Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Gaṅgottaramukhe
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 9
Gaṅgotrī, Gomukh and the New Cave
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
14
▾
Meaning
Keep
श्रीगोमुखीयात्रागङ्गोत्तरीक्षेत्रमाहात्म्याभिधयोर्ग्रन्थयोः
प्रकृतगोमुखीगङ्गोत्तरीप्रान्तस्योत्तराखण्डोत्तरदिग्गतस्य
पुण्डक्षितेरपेक्षितमीषद्विवरणं
कृतमस्माभिरिति
नात्र
तदतिवर्णनव्यवसायायासेन
किञ्चित्प्रयोजनमिति
तत
उदासीनाः
प्रस्तुतकथामनुसरा
मः ।
अथ
च
द्वादशवादनकाले
श्रीगोमुखतः
सप्रणामं
समुत्थाय
मन्दमन्दं
प्रतिनिर्वर्तितुमारेभे
स्वा
मी ।
तुषारपतनभीत्या
विरामं
विनैव
यावद्रजनीमुखमधश्चलित्वा
भुक्तकिञ्चित्पर्युषितान्नमात्रास्ते
त्रयोऽप्यत्यन्तं
परिश्रान्ताः
कस्याञ्चित्पाषाणगुहायामासनमवस्थापयामा
सुः ।
अपक्वमन्नं
किञ्चिदवशिष्टं
गोधूमपिष्टं
विपच्य
तेन
क्षुधाराक्षसीमाराध्य
च
तत्र
सुखं
विशश्राम
शुष्कपर्णरचितसुचारुकोमलशय्यायां
शचीपतेर्देवराजस्यापि
दुर्लभाया
म् ।
विभावर्यामभ्रमालासम्भ्रमणमथ
तुहिनवृष्टिश्च
पर्वतनितम्बावधि
सञ्जा
ता ।
अथ
प्रगे
शैत्यवेगमविगणयन्तस्ते
ततः
समुत्थायानतिविप्रकृष्टां
गङ्गोत्तरस्थिरां
नववादनतः
प्रागेवायाञ्चक्रि
रे ।
अहो!
श्रीगङ्गोत्तरी
गोमुखप्रान्तस्य
शुद्धसत्त्वमूर्तेरतिमात्रैकान्तकान्तस्याध्यात्मिकी
शान्तिरथ
लौकिकसङ्कल्पतिरस्करणकौशलं
च
साक्षादनुभूतं
तेन
तस्य
मनसि
महान्तं
स्वकीयमलौकिकमतुलं
प्रभावमभावयत्प्रेमोद्रेकञ्च
स्वस्मिन्
दृढमूलमचञ्चल
म् ।
तथा
च
गङ्गोत्तरगोमुखे
प्रतिहायनमनुपेक्षमुपसेवनीय
इति
निर्णीतं
निर्भरमन्तरङ्गे
तेन
तत्तपस्याजीवनानतिशयानन्दानुभवानुरक्तेन!
व्यवहारप्रधानजीवितारम्भे
तस्य
नासीदभिरुचिरणुतराऽ
पि ।
तर्हि
पुनरुपरतिप्रधानस्य
जीवितस्यैतस्मात्स्थानाद्योग्यतरमन्यत्किमस्ति
स्थानमस्मिन्
भारते
वर्
षे ।
अखिलजगज्जनन्या
विशेषतो
हैन्दवजनानां
जनन्याः
पतितपावन्याः
श्रीजह्नुजाया
ऋषिमुनिजुष्टे
तटे
तत्र
कुत्रचिन्निजजीवनं
यापयितुं
यद्यभिलष्यते
निखिलैः
साधुभिस्तर्हि
तादृशी
लोकोत्तरमहिमशालिनी
यतः
पुण्यपूतोन्नतहिमवन्मूर्धदेशान्निःसरति
साक्षादमरसरित्तत्र
तपोऽनुष्ठानजीवनमहो
महतः
प्राक्कृतसुकृतस्य
फलं
को
वा
प्रापञ्चिकव्यवहारविमुखस्तत्त्वविद्याप्रशमोन्मुखो
नाभिकाङ्क्षति
प्राज्ञो
य
तिः ।
ततश्चाविलम्बितमेव
स्वामी
गङ्गोत्तरीत
उत्तरकाशीं
तत्र
चैकमासमारभ्य
पुनस्ततोऽपि
हृषीकेशक्षेत्रमयते
स्म
शिशिरमास
निवासाय
॥ १४ ॥
Previous
←
Puṇḍakṣitiḥ
Next
Ātmakathā na mahatvakhyāpanāya
→