Contents
The Divine Mother
Home
Library
Find
Shelf
Settings
←
Leave
Kalyāṇavṛṣṭistavaḥ · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः
।
सेवाभिरम्ब
तव
पादसरोजमूले
नाकारि
किं
मनसि
भाग्यवतां
जनानाम्
॥ १ ॥
2
▾
Meaning
Keep
एतावदेव
जननि
स्पृहणीयमास्ते
त्वद्वन्दनेषु
सलिलस्थगिते
च
नेत्रे
।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य
परया
सुधयाप्लुतस्य
॥ २ ॥
3
▾
Meaning
Keep
ईशत्वनामकलुषाः
कति
वा
न
सन्ति
ब्रह्मादयः
प्रतिभवं
प्रलयाभिभूताः
।
एकः
स
एव
जननि
स्थिरसिद्धिरास्ते
यः
पादयोस्तव
सकृत्प्रणतिं
करोति
॥ ३ ॥
4
▾
Meaning
Keep
लब्ध्वा
सकृत्त्रिपुरसुन्दरि
तावकीनं
कारुण्यकन्दलितकान्तिभरं
कटाक्षम्
।
कंदर्पकोटिसुभगास्त्वयि
भक्तिभाजः
संमोहयन्ति
तरुणीर्भुवनत्रयेऽपि
॥ ४ ॥
5
▾
Meaning
Keep
ह्रींकारमेव
तव
नाम
गृणन्ति
वेदा
मातस्त्रिकोणनिलये
त्रिपुरे
त्रिनेत्रे
।
त्वत्संस्मृतौ
यमभटाभिभवं
विहाय
दीव्यन्ति
नन्दनवने
सह
लोकपालैः
॥ ५ ॥
6
▾
Meaning
Keep
हन्तुः
पुरामधिगलं
परिपीयमानः
क्रूरः
कथं
न
भविता
गरलस्य
वेगः
।
नाश्वासनाय
यदि
मातरिदं
तवार्धं
देहस्य
शश्वदमृताप्लुतशीतलस्य
॥ ६ ॥
7
▾
Meaning
Keep
सर्वज्ञतां
सदसि
वाक्पटुतां
प्रसूते
देवि
त्वदङ्घ्रिसरसीरुहयोः
प्रणामः
।
किं
च
स्फुरन्मुकुटमुज्ज्वलमातपत्रं
द्वे
चामरे
च
महतीं
वसुधां
ददाति
॥ ७ ॥
8
▾
Meaning
Keep
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब
भवत्कटाक्षैः
।
आलोकय
त्रिपुरसुन्दरि
मामनाथं
त्वय्येव
भक्तिभरितं
त्वयि
बद्धतृष्णम्
॥ ८ ॥
9
▾
Meaning
Keep
हन्तेतरेष्वपि
मनांसि
निधाय
चान्ये
भक्तिं
वहन्ति
किल
पामरदैवतेषु
।
त्वामेव
देवि
मनसा
समनुस्मरामि
त्वामेव
नौमि
शरणं
जननि
त्वमेव
॥ ९ ॥
10
▾
Meaning
Keep
लक्ष्येषु
सत्स्वपि
कटाक्षनिरीक्षणाना-
मालोकय
त्रिपुरसुन्दरि
मां
कदाचित्
।
नूनं
मया
तु
सदृशः
करुणैकपात्रं
जातो
जनिष्यति
जनो
न
च
जायते
वा
॥ १० ॥
11
▾
Meaning
Keep
ह्रींह्रीमिति
प्रतिदिनं
जपतां
तवाख्यां
किं
नाम
दुर्लभमिह
त्रिपुराधिवासे
।
मालाकिरीटमदवारणमाननीया
तान्सेवते
वसुमती
स्वयमेव
लक्ष्मीः
॥ ११ ॥
12
▾
Meaning
Keep
संपत्कराणि
सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि
सरोरुहाक्षि
।
त्वद्वन्दनानि
दुरिताहरणोद्यतानि
मामेव
मातरनिशं
कलयन्तु
नान्यम्
॥ १२ ॥
13
▾
Meaning
Keep
कल्पोपसंहृतिषु कल्पित
ताण्डवस्य
देवस्य
खण्डपरशोः
पर
भैरवस्य
।
पाशाङ्कुशैक्षवशरासनपुष्प
बाणा
सा
साक्षिणी
विजयते
तव
मूर्तिरेका ॥ १३ ॥
14
▾
Meaning
Keep
लग्नं
सदा
भवतु
मातरिदं
तवार्धं
तेजः
परं
बहुलकुङ्कुमपङ्कशोणम्
।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये
त्रिकोणनिलयं
परमामृतार्द्रम्
॥ १४ ॥
15
▾
Meaning
Keep
ह्रींकारमेव
तव
नाम
तदेव
रूपं
त्वन्नाम
दुर्लभमिह
त्रिपुरे
गृणन्ति
।
त्वत्तेजसा
परिणतं
वियदादिभूतं
सौख्यं
तनोति
सरसीरुहसंभवादेः
॥ १५ ॥
16
▾
Meaning
Keep
ह्रींकारत्रयसंपुटेन
महता
मन्त्रेण
संदीपितं
स्तोत्रं
यः
प्रतिवासरं
तव
पुरो
मातर्जपेन्मन्त्रवित्
।
तस्य
क्षोणिभुजो
भवन्ति
वशगा
लक्ष्मीश्चिरस्थायिनी
वाणी
निर्मलसूक्तिभारभरिता
जागर्ति
दीर्घं
वयः
॥ १६ ॥