Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Divāniśaṃ dhyānam
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 8
Cave, Kailāsa and the Snow Mountains
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
स
बदरीक्षेत्रमुच्चैरभिष्टुतवैभवं
मुनिमघवतां
पूतपृष्ठं
पदाब्जरजःक
णैः ।
अलघुमहितं
दिव्यदृश्यामितद्युतिगर्वितं
प्रशमधनदं
गन्तुमैच्छद्विचिन्तकवल्लभम्
॥ १ ॥
2
▾
Meaning
Keep
प्रकृतिसुषमासम्पदद्रीशितुर्हृदयं
हठाद्यदहरदतो
गोत्रयात्राकृतापघनव्यथा
म् ।
न
परमविदत्
सोऽद्वितीयोऽद्वितीयपदस्थितो
ह्यचलदलघुत्यक्तसङ्गः
स्वतन्त्रविहारवान्
॥ २ ॥
3
▾
Meaning
Keep
प्राप्याश्रमं
बदरिकाख्यमसौ
द्वितीयवारञ्च
तत्र
सरितः
परपरागाया
म् ।
आरब्धवाननुपलब्धबृहत्कुटीरो
वस्तुं
विविक्तमविगीतगतिर्गुहायाम्
॥ ३ ॥
4
▾
Meaning
Keep
तत्कन्दरे
कुशपिनद्धनिबद्धदेशे
दध्यौ
दिवानिशमनीश्वरजीवभेद
म् ।
याथात्म्यमैश्वरमखण्डमखण्डवृत्तिः
कार्यं
न
किञ्चिदपदं
कृतवान्
स
तत्र
॥ ४ ॥
5
▾
Meaning
Keep
यच्छेद्वाङ्मनसीति
यत्नकरणं
नात्र
प्रसक्तं
गुहावेश्मान्तर्हठयोगमुद्रणकलासम्मुद्रिताक्षो
य
था ।
संरुद्धद्विविधेन्द्रियप्रचरणः
सोऽभूत्स्वयं
तेन
तत्
पाश्चात्या
मनसो
मतेष्टा
नियमक्रीडैव
शिष्टा
शनैः
॥ ५ ॥
Previous
←
Etatsarvaṃ daivīkam
Next
Guhājīvane kutukī
→