Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Madālasā · The lullaby to Vikrānta
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
शुद्धो
ऽसि
रे
तात
न
ते
ऽस्ति
नाम
कृतं
हि
ते
कल्पनयाधुनैव
।
पञ्चात्मकं
देहमिदं
तवैतन्नैवास्य
त्वं
रोदिषि
कस्य
हेतोः
॥
2
▾
Meaning
Keep
न
वा
भवान्रोदिति
वै
स्वजन्मा
शब्दो
ऽयमासाद्य
महीशसूनुम्
।
विकल्प्यमाना
विविधा
गुणास्ते
ऽगुणाश्च
भौताः
सकलेन्द्रियेषु
॥
3
▾
Meaning
Keep
भूतानि
भूतैः
परिदुर्बलानि
वृद्धिं
समायान्ति
यथेह
पुंसः
।
अन्नाम्बुपानादिभिरेव
कस्य
न
ते
ऽस्ति
वृद्धिर्न
च
ते
ऽस्ति
हानिः
॥
4
▾
Meaning
Keep
त्वं कञ्चुके शीर्यमाणे निजे ऽस्मिंस्तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर्देहमेतन्मदादिमूढैः कञ्चुकस्ते ऽपिनद्धः ॥
5
▾
Meaning
Keep
तातेति
किञ्चित्तनयेति
किञ्चिदम्बेति
किञ्चिद्दयितेति
किञ्चित्
।
ममेति
किञ्चिन्न
ममेति
किञ्चित्त्वं
भूतसङ्घं
बहुमानयेथाः
॥
6
▾
Meaning
Keep
दुःखानि
दुःखोपगमाय
भोगान्सुखाय
जानाति
विमूढचेताः
।
तान्येव
दुःखानि
पुनः
सुखानि
जानात्यविद्वान्सुविमूढचेताः
॥
7
▾
Meaning
Keep
हासो
ऽस्थिसन्दर्शनमक्षियुग्ममत्युज्ज्वलं
तर्जनमङ्गनायाः
।
कुचादिपीनं
पिशितं
घनं
तत्स्थानं
रतेः
किं
नरकं
न
योषित्
॥
8
▾
Meaning
Keep
यानं
क्षितौ
यानगतञ्च
देहं
देहे
ऽपि
चान्यः
पुरुषो
निविष्टः
।
ममत्वबुद्धिर्न
तथा
यथा
स्वे
देहे
ऽतिमात्रं
बत
मूढतैषा
॥
Previous
←
The lullaby: Śuddho 'si
Next
The lullaby to Alarka
→