Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Paurāṇikaḥ kailāsaḥ
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 8
Cave, Kailāsa and the Snow Mountains
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
16
▾
Meaning
Keep
अथ
च
तत्र
तदा
कुब्जाम्रके
वेदान्तपाठसत्सङ्गोपदेशादिनिजनियतचरदिनचर्यया
निवसतस्तस्य
सप्ताहाः
सानन्दमतिपतितुं
प्रवृत्ता
इत्यतिसङ्क्षिप्यैव
निष्टङ्कतेऽत्र!
साधारणमपि
हि
सर्वं
वृत्तं
फल्गुफलमाख्यातुं
तथा
च
ग्रन्थकलेवरमुरुपृथुलयितुं
न
यत्यते
मनागि
ति ।
अहो
पुनर्द्वितीयामपि
रजताद्रियात्रां
निर्वर्त्य
तत्र
महानयमन्यः
प्रत्यक्षः
प्रधानो
लाभो
लब्धस्तेन
यदन्तिकस्थानां
दूरस्थानां
च
स्निग्धजनानां
भक्तजनानाञ्च
प्रभूतानुमोदनवाणीप्रवर्षणमथ
निशमनोत्सुकजनप्रश्नानां
प्रतिवचनरूपेण
प्रत्यहं
कैलासतद्यात्रयोर्महिमानुवर्णनप्रहर्षणञ्
च ।
साक्षात्
पार्वतीपतेर्महादेवस्य
किमयमेव
कैलासोऽथवान्यो
विद्यते
पुराणेषूपवर्णितः?
इत्ययमनुयोगो
बहुभिर्बहुधा
सश्रद्धमुपस्थापि
तः ।
स्वामिना
च
सप्रमाणमित्थं
स
निरूपितो
यदयमेव
पौराणिकः
सुप्रसिद्धः
कैलासपर्वतो
यत्र
खलु
भगवानुमावल्लभः
परमशिवो
विराजते
स्माथवा
विराजतेऽद्या
पि ।
पाण्डवाः
पुरा
सुहृदा
भगवता
श्रीकृष्णेन
पुरोधसा
श्रीधौम्येन
च
संयुताः
कैलासस्थानमभिप्रतस्थे
बदरिकाश्रमतः
पञ्चदशभिर्दिनैस्तथा
च
विविधान्
विचित्रान्
देशानतिक्रम्य
कैलासनिलयमासाद्य
तत्र
सपरिवारं
विराजमानं
शम्भुमखिलजगदधीश्वरमद्राक्षीच्चेत्येवमादिर्महाभारताख्यायिकात्र
स्मरणी
या ।
यद्यपि
पापमूर्तीनां
मूर्खाणां
पुरेवाधुनापि
तत्र
महादेवो
न
प्रत्यक्षतां
भजते
तथापि
पुण्यात्मनां
पूतोत्तमान्तः
करणानां
परमशिवः
परमेश्वरोऽनुभवगोचरतामाटीकत
एवाखिलान्तरात्
मा ।
अथ
च
मेघसन्देशकाव्येऽलकापुरीकैलासमानसानामुपवर्णनं
श्रीकालिदासकृतमप्यत्र
प्रमाणत्वेनानुसन्धेय
म् ।
परञ्च
हैन्दवबौद्धशिष्टपरम्परोक्तिप्रामाण्यं
तु
सुतरां
जागर्त्येवेति
॥ १६ ॥
Previous
←
Ekāntasundarā yātrā
Next
Saumyakāśīśastotram
→