Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Daśaślokīstutiḥ · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
साम्बो
नः
कुलदैवतं
पशुपते
साम्ब
त्वदीया
वयं
साम्बं
स्तौमि
सुरासुरोरगगणाः
साम्बेन
संतारिताः
।
साम्बायास्तु
नमो
मया
विरचितं
साम्बात्परं
नो
भजे
साम्बस्यानुचरोऽस्म्यहं
मम
रतिः
साम्बे
परब्रह्मणि
॥ १ ॥
2
▾
Meaning
Keep
विष्ण्वाद्याश्च
पुरत्रयं
सुरगणा
जेतुं
न
शक्ताः
स्वयं
यं
शंभुं
भगवन्वयं
तु
पशवोऽस्माकं
त्वमेवेश्वरः
।
स्वस्वस्थाननियोजिताः
सुमनसः
स्वस्था
बभूवुस्तत-
स्तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ २ ॥
3
▾
Meaning
Keep
क्षोणी
यस्य
रथो
रथाङ्गयुगलं
चन्द्रार्कबिम्बद्वयं
कोदण्डः
कनकाचलो
हरिरभूद्बाणो
विधिः
सारथिः
।
तूणीरो
जलधिर्हयाः
श्रुतिचयो
मौर्वी
भुजङ्गाधिप-
स्तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ३ ॥
4
▾
Meaning
Keep
येनापादितमङ्गजाङ्गभसितं
दिव्याङ्गरागैः
समं
येन
स्वीकृतमब्जसंभवशिरः
सौवर्णपात्रैः
समम्
।
येनाङ्गीकृतमच्युतस्य
नयनं
पूजारविन्दैः
समं
तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ४ ॥
5
▾
Meaning
Keep
गोविन्दादधिकं
न
दैवतमिति
प्रोच्चार्य
हस्तावुभा-
वुद्धृत्याथ
शिवस्य
संनिधिगतो
व्यासो
मुनीनां
वरः
।
यस्य
स्तम्भितपाणिरानतिकृता
नन्दीश्वरेणाभव-
त्तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ५ ॥
6
▾
Meaning
Keep
आकाशश्चिकुरायते
दशदिशाभोगो
दुकूलायते
शीतांशुः
प्रसवायते
स्थिरतरानन्दः
स्वरूपायते
।
वेदान्तो
निलयायते
सुविनयो
यस्य
स्वभावायते
तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ६ ॥
7
▾
Meaning
Keep
विष्णुर्यस्य
सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु
नेत्रकमलं
नैजं
पदाब्जद्वये
।
सम्पूज्यासुरसंहतिं
विदलयंस्त्रैलोक्यपालोऽभव-
त्तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ७ ॥
8
▾
Meaning
Keep
शौरिं
सत्यगिरं
वराहवपुषं
पादाम्बुजादर्शने
चक्रे
यो
दयया
समस्तजगतां
नाथं
शिरोदर्शने
।
मिथ्यावाचमपूज्यमेव
सततं
हंसस्वरूपं
विधिं
तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ८ ॥
9
▾
Meaning
Keep
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा
परिणता
नान्यत्ततो
वर्तते
।
ओंकारार्थविवेचनी
श्रुतिरियं
चाचष्ट
तुर्यं
शिवं
तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ ९ ॥
10
▾
Meaning
Keep
विष्णुब्रह्मसुराधिपप्रभृतयः
सर्वेऽपि
देवा
यदा
संभूताज्जलधेर्विषात्परिभवं
प्राप्तास्तदा
सत्वरम्
।
तानार्ताञ्शरणागतानिति
सुरान्योऽरक्षदर्धक्षणा-
त्तस्मिन्मे
हृदयं
सुखेन
रमतां
साम्बे
परब्रह्मणि
॥ १० ॥