Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Rāghavācāryapaṇḍitena sākam
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 2
The Sannyāsī's Life at Hṛṣīkeśa
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
20
▾
Meaning
Keep
अपि
च
देहव्यायामाय
प्रकृतिदृश्यनिरीक्षणेनाथ
हृदयोल्लासाय
च
यत्प्रत्यहमाचरितमासीत्
स्वविषये
सायङ्कालीनभ्रमणमनितरसहचारितया
हृषीकेशादिहिमगिरिक्षेत्रेष्वपि
तदविहतं
विधेयतया
व्यधायि
तेन ।
तथा
भागीरथीतटभ्रमणप्रसङ्गे
कस्याञ्चिदपराह्णसन्ध्यायां
पद्यापार्श्वचुम्बिनि
स्वकीये
दर्शनमहाविद्यालये
विद्यार्थिनः
शिक्षयंस्तदध्यक्षः
श्रीराघवाचार्यः
पण्डितः
प्रगल्भवाक्
श्रीसम्प्रदायानुगामी
मार्गमनुगच्छन्तं
तमाहूयाथ
तत्र
गतमादरेणासन
उपवेश्य
च
हिन्दीवाचा
कुशलमप्राक्षीदथ
चैवमयं
मूर्खो
वा
पण्डितो
वेति
परगुणपरिदिदृक्षया
पण्डितजनसहजया
स्वोत्कर्षख्यापनैकप्रयोजनया,
अपि
संस्कृतभाषां
वेत्ति
भवान्?
स्वामी
हिन्दीभाषानभिज्ञो
गीर्वाणवाण्या
किञ्चिदिव
जानामि ।
पण्डितोऽपि
वृन्दारकवाक्श्रवणेनोन्मिषितनेत्रस्तन्मुखमवलोक्य
भवांस्तु
संस्कृतज्ञः
कस्मिन्
शास्त्रे
विशेषतो
व्यवसायः
क्रियते?
स्वामी
–
न
कस्मिंश्चिदपि ।
सामान्यतया
केषाञ्चिद्दर्शनानामालोचनं
कृतं
क्रियते
च ।
पण्डितः
–
अहो!
सन्न्यासिनो
मुण्डितशिरस्काः
केन
प्रमाणेन
निर्विशेषं
परं
ब्रह्मेति
तथा
वाक्यार्थज्ञानमात्रेण
मोक्ष
इति
च
साधयितुमुत्सहन्ते?
स्वामी
–
श्रुत्यनुमानादीनि
प्रमाणानि
जाग्रत्येव ।
पण्डितः
–
प्रकाशस्वरूपे
ब्रह्मणि
तमःस्वरूपा
माया
कथमवतिष्ठते?
स्वामी
–
प्रकाशस्वरूपे
चन्द्रमसि
तमःस्वरूपः
कलङ्कः
कथमवतिष्ठते?
एवं
निर्विशेषपक्षप्रतिक्षेपकाः
केचिन्न्यायाः
पण्डितपादैरवहेलनास्वरेण
समुपन्यस्ताः ।
तेषां
दूषणमपि
यथाप्रतिभमुपप्रदर्शितं
स्वामिना ।
अथ
निशाकालोपक्रमणाद्विचारकर्मणो
विरम्य
भूयोऽपि
दर्शनं
भविष्यत्येवेत्युदीर्य
च
पण्डितानुमतिमन्तरेणैवासनात्
समुत्थाय
स्वनिलयं
प्रति
निरगात्स्वामी ।
एवमन्यदाऽपि
तयोः
सम्मेलनमभूदुक्तशिक्षागार
एव ।
तदानीं
तु
पूर्वापेक्षया
दीर्घतरे
काले
दीर्घतरा
शास्त्रार्थविचारणा
सम्प्रवृत्ता
पुनरपि
दर्शनमसकृद्दार्शनिको
विचारविनिमयश्च ।
इत्थमुपसम्पन्नेन
भद्रतरदर्शनभाषणपारम्पर्येण
पण्डितानां
हृदये
यत्
प्रगाढभावसुरभिलं
सौहार्दं
समुदितमिदानीमपि
तदक्षीणतया
प्रवर्तत
एवेति
स्वामी
तदधमर्णतां
गतः ।
अतश्च
हृषीकेशनिवासावसरेषु
दर्शनविद्यालयसन्दर्शनं,
तत्र
स्थित्वा
दर्शनप्रबन्धानामन्वीक्षणमथ
दर्शनार्थचर्चा
च
स्वमिनो
हृदुल्लासहेतुर्महान्
समपद्यत ।
तथा
च
तत्र
प्रथमे
संवत्सरे
किञ्चिदनेहसं
खण्डनखण्डखाद्यं
नाम
वेदान्तशाखीय
उच्चतरग्रन्थोऽपि
सुहृद्भूतैर्विद्यालङ्कारभूतैः
पण्डितैः
सह
विशेषतो
विचारित
इति
विशेषतो
वक्तव्यम् ।
तदा
तदा
च
तत्तत्परिचर्ययापि
पण्डितैः
स्वयं
सोऽन्वग्राहि
समुचितया
सुमधुरस्निग्धभावेन
॥ २० ॥
Previous
←
Turyāśramajīvitam
Next
Brahma brahma
→