Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Agastya · The Aśvins
Agastya
›
Maṇḍala 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
युवो
रजांसि
सुयमासो
अश्वा
रथो
यद्वाम्पर्यर्णांसि
दीयत्
।
हिरण्यया
वाम्पवयः
प्रुषायन्मध्वः
पिबन्ता
उषसः
सचेथे
॥
2
▾
Meaning
Keep
युवमत्यस्याव
नक्षथो
यद्विपत्मनो
नर्यस्य
प्रयज्योः
।
स्वसा
यद्वां
विश्वगूर्ती
भराति
वाजायेट्टे
मधुपाविषे
च
॥
3
▾
Meaning
Keep
युवम्पय
उस्रियायामधत्तम्पक्वमामायामव
पूर्व्यं
गोः
।
अन्तर्यद्वनिनो
वामृतप्सू
ह्वारो
न
शुचिर्यजते
हविष्मान्
॥
4
▾
Meaning
Keep
युवं
ह
घर्मम्मधुमन्तमत्रये
ऽपो
न
क्षोदो
ऽवृणीतमेषे
।
तद्वां
नरावश्विना
पश्वइष्टी
रथ्येव
चक्रा
प्रति
यन्ति
मध्वः
॥
5
▾
Meaning
Keep
आ
वां
दानाय
ववृतीय
दस्रा
गोरोहेण
तौग्र्यो
न
जिव्रिः
।
अपः
क्षोणी
सचते
माहिना
वां
जूर्णो
वामक्षुरंहसो
यजत्रा
॥
6
▾
Meaning
Keep
नि
यद्युवेथे
नियुतः
सुदानू
उप
स्वधाभिः
सृजथः
पुरंधिम्
।
प्रेषद्वेषद्वातो
न
सूरिरा
महे
ददे
सुव्रतो
न
वाजम्
॥
7
▾
Meaning
Keep
वयं
चिद्धि
वां
जरितारः
सत्या
विपन्यामहे
वि
पणिर्हितावान्
।
अधा
चिद्धि
ष्माश्विनावनिन्द्या
पाथो
हि
ष्मा
वृषणावन्तिदेवम्
॥
8
▾
Meaning
Keep
युवां
चिद्धि
ष्माश्विनावनु
द्यून्विरुद्रस्य
प्रस्रवणस्य
सातौ
।
अगस्त्यो
नरां
नृषु
प्रशस्तः
काराधुनीव
चितयत्सहस्रैः
॥
9
▾
Meaning
Keep
प्र
यद्वहेथे
महिना
रथस्य
प्र
स्यन्द्रा
याथो
मनुषो
न
होता
।
धत्तं
सूरिभ्य
उत
वा
स्वश्व्यं
नासत्या
रयिषाचः
स्याम
॥
10
▾
Meaning
Keep
तं
वां
रथं
वयमद्या
हुवेम
स्तोमैरश्विना
सुविताय
नव्यम्
।
अरिष्टनेमिम्परि
द्यामियानं
विद्यामेषं
वृजनं
जीरदानुम्
॥
Previous
←
Rati, the love of husband and wife
Next
The Aśvins
→