Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Rakṣantu rakṣaṇīyam
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 4
Days of Joy, the Wealth of the Spirit
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
28
▾
Meaning
Keep
केरलेषु
जगत्ख्यातेष्वाश्चर्येषु
स्वसम्पदा ।
नायका
नायका
आसन्
प्राक्कालेषु
सुपौरुषाः
॥ २८ ॥
29
▾
Meaning
Keep
क्षत्रियान्वयसम्भूता
क्षत्रधर्मयुताश्च
ते ।
व्यभ्राजिषत
शुभ्राङ्गा
अनन्याधीनवृत्तयः
॥ २९ ॥
30
▾
Meaning
Keep
सङ्करादन्यजातीयैराधिपत्यविवर्जनात् ।
ब्राह्मणानां
प्रभुत्वाच्च
भ्रष्टाः
कालेन
ते
पदात्
॥ ३० ॥
31
▾
Meaning
Keep
एवं
व्रात्यदशां
प्राप्ताः
संस्कार्यत्वेऽपि
तेऽनघाः ।
आचारेण
विचारेण
हीनतां
न
ययुर्मनाक्
॥ ३१ ॥
32
▾
Meaning
Keep
शुद्धाचारविचारास्ते
बुद्धिमन्तः
सुशिक्षिताः ।
अद्यत्वेऽपि
विराजन्ते
तेज
ओजोबलान्विताः
॥ ३२ ॥
33
▾
Meaning
Keep
संस्काराणामभीष्टा
चेत्सम्प्रयोजनता
इमे ।
संस्कारार्हा
इति
ब्रूमो
दृढमस्मन्मतं
त्विह
॥ ३३ ॥
34
▾
Meaning
Keep
चरितं
प्राक्तनं
स्वेषां
वैशिष्टयञ्च
विशेषतः ।
विदन्तु
वेद्यमखिला
नायकाभिजना
जनाः
॥ ३४ ॥
35
▾
Meaning
Keep
तथा
च
प्रतितिष्ठन्तु
स्वपदे
निजगौरवम् ।
रक्षन्तु
रक्षणीयं
यत्स्वाभिमानेन
दीपिताः
॥ ३५ ॥
36
▾
Meaning
Keep
वस्तुगत्या
तु
मर्त्यानां
विभेदेष्ववरेष्वपि ।
नावरत्वं
मनाक्तर्हि
वरेष्ववरता
कथम्
॥ ३६ ॥
37
▾
Meaning
Keep
यावद्वरावरत्वादिकल्पना
नरजातिषु ।
तावदन्योन्यतो
मैत्री
चैक्यञ्च
कुशलं
कथम्
॥ ३७ ॥
Previous
←
Ullāsa 4
Next
Ānandapracurāṇyahāni
→