Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Cāturmāsyam
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 8
Cave, Kailāsa and the Snow Mountains
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
18
▾
Meaning
Keep
अथ
च
हिमसमयपरिक्षये
जाते
राज्ञी
श्रीसुरथादेवी
यथानियमं
हृषीकेशमागत्य
रामाश्रमे
कृतवसतिः
स्वामिनमेवमावेदयदेकस्मिन्
सायाह्नेऽहमपि
कैलासदर्शनोत्सु
का ।
अस्मिन्नेव
वत्सरे
गन्तुमुद्यमश्च
क्रियते
म
या ।
स्वामिशिवानन्दाद्वैतानन्दप्रभृतयोऽप्यस्माभिः
सह
यात्रायै
निष्ठितोद्यतमतयो
वर्तन्
ते ।
श्रीमन्तोऽपि
द्विः
कैलासयात्रासम्यगनुभववन्तोऽस्माकं
मण्डलीं
मण्डयन्तु
सहव्रज्ययास्मिन्नब्देऽपि
इ
ति ।
स्वामी
च
तत्क्षणं
स्पष्टतरमित्थमुत्तरितवान्
कैलासयात्रा
महाक्लेशकरी
स्वच्छन्दमतीते
संवत्सरेऽपि
निर्वर्तितास्मा
भिः ।
तस्मादस्मिन्नब्दे
पुनस्तदर्थमौत्सुक्यं
न
समुदेति
मन
सि ।
अथ
परतन्त्रता-गन्धोऽप्यस्माकं
न
ज्ञातच
रः ।
तर्हि
राजसारम्भसम्भारेण
श्रीमत्या
बहुपुंयोषिज्जनमहामण्डलेन
सह
कथमस्माकं
सम्बन्धः
सम्भावयितुं
शक्यः?
अत
एतद्विषयेऽस्मत्सहकरणं
नैवेहितव्यमि
ति ।
एवं
समुपेक्ष्य
सर्वा
इतरप्रचोदनाः
स्वामी
निजचातुर्मास्यकरणार्थं
तस्मिन्नब्देऽपि
श्रीबदरिकाश्रमं
गन्तुं
मतिमकरोत्
स्वय
म् ।
श्रीमान्
पण्डितश्रीराघवाचार्योऽपि
तस्य
सुहृत्
स्वान्तेवासिमण्डलसमेतः
श्रीबदरीपुरीं
प्रस्थातुकामस्तदर्थं
कृतसन्नाहः
समभू
त् ।
दुष्करयात्रासौकर्याय
च
तत्सामग्री
यावदपेक्षितं
ग्रहीतव्येति
भक्तवर्गेण
सम्प्रार्थितोऽपि
स्वामी
स्वकीयमसङ्ग्रहनियममनुसरन्न
किञ्चिज्जग्राह
तत्
र ।
तथा
च
स्वस्मिन्नाबद्धस्नेहबहुमानातिशयेनाचार्येण
सह
स
हृषीकेशतः
समुत्थायानतिशीघ्रमन्दगमनेन
पञ्चदशभिर्षोडशभिर्वा
दिनैः
श्रीकृष्णमुनिस्थानमयासीत्सानन्दं
ज्येष्ठ
(वृषभ)
सङ्क्रमतो
द्वित्रवासरेभ्यः
पूर्व
म् ।
तत्र
गत्वा
च
स्वामी
विविक्तप्रियोऽलकनन्दाया
अपरस्मिन्
पारे
कृष्णकम्बलक्षेत्रीये
कस्मिंश्चिन्नवीनैकान्तकुटीरे
स्वच्छन्दमेकलो
वस्तुमारे
भे ।
पूर्वहायनापेक्षया
स्वामिनः
परिचयः
प्रतिष्ठा
च
तत्र
किञ्चिदिवाधिकतां
गतेत्यनायासेन
समुचितस्थानादिकं
क्षेत्रजनेभ्यः
सेवासत्करणादिकं
च
विशिष्य
सम्प्राप्तमासीदिति
विशेषतो
वक्तव्यमस्ति
॥ १८ ॥
19
▾
Meaning
Keep
अहह
जलदमालासङ्कुलं
खं
बभूव
पिहितमिहिरबिम्बं
शैशिरी
देवता
च ।
अकृतयतिवराणां
सा
तितिक्षापरीक्षां
ह्यकरुणमथ
देहाध्यासकक्षापरीक्षाम्
॥ १९ ॥
Previous
←
Saumyakāśīśastotram
Next
Himadhavalimādīptiḥ
→