Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Satsaṅgaceṣṭāḥ
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 9
Gaṅgotrī, Gomukh and the New Cave
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
22
▾
Meaning
Keep
अपि
च
यथा
गङ्गोत्तरीनिवासचरितमतिसङ्क्षिप्योपक्षिप्तमत्र,
तथा
सौम्यवाराणसीनिवासपरिपाटी
चातिसमासत
उपन्यस्यते
भवतां
पुर
तः ।
अपरत्र
निवसनकामनां
परित्यज्य
हृषीकेशतः
प्रतिवर्षमुत्तरकाशीगङ्गोत्तरीगमनप्रक्रिया
नियमतः
स्वीकृता
स्वामिनेत्यवलोकयञ्श्रीगङ्गाशङ्करमहोदयः
सौम्यकाश्यां
तन्निवासार्थमेकं
सदनं
स्थिरं
निर्मातुकामस्तदर्थमायोजनमकार्षीत्त्वरया
नितरां
तस्य
च
हितमाचर
न् ।
तथा
च
१९३५
तमे
क्रिस्ताब्दे
कैलासमठस्योपरिष्टादुच्चतरवारणावतपर्वतपार्श्वस्थिरायां
निरन्तरगङ्गादर्शनप्रदायिन्यामभितो
हरितमनोहरविपिनशोभासुशोभितायां
साधुसन्न्यासिवासस्थानमध्यगायां
कुटीरद्वयं
पृथक्
पृथङ्निर्माय
स्वामिने
प्रददिवान्
स
उदारस्निग्धचे
ताः ।
ततः
प्रभृति
च
स्वामी
सौम्यकाशीगमनावसरे
तत्र
स्वच्छन्दतया
निर्विक्षेपं
वस्तुमारे
भे ।
विशाले
बृहत्कुटीरे
स्वामी
तथान्यस्मिंल्लघुतरे
कुटीरेऽन्यश्च
कश्चन
साधुः
प्रथमेऽब्दे
स्वामी
गोविन्दगिरिश्च
सदा
न्यूष
तुः ।
जनसम्बन्धवियुतविशालवाटिकाभ्यन्तरगं
तद्वस्त्यमेकान्तशान्तमेकान्तप्रियस्य
तस्य
सन्ततब्रह्मविचारशास्त्रविचारादिनिजधर्मनिरतस्य
सर्वथाऽनुकूलतरमेव
नित्यं
प्रत्यभा
त् ।
यथा
साधुद्वयनिवासयोग्यं
स्थानं
प्रथमतो
निर्मितं,
तथैवाद्यापि
तदवतिष्ठ
ते ।
तस्य
परिवर्धनादिकं
न
कदापि
विधातुं
स
ऐच्छदिच्छति
वा
व्यवहारविमुखः
सदोपरतसमाहितजीवननिष्
ठः ।
तथा
च
विश्वेशपुर्यां
तत्स्थाने
निवसन्स
सदा
निर्विक्षेपमध्यात्मप्रशमरसानुभवप्रधानं
निजजीवनमयापयत्,
यापयति
चाद्या
पि ।
प्राथमिकेषु
वत्सरेषु
तत्र
वेदान्ताध्येतारोऽपि
सुशिक्षिता
अधिकारिणोऽवर्तन्त
श्रद्धावन्तः
स्वाम्यात्मानन्दस्वामिधीरेशानन्दप्रभृतयो
महात्मा
नः ।
ब्रह्मविद्याधिगन्तॄणां
विनीतस्निग्धमधुरप्रकृतीनां
तेषां
समागमोऽथ
तैः
सह
शास्त्रीयविषयविमर्शनशङ्कासमाधानादिप्रवृत्तिश्च
महानुल्लासहेतुर्हर्षहेतुश्च
समभूत्तत्र
तदात्
वे ।
तेषु
सर्वप्रधानः
स्वामी
श्रीमदात्मानन्दो
विदितवेद्यः
स्वामिन्याबद्धश्रद्धाविशेषः
स्वामिसम्बन्धेनैव
लोकोपकाराय
प्रणीतप्रसाधितचित्तसम्बोधनादिसद्ग्रन्थो
विशेषत
उत्तरकाशीवास्तव्यो
निजसत्सङ्गचर्चनाद्यध्यात्मचेष्टितैस्तस्य
मनसि
महान्तं
प्रमोदमुदपीपददुत्पादयति
चेदानीमपि
॥ २२ ॥
23
▾
Meaning
Keep
अथ
श्रीमद्देवीगिरिमुखयतीन्द्राः
प्रवयसो
विदां
श्रेष्ठाः
प्रेष्ठप्रकृतय
उरुब्रह्मरत
यः ।
सदा
ब्राह्मीं
वार्तां
भ्रमविशयवर्जं
विदधिरे
तथा
तारङ्गं
तन्मनसि
मुद
उद्वेल्लनमपि
॥ २३ ॥
Previous
←
Bahujanairmānitaḥ svāmī
Next
Cakranemikrameṇa
→