Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Suvarṇamandiram
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 5
From the Kumbha to Śāradā's Abode
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
17
▾
Meaning
Keep
एवं
निर्वर्त्य
कुम्भस्नानं
पावनात्पावनतरं
यथाविधि
सश्रद्धं
सन्निहित
एवाहनि
सर्वतः
प्रसृततरङ्गितस्य
महतो
जलराशेरिव
तज्जनराशेरुरुतरप्रक्षोभजनितानविरतोच्चण्डप्रचण्डविक्षेपांस्तत्र
वृथा
शिरसि
धारयितुमनिच्छन्
समुचितस्वतन्त्रवासादिवियुतः
स
ततः
कश्मीरदेशं
जिगमिषुरग्निशकटीमारुरोह
नटेशब्रह्मचारिसंयुतः
प्रस्थातृजनसङ्घर्षसङ्कटेन
महताऽदृष्टचरे
ण ।
अथ
च
प्रथमतः
सुप्रथितेऽमृतसरोनामके
पुरवरेऽवतीर्य
यादृच्छिकतया
कस्मिंश्चिदुदासीनसाधुसदने
कृतवसतिस्त्रिचतुरान्दिवसांस्तत्र
यानि
विशिष्टानि
द्रष्टव्यानि
तान्यशेषाणि
दृष्ट्वाऽतितराममोदिष्
ट ।
निवासनिकेतननिकट
एव
संस्थितमहरहर्गत्वा
विधिवन्निर्वर्णितञ्च
तेन
सुवर्णमन्दिरं
सुन्दरं
सुश्लाघितमलौकिकावलोकं
सरोवरपरिवेष्टितं
शिखधर्मानुयायिनामतिशयितश्रद्धास्पदमापादयन्मनसि
विस्मयमलघुमाह्लादधाराञ्च
तस्यापि
॥ १७ ॥
18
▾
Meaning
Keep
एका
जातिर्नृणां
पुंस्कृता
हि
पुम्भिदा
मात्स्यनय
तः ।
इति
समतां
दिदेश
यस्तं
नानकगुरुं
स
ऩनाम
भक्त्या
॥ १८ ॥
19
▾
Meaning
Keep
मैत्री
मुदिता
त्यागः
सुगतवदथ
शङ्कराचार्यतुल्य
म् ।
भक्तिरैकात्म्यनिष्ठा
चादिष्टा
येन
तमसौ
ववन्दे
॥ १९ ॥
20
▾
Meaning
Keep
श्रुतिरपि
साधुमहत्त्वन्न
वेत्तीति
साधुरीश
इति
साक्षा
त् ।
यदीयपरम्परागीः
स
तमसकृदैडिष्ट
साधुसर्वस्वम्
॥ २० ॥
Previous
←
Sādhusamājaḥ
Next
Kāśmīraṃ prati
→