p. 180
ब्रह्मरूपलक्षणवतीत्यर्थः ।'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इति श्रुते 'आनन्दादयः प्रधानस्य' इति न्यायाच्च दीप्तिस्वरूपप्रकाशात्मकपरमानन्दस्वरूपस्य जीवन्मुक्त्यवस्थायां परमात्मज्ञानवत् पुरुषानुभवरूपप्रत्यक्षप्रमाणगोचरत्वमस्या इति वा तथा ।अथवा, एकेषाम् आनुभाविकानां योगिनामानन्दसाक्षात्काररूपा आकृतिः निरावरणप्रकाशरूपा यस्याः सा तथा ।अथवा, आनन्दः शिवा,चित् परमेश्वरः, एके मूर्तिभेदरहिते आनन्दचितो आकृतिर्यस्याः सा तथा ॥ॐ एकानन्दचिदाकृतये नमः ॥एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।एकाग्रचित्तनिर्ध्याता चैषणारहिताहता ॥ ६ ॥एवमित्यागमाबोध्या ।ननु आनन्दशब्दस्य लक्षणया आनन्दमयो वाच्यः ।“य एको जालवानीशत ईशनीभिः इति श्रुत्युक्तैकत्वमपि जीवे सिध्यति ।तथा च एकश्चासावानन्दश्च तस्य चित् अधिष्ठानप्रकाशकचैतन्यमाकृतिः यस्याः सेति विग्रहः संभवति ।'ब्रह्म पुच्छ प्रतिष्ठा' इति तत्प्रकाशकचैतन्यस्य पुच्छशब्देन परामर्शात् ।एवं च सति प्रकाशकनित्यत्वस्य प्रकाश्यनित्यत्वापेक्षत्वात् ।‘सत्यं ज्ञानम-
In plain words
She is realized through the sacred wisdom of the scriptures and adored by those whose devotion is undivided. She is contemplated in the stillness of a focused mind, and met by those who have let go of all worldly desires.
Close to the Sanskrit
Thus She is to be known through the scriptures, and is worshipped by those who possess single-minded devotion. She is meditated upon with a single-pointed mind, and is attained by those who are free from all desires.