेवणम्
॥ १७ ॥
18
▾
Meaning
Keep
तत्तदाश्रमकार्याणां
दृढानुष्ठाननिष्ठितिः ।
मुख्याऽमुख्यं
तदारम्भक्रियाकर्मानुवर्तनम्
॥ १८ ॥
19
▾
Meaning
Keep
आद्यं
कर्माखिलं
कृत्वा
न
चेदाश्रमकर्मणि ।
निष्ठां
तत्कर्मणा
किं
स्यान्निष्ठैवातः
प्रशस्यते
॥ १९ ॥
20
▾
Meaning
Keep
आश्रमित्वाभिमानाय
दीक्षाकर्मोपयुज्यते ।
अभिमन्तुं
विनाप्येतन्न
शक्येत
कथं
बुधैः
॥ २० ॥
21
▾
Meaning
Keep
बौद्धादयोऽपि
बहवो
वेदमार्गविरोधिनः ।
तथा
वैष्णवमुख्या
ये
वेदमार्गानुरोधिनः
॥ २१ ॥
22
▾
Meaning
Keep
का
नाम
तेषामन्योन्यं
तत्तदाश्रमधर्मिणाम् ।
निस्तिष्ठतामपीषद्वा
दीक्षाकर्मैकरूपता
॥ २२ ॥
23
▾
Meaning
Keep
तर्हि
तत्र
विचिन्त्यं
किं
करोतु
न
करोतु
वा ।
अन्योऽन्येन
कृतं
कर्म
स्वाश्रमाचारसुव्रतः
॥ २३ ॥
24
▾
Meaning
Keep
अपि
च
सत्यानुसन्धानप्रधानो
जीवत्पुरुषावस्थाविशेषः
सन्न्यासाश्रम
इत्यतस्तत्रैवाग्रहो
न
तु
तद्ग्रहणसम्बद्धविविधधार्मिकमर्यादायामित्यत्र
प्राचीनाः
श्रीबुद्धभगवत्पादप्रभृतयोऽथार्वाचीनाः
श्रीस्वामिविवेकानन्दरामतीर्थप्रभृतयश्चोत्तमोदाहरणत्वेन
जगति
जेजीयन्ते ।
स्वतन्त्रामपराधीनामश्रद्धाजडां
कामपि
रीतिमनुरुध्यैव
हि
ते
सुधियो
विवर्णशाटी
दध्रुरिति
नैतत्करपिहितमिव
तच्चरित्रवेदिनाम् ।
तथाऽपि
ते
प्रत्यवायवन्तो
लोकगर्हिता
अनिष्ठावन्तो
बहिर्मुखा
वा
न
दृष्टाः ।
अतश्चेदं
फलतया
भवति
नूनं
यत्कालदेशदेशिकादयो
न
खलु
नियतास्तान्
सर्वसाधारणाननपेक्ष्यापि
शक्यते
विद्वद्भिराश्रमग्रहणं
कर्तुमिति
॥ २४ ॥
25
▾
Meaning
Keep
आरम्भकर्म
कृत्वाऽपि
श्रद्धाशून्यः
पतत्यधः ।
श्रद्धावांस्तदकृत्वाऽपि
निष्ठया
शोभते
भुवि
॥ २५ ॥
Previous
←
Pañcavaṭī
Next
Revātīre
→