Contents
The Divine Mother
Home
Library
Find
Shelf
Settings
←
Leave
Gaurīdaśakam · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥
2
▾
Meaning
Keep
प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं
चित्ते
निर्वृतिकाष्ठां
कलयन्तीम्
।
सत्यज्ञानानन्दमयीं
तां
तनुरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ २ ॥
3
▾
Meaning
Keep
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम्
।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ३ ॥
4
▾
Meaning
Keep
आदिक्षान्तामक्षरमूर्त्या
विलसन्तीं
भूते
भूते
भूतकदम्बप्रसवित्रीम्
।
शब्दब्रह्मानन्दमयीं
तां
तडिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ४ ॥
5
▾
Meaning
Keep
मूलाधारादुत्थितवीथ्या
विधिरन्ध्रं
सौरं
चान्द्रं
व्याप्य
विहारज्वलिताङ्गीम्
।
येयं
सूक्ष्मात्सूक्ष्मतनुस्तां
सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ५ ॥
6
▾
Meaning
Keep
नित्यः
शुद्धो
निष्कल
एको
जगदीशः
साक्षी
यस्याः
सर्गविधौ
संहरणे
च
।
विश्वत्राणक्रीडनलोलां
शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ६ ॥
7
▾
Meaning
Keep
यस्याः
कुक्षौ
लीनमखण्डं
जगदण्डं
भूयो
भूयः
प्रादुरभूदुत्थितमेव
।
पत्या
सार्धं
तां
रजताद्रौ
विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ७ ॥
8
▾
Meaning
Keep
यस्यामोतं
प्रोतमशेषं
मणिमाला-
सूत्रे
यद्वत्क्वापि
चरं
चाप्यचरं
च
।
तामध्यात्मज्ञानपदव्या
गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ८ ॥
9
▾
Meaning
Keep
नानाकारैः
शक्तिकदम्बैर्भुवनानि
व्याप्य
स्वैरं
क्रीडति
येयं
स्वयमेका
।
कल्याणीं
तां
कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ ९ ॥
10
▾
Meaning
Keep
आशापाशक्लेशविनाशं
विदधानां
पादाम्भोजध्यानपराणां
पुरुषाणाम्
।
ईशामीशार्धाङ्गहरां
तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे
॥ १० ॥
11
▾
Meaning
Keep
प्रातःकाले
भावविशुद्धः
प्रणिधाना-
द्भक्त्या
नित्यं
जल्पति
गौरीदशकं
यः
।
वाचां
सिद्धिं
संपदमग्र्यां
शिवभक्तिं
तस्यावश्यं
पर्वतपुत्री
विदधाति
॥ ११ ॥