Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Vāk Āmbhṛṇī · Vāk (Speech), speaking of herself
Vāk Āmbhṛṇī
›
Maṇḍala 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहम्मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
2
▾
Meaning
Keep
अहं
सोममाहनसम्बिभर्म्यहं
त्वष्टारमुत
पूषणम्भगम्
।
अहं
दधामि
द्रविणं
हविष्मते
सुप्राव्ये
यजमानाय
सुन्वते
॥
3
▾
Meaning
Keep
अहं
राष्ट्री
संगमनी
वसूनां
चिकितुषी
प्रथमा
यज्ञियानाम्
।
ताम्मा
देवा
व्यदधुः
पुरुत्रा
भूरिस्थात्राम्भूर्यावेशयन्तीम्
॥
4
▾
Meaning
Keep
मया
सो
अन्नमत्ति
यो
विपश्यति
यः
प्राणिति
य
ईं
शृणोत्युक्तम्
।
अमन्तवो
मां
त
उप
क्षियन्ति
श्रुधि
श्रुत
श्रद्धिवं
ते
वदामि
॥
5
▾
Meaning
Keep
अहमेव
स्वयमिदं
वदामि
जुष्टं
देवेभिरुत
मानुषेभिः
।
यं
कामये
तं-तमुग्रं
कृणोमि
तम्ब्रह्माणं
तमृषिं
तं
सुमेधाम्
॥
6
▾
Meaning
Keep
अहं
रुद्राय
धनुरा
तनोमि
ब्रह्मद्विषे
शरवे
हन्तवा
उ
।
अहं
जनाय
समदं
कृणोम्यहं
द्यावापृथिवी
आ
विवेश
॥
7
▾
Meaning
Keep
अहं
सुवे
पितरमस्य
मूर्धन्मम
योनिरप्स्वन्तः
समुद्रे
।
ततो
वि
तिष्ठे
भुवनानु
विश्वोतामूं
द्यां
वर्ष्मणोप
स्पृशामि
॥
8
▾
Meaning
Keep
अहमेव
वात
इव
प्र
वाम्यारभमाणा
भुवनानि
विश्वा
।
परो
दिवा
पर
एना
पृथिव्यैतावती
महिना
सम्बभूव
॥