Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Brahmajñānāvalīmālā · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
सकृच्छ्रवणमात्रेण
ब्रह्मज्ञानं
यतो
भवेत्
।
ब्रह्मज्ञानावलीमाला
सर्वेषां
मोक्षसिद्धये
॥ १ ॥
2
▾
Meaning
Keep
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं
पुनः
पुनः
।
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः
॥ २ ॥
3
▾
Meaning
Keep
नित्यशुद्धविमुक्तोऽहं
निराकारोऽहमव्ययः
।
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः
॥ ३ ॥
4
▾
Meaning
Keep
नित्योऽहं
निरवद्योऽहं
निराकारोऽहमच्युतः
।
परमानन्दरूपोऽहमहमेवाहमव्ययः
॥ ४ ॥
5
▾
Meaning
Keep
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव
च
।
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः
॥ ५ ॥
6
▾
Meaning
Keep
प्रत्यक्चैतन्यरूपोऽहं
शान्तोऽहं
प्रकृतेः
परः
।
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः
॥ ६ ॥
7
▾
Meaning
Keep
तत्त्वातीतः
परात्माहं
मध्यातीतः
परः
शिवः
।
मायातीतः
परञ्ज्योतिरहमेवाहमव्ययः
॥ ७ ॥
8
▾
Meaning
Keep
नानारूपव्यतीतोऽहं
चिदाकारोऽहमच्युतः
।
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः
॥ ८ ॥
9
▾
Meaning
Keep
मायातत्कार्यदेहादि
मम
नास्त्येव
सर्वदा
।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः
॥ ९ ॥
10
▾
Meaning
Keep
गुणत्रयव्यतीतोऽहं
ब्रह्मादीनां
च
साक्ष्यहम्
।
अनन्तानन्तरूपोऽहमहमेवाहमव्ययः
॥ १० ॥
11
▾
Meaning
Keep
अन्तर्यामिस्वरूपोऽहं
कूटस्थः
सर्वगोऽस्म्यहम्
।
परमात्मस्वरूपोऽहमहमेवाहमव्ययः
॥ ११ ॥
12
▾
Meaning
Keep
निष्कलोऽहं
निष्क्रियोऽहं
सर्वात्माद्यः
सनातनः
।
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः
॥ १२ ॥
13
▾
Meaning
Keep
इन्द्रादिसाक्षिरूपोऽहमचलोऽहं
सनातनः
।
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः
॥ १३ ॥
14
▾
Meaning
Keep
प्रज्ञानघन
एवाहं
विज्ञानघन
एव
च
।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः
॥ १४ ॥
15
▾
Meaning
Keep
निराधारस्वरूपोऽहं
सर्वाधारोऽहमेव
च
।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः
॥ १५ ॥
16
▾
Meaning
Keep
तापत्रयविनिर्मुक्तो
देहत्रयविलक्षणः
।
अवस्थात्रयसाक्ष्यस्मि
चाहमेवाहमव्ययः
॥ १६ ॥
17
▾
Meaning
Keep
दृग्दृश्यौ
द्वौ
पदार्थौ
स्तः
परस्परविलक्षणौ
।
दृग्ब्रह्म
दृश्यं
मायेति
सर्ववेदान्तडिण्डिमः
॥ १७ ॥
18
▾
Meaning
Keep
अहं
साक्षीति
यो
विद्याद्विविच्यैवं
पुनः
पुनः
।
स
एव
मुक्तः
सो
विद्वानिति
वेदान्तडिण्डिमः
॥ १८ ॥
19
▾
Meaning
Keep
घटकुड्यादिकं
सर्वं
मृत्तिकामात्रमेव
च
।
तद्वद्ब्रह्म
जगत्सर्वमिति
वेदान्तडिण्डिमः
॥ १९ ॥
20
▾
Meaning
Keep
ब्रह्म
सत्यं
जगन्मिथ्या
जीवो
ब्रह्मैव
नापरः
।
अनेन
वेद्यं
सच्छास्त्रमिति
वेदान्तडिण्डिमः
॥ २० ॥
21
▾
Meaning
Keep
अन्तर्ज्योतिर्बहिर्ज्योतिः
प्रत्यग्ज्योतिः
परात्परः
।
ज्योतिर्ज्योतिः
स्वयञ्ज्योतिरात्मज्योतिः
शिवोऽस्म्यहम्
॥ २१ ॥