Contents
The Divine Mother
Home
Library
Find
Shelf
Settings
←
Leave
Devībhujaṅgastotram · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
विरिञ्च्यादिभिः
पञ्चभिर्लोकपालैः
समूढे
महानन्दपीठे
निषण्णम्
।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं
शंकराद्वैतमव्यात्
॥ १ ॥
2
▾
Meaning
Keep
यदन्नादिभिः
पञ्चभिः
कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः
।
निगूढे
महायोगपीठे
निषण्णं
पुरारेरथान्तःपुरं
नौमि
नित्यम्
॥ २ ॥
3
▾
Meaning
Keep
विरिञ्चादिरूपैः
प्रपञ्चे
विहृत्य
स्वतन्त्रा
यदा
स्वात्मविश्रान्तिरेषा
।
तदा
मानमातृप्रमेयातिरिक्तं
परानन्दमीडे
भवानि
त्वदीयम्
॥ ३ ॥
4
▾
Meaning
Keep
विनोदाय
चैतन्यमेकं
विभज्य
द्विधा
देवि
जीवः
शिवश्चेति
नाम्ना
।
शिवस्यापि
जीवत्वमापादयन्ती
पुनर्जीवमेनं
शिवं
वा
करोषि
॥ ४ ॥
5
▾
Meaning
Keep
समाकुञ्च्य
मूलं
हृदि
न्यस्य
वायुं
मनो
भ्रूबिलं
प्रापयित्वा
निवृत्ताः
।
ततः
सच्चिदानन्दरूपे
पदे
ते
भवन्त्यम्ब
जीवाः
शिवत्वेन
केचित्
॥ ५ ॥
6
▾
Meaning
Keep
शरीरेऽतिकष्टे
रिपौ
पुत्रवर्गे
सदाभीतिमूले
कलत्रे
धने
वा
।
न
कश्चिद्विरज्यत्यहो
देवि
चित्रं
कथं
त्वत्कटाक्षं
विना
तत्त्वबोधः
॥ ६ ॥
7
▾
Meaning
Keep
शरीरे
धनेऽपत्यवर्गे
कलत्रे
विरक्तस्य
सद्देशिकादिष्टबुद्धेः
।
यदाकस्मिकं
ज्योतिरानन्दरूपं
समाधौ
भवेत्तत्त्वमस्यम्ब
सत्यम्
॥ ७ ॥
8
▾
Meaning
Keep
मृषान्यो
मृषान्यः
परो
मिश्रमेनं
परः
प्राकृतं
चापरो
बुद्धिमात्रम्
।
प्रपञ्चं
मिमीते
मुनीनां
गणोऽयं
तदेतत्त्वमेवेति
न
त्वां
जहीमः
॥ ८ ॥
9
▾
Meaning
Keep
निवृत्तिः
प्रतिष्ठा
च
विद्या
च
शान्ति-
स्तथा
शान्त्यतीतेति
पञ्चीकृताभिः
।
कलाभिः
परे
पञ्चविंशात्मिकाभि-
स्त्वमेकैव
सेव्या
शिवाभिन्नरूपा
॥ ९ ॥
10
▾
Meaning
Keep
अगाधेऽत्र
संसारपङ्के
निमग्नं
कलत्रादिभारेण
खिन्नं
नितान्तम्
।
महामोहपाशौघबद्धं
चिरान्मां
समुद्धर्तुमम्ब
त्वमेकैव
शक्ता
॥ १० ॥
11
▾
Meaning
Keep
समारभ्य
मूलं
गतो
ब्रह्मचक्रं
भवद्दिव्यचक्रेश्वरीधामभाजः
।
महासिद्धिसंघातकल्पद्रुमाभा-
नवाप्याम्ब
नादानुपास्ते
च
योगी
॥ ११ ॥
12
▾
Meaning
Keep
गणेशैर्ग्रहैरम्ब
नक्षत्रपङ्क्त्या
तथा
योगिनीराशिपीठैरभिन्नम्
।
महाकालमात्मानमामृश्य
लोकं
विधत्से
कृतिं
वा
स्थितिं
वा
महेशि
॥ १२ ॥
13
▾
Meaning
Keep
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं
करे
पुस्तकं
चाक्षमालाम्
।
शरच्चन्द्रकोटिप्रभाभासुरां
त्वां
सकृद्भावयन्भारतीवल्लभः
स्यात्
॥ १३ ॥
14
▾
Meaning
Keep
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव
सिन्दूरिताजाण्डकोटिम्
।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः
स्मरं
वापि
संमोहयेयुः
॥ १४ ॥
15
▾
Meaning
Keep
मणिस्यूतताटङ्कशोणास्यबिम्बां
हरित्पट्टवस्त्रां
त्वगुल्लासिभूषाम्
।
हृदा
भावयंस्तप्तहेमप्रभां
त्वां
श्रियो
नाशयत्यम्ब
चाञ्चल्यभावम्
॥ १५ ॥
16
▾
Meaning
Keep
महामन्त्रराजान्तबीजं
पराख्यं
स्वतो
न्यस्तबिन्दुं
स्वयं
न्यस्तहार्दम्
।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं
सकृद्भावयेत्स
त्वमेव
॥ १६ ॥
17
▾
Meaning
Keep
तथान्ये
विकल्पेषु
निर्विण्णचित्ता-
स्तदेकं
समाधाय
बिन्दुत्रयं
ते
।
परानन्दसंधानसिन्धौ
निमग्नाः
पुनर्गर्भरन्ध्रं
न
पश्यन्ति
धीराः
॥ १७ ॥
18
▾
Meaning
Keep
त्वदुन्मेषलीलानुबन्धाधिकारा-
न्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून्
।
भजन्तस्तितीर्षन्ति
संसारसिन्धुं
शिवे
तावकीना
सुसंभावनेयम्
॥ १८ ॥
19
▾
Meaning
Keep
कदा
वा
भवत्पादपोतेन
तूर्णं
भवाम्भोधिमुत्तीर्य
पूर्णान्तरङ्गः
।
निमज्जन्तमेनं
दुराशाविषाब्धौ
समालोक्य
लोकं
कथं
पर्युदास्से
॥ १९ ॥
20
▾
Meaning
Keep
कदा
वा
हृषीकाणि
साम्यं
भजेयुः
कदा
वा
न
शत्रुर्न
मित्रं
भवानि
।
कदा
वा
दुराशाविषूचीविलोपः
कदा
वा
मनो
मे
समूलं
विनश्येत्
॥ २० ॥
21
▾
Meaning
Keep
नमोवाकमाशास्महे
देवि
युष्म-
त्पदाम्भोजयुग्माय
तिग्माय
गौरि
।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपायमानप्रभाभास्वराय
॥ २१ ॥
22
▾
Meaning
Keep
कचे
चन्द्ररेखं
कुचे
तारहारं
करे
स्वादुचापं
शरे
षट्पदौघम्
।
स्मरामि
स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं
मदीयं
निधानम्
॥ २२ ॥
23
▾
Meaning
Keep
शरेष्वेव
नासा
धनुष्वेव
जिह्वा
जपापाटले
लोचने
ते
स्वरूपे
।
त्वगेषा
भवच्चन्द्रखण्डे
श्रवो
मे
गुणे
ते
मनोवृत्तिरम्ब
त्वयि
स्यात्
॥ २३ ॥
24
▾
Meaning
Keep
जगत्कर्मधीरान्वचोधूतकीरान्
कुचन्यस्तहारान्कृपासिन्धुपूरान्
।
भवाम्भोधिपारान्महापापदूरान्
भजे
वेदसाराञ्शिवप्रेमदारान्
॥ २४ ॥
25
▾
Meaning
Keep
सुधासिन्धुसारे
चिदानन्दनीरे
समुत्फुल्लनीपे
सुरत्रान्तरीपे
।
मणिव्यूहसाले
स्थिते
हैमशाले
मनोजारिवामे
निषण्णं
मनो
मे
॥ २५ ॥
26
▾
Meaning
Keep
दृगन्ते
विलोला
सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला
विपत्सिन्धुकूला
।
मुनिस्वान्तशाला
नमल्लोकपाला
हृदि
प्रेमलोलामृतस्वादुलीला
॥ २६ ॥
27
▾
Meaning
Keep
जगज्जालमेतत्त्वयैवाम्ब
सृष्टं
त्वमेवाद्य
यासीन्द्रियैरर्थजालम्
।
त्वमेकैव
कर्त्री
त्वमेकैव
भोक्त्री
न
मे
पुण्यपापे
न
मे
बन्धमोक्षौ
॥ २७ ॥
28
▾
Meaning
Keep
इति
प्रेमभारेण
किञ्चिन्मयोक्तं
न
बुध्वैव
तत्त्वं
मदीयं
त्वदीयम्
।
विनोदाय
बालस्य
मौर्ख्यं
हि
मात-
स्तदेतत्प्रलापस्तुतिं
मे
गृहाण
॥ २८ ॥