Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Brāhmaṇānāmapyayambrāhmaṇaḥ
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 3
Through Nepal to Mount Kailāsa
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
16
▾
Meaning
Keep
अन्यच्च
यदन्येद्युर्जगद्गुरुणा
सह
सायं
भ्रमणवेलायां
प्रासङ्गिकतया
स
इत्थं
प्राचीकशदात्मनो
यात्रासङ्कल्पमप्यनया
गिरा
आगामिनि
शिवरात्रिमहामहे
पशुपतिनाथदर्शनेन
भवितव्यमिति ।
तदर्थं
काष्ठमण्डपपुरीं
लक्षीकृत्याचिरेण
प्रस्थातव्यमिति
च
मनीषास्ति
दृढतरेति ।
तामाकर्ण्य
हर्षेण
तत्क्षणमभणदित्थं
प्रचुरेण
शङ्कराचार्यः
अस्माभिरपि
नाद्यावधि
पशुपतिनाथयात्रा
कृता,
अस्मिन्नब्दे
तर्हि
वयमपि
गमिष्यामः
कार्यभारोऽपीदानीं
न
महान्
गुरुतरो
लक्ष्यते,
अत
उचितोऽयमस्माकमपि
सन्दर्भः
श्वः
प्रत्यूषे
हरिद्वारं
यास्यामस्तत्र
विधेयपरतन्त्रा
द्वित्रवासरान्निवत्स्यामश्च
भवतापि
तत्र
समागन्तव्यं,
भद्रे
मुहूर्ते
ततः
परं
सर्वे
वयमेकमण्डलीभूय
सम्यक्
प्रस्थास्यामः
सर्वपर्वतीययात्रोपकरणसम्पत्त्येति ।
अथैतदाचार्यववादवशंवदः
स
यथानिर्देशमेकलः
स्वामिनामावसथमाव्रजत्
समुद्यतप्रमुदितचेता
हरिद्वारे
यतिभिराश्रमस्थैरन्यैश्च
केरलीयैः
साधुभिः
स्निग्धभावं
भजद्भिस्तीर्थयात्राया
विक्षेपहेतुत्वमुपपादयद्भिर्नानान्यायोपन्यासेन
साग्रहं
विनिवारितोऽपि
सन्नविगणयन्नेव
सत्वरम् ।
तथा
च
परेऽह्नि
पूर्वाह्णे
नियतकर्मानुष्ठानतः
पश्चादुपोपविश्य
यात्राकार्यमधिकृत्य
मिथ
आलपतोः
स्वामिनोः
स्वामी
कश्चनान्यो
दण्डी
तत्र
समागच्छदाचार्यचरणवीक्षणार्थम् ।
अथ
तत्र
स्वामिनां
पुरस्तादवस्थितोऽयं
मुण्डी
तस्य
परिचितपूर्वः
स
एवासीद्यस्य
छिद्रदन्तिनो
द्रविडस्य
कुटीरे
कालमल्पतरमत्ययापयदसौ
पूर्वं
ब्रह्मचार्यवस्थः
प्रथमहृषीकेशयात्रायाम् ।
स
नूनमप्रसङ्गत
एवोद्धतोच्चलद्बुद्धिराचार्येभ्य
इत्थमब्रवीदाटोपेन
अयं
स्वामी
शास्त्रज्ञः
सुशीलश्च
तथापि
न
ब्राह्मणः,
न
जाने
श्रीमद्भिराचार्यैः
सह
कथमस्य
स्नेहसम्बन्धः
सञ्जात
इतीति ।
तामेतामभद्रजनोचितां
निशम्य
भारतीमाक्षेपगर्भां
महान्यायालयस्य
जरन्न्यायवादीव
कुशलक्षिप्रवक्ता
तदुक्तिसमाप्तेः
प्रागेव
तमुपरुन्धन्निवैवं
झटिति
प्रत्यवादीदाचार्यः
अब्राह्मण्यमस्य
स्वामिनो
नास्माकमज्ञातचरं
ब्राह्मणानामप्ययं
ब्राह्मण
इति
ब्राह्मण्यमपि
चिरादस्य
वयं
जानीमहे;
हन्त!
दण्डग्रहणलिङ्गे
न
भवादृशा
अग्रजन्मान
इति
स्थूलक्रमेणानुमीयन्ते
परन्तु
कस्यापि
चरितं
सदसद्वेति
को
वा
विजानाति
साक्षादस्मादृशः?
एतस्य
तु
महात्मनो
महितमुत्तमं
चरितमथ
दिव्यान्
गुणांश्च
बहोः
कालादारभ्य
विद्मः
समानदेशीयतासम्बन्धसम्बद्धा
वयमुत्पत्तिदेशकालकुलादिकञ्च,
अत
एतदवतारणप्रतारण
नैपुणीभवतो
न
स्थाने
निपतितेति
विषीदामो
वयमिति ।
अथ
स्वामिनामीदृशेन
परुषतरेणोत्तरेण
तद्दर्पसर्पगरुडायितेनामन्ददमितः
शमितस्वरमीर्ष्याशून्यमपैशुन्यं
किमपि
विषयान्तरमालम्ब्य
पुनरपि
वृथा
स्वपरान्
कदर्थयितुमुदयुङ्क्त
सोऽसम्बद्धासारभाषणव्यसनी
॥ १६ ॥
Previous
←
Nepālaṃ prati
Next
Hatabhāgyo hatāśaśca
→