Contents
Śaṅkara Anubhavālaya
The works of Ādi Śaṅkarācārya
Realm
Read
Kept
Search
Settings
←
Leave
Dakṣiṇāmūrtistotram
Tap a verse for its meaning
Devanāgarī
Pronunciation
Meaning
Verse by verse
Continuous
1
उपासकानां यदुपासनीय-
मुपात्तवासं वटशाखिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥
2
अद्राक्षमक्षीणदयानिधान-
माचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥
3
विद्राविताशेषतमोगणेन
मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥
4
अपारकारुण्यसुधातरङ्गै-
रपाङ्गपातैरवलोकयन्तम् ।
कठोरसंसारनिदाघतप्ता-
न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥
5
ममाद्यदेवो वटमूलवासी
कृपाविशेषात्कृतसंनिधानः ।
ओंकाररूपामुपदिश्य विद्या-
माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥
6
कलाभिरिन्दोरिव कल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलोकये देशिकमप्रमेय-
मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥
7
स्वदक्षजानुस्थितवामपादं
पादोदरालंकृतयोगपट्टम् ।
अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥
8
तत्त्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालै-
राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥
9
एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्ता-
दाचार्यचूडामणिराविरस्तु ॥ ९ ॥
10
आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कंचन देशिकेन्द्र-
मज्ञानवाराकरबाडबाग्निम् ॥ १० ॥
11
चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥
12
उपासते यं मुनयः शुकाद्या
निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
13
कान्त्या निन्दितकुन्दकंदलवपुर्न्यग्रोधमूले वस-
न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
14
अगौरनेत्रैरललाटनेत्रै-
रशान्तवेषैरभुजंगभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै-
रपूरकामैरमरैरलं नः ॥ १४ ॥
15
दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥
16
मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये ।
जगदिन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥
17
व्यालम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥
18
उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥
19
यस्ते प्रसन्नामनुसंदधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्या-
मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥