Contents
Śaṅkara Anubhavālaya
The works of Ādi Śaṅkarācārya
Realm
Read
Kept
Search
Settings
←
Leave
Lalitātriśatībhāṣyam
Tap a verse for its meaning
Devanāgarī
Pronunciation
Meaning
Verse by verse
Continuous
p. 161
॥ श्री ॥ ॥
ललितात्रिशतीभाष्यम् ॥
वन्दे विघ्नेश्वरं देवं सर्वसिद्धिप्रदायिनम् ।
वामाङ्कारूढवामाक्षीकरपल्लवपूजितम् ॥ १ ॥
पाशाङ्कुशेक्षुसुमराजितपञ्चशाखां
पाटल्यशालिसुषुमाञ्चितगात्रवल्लीम्
प्राचीनवाक्स्तुतपदां परदेवतां त्वां
पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥ २ ॥
लोपामुद्रापतिं नत्वा हयग्रीवमपीश्वरम् ।
श्रीविद्याराजसंसिद्धिकारिपंकजवीक्षणम् ॥ ३ ॥
विस्तारिता बहुविधा बहुभिः कृता च
टीकां विलोकयितुमक्षमता जनानाम् ।
तत्रत्यसर्वपदयोगविवेकभानुं
तुष्ट्यै करामि ललितापदभक्तियोगात् ॥ ४ ॥
p. 162
अगस्त्य उवाच-
हयग्रीव दयासिन्धो भगवन् शिष्यवत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ १ ॥
रहस्यनामसाहस्रमपि त्वत्तः श्रुतं मया ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २ ॥
तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३ ॥
किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥ ४ ॥
सूत उवाच-
समाललम्बे तत्पादयुगलं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ ५ ॥
मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ ॥ ६ ॥
तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।
p. 163
प्रणम्य विप्रं स मुनिस्तत्पादावत्यजन्नस्थितः ॥ ७ ॥
वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ ।
तच्छृण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥
ततः श्रीललितादेवी कामेश्वरसमन्विता ।
प्रादुर्भूय हयग्रीवं रहस्येवमचोदयत् ॥ ९ ॥
श्रीदेव्युवाच—
अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १० ॥
स्वमातृजारवद्गोप्या विद्येत्यागमा जगुः ।
ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥ ११ ॥
मया कामेश्वरेणापि कृता संगोपिता भृशम् ।
मदाज्ञया वचो देव्यश्चक्रुर्नामसहस्रकम् ॥ १२ ॥
आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३ ॥
सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया ।
p. 164
तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४ ॥
पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५ ॥
अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥ १६ ॥
चित्तपर्याप्तिरेतस्य नान्यथा संभविष्यति ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७ ॥
सूत उवाच-
इत्युक्त्वान्तरधादम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसभवम् ॥ १८ ॥
संस्थाप्य निकटे वाचमुवाच भृशविस्मितः ।
हयग्रीव उवाच--
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ १९ ॥
त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्रये ।
येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥ २० ॥
p. 165
सच्छिष्येण त्वया चाहं द्रष्टवानस्मि तां शिवाम् ।
यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१ ॥
अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् ।
यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२ ॥
रहस्यनामसाहस्रादपि गुह्यतमं मुने ।
आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥ २३ ॥
तदहं संप्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णक्रमान्मुने ॥ २४ ॥
पृथग्विंशतिनामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसंपूर्तिकारिणी ॥ २५ ॥
रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः ।
तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६ ॥
केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज ।
मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥ २७ ॥
p. 166
तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
सूत उवाच-
इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८ ॥
बहुकालं सुभक्तिमहिम्ना गुरुपादाम्बुजमवलम्ब्य स्थिताय
कुम्भयोनिमुनये शिवदम्पतिकृतनामशतत्रयोक्त्या प्रेरितो हय-
ग्रीव उवाच-
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥
ककाररूपेति ।
ककारः कवर्णः रूपं ज्ञापकविशेषणं
यस्याः सा, कादिविद्याविग्रहेत्यर्थः ।
अथवा ककारः रूप
वाचकं येषां ते ककाररूपाः हिरण्यगर्भः उदकम् उत्तमाङ्गं
सुखादयश्च ।
हिरण्यगर्भनिष्ठजगद्धारकजगकर्तृत्वादिगुण-
वत्त्वं ककारस्य व्यञ्जनादिमवर्णत्वेन वर्तत इति तद्वाच्य-
तया तथा ।
उदकनिष्ठमन्नादिद्वारा जगत्सञ्जीवनहेतुत्वमपि
ककारस्य विद्याग्रिमवर्णतयास्तीति तद्रूपा वा ।
सर्वेषां
प्राणिनां शिरस्यमृतमस्तीति योगमार्गेण कुण्डलिनीगमने
तत्रत्यतत्प्रवाहाप्लुतयोगिनामीश्वरसाम्यं जायत इति योगशा-
स्त्रेषु प्रसिद्धम् ।
तद्वत् कवर्णः मन्त्रादिमभागस्थः तत्पु-
p. 167
रश्चर्यापरायणानां शिवभावमेव यच्छतीति वा तद्रूपेत्यर्थः ।
'कं ब्रह्म खं ब्रह्म' इति श्रुतेः ।
दहराकाशस्य सुखस्वरूपत्वेन परमप्रेमास्पदतया अभिलाषविषयत्ववत् ककारोऽप्यतिप्रीतिविषयमूलमन्त्रादिमाक्षरतया अभ्यर्हितत्वाद्वा तद्रूपेत्यर्थः ॥
ॐ ककाररूपायै नमः ॥
कल्याणी |
कल्याणानि सुखानि ।
युवसार्वभौमानन्दादारभ्य ब्रह्मानन्दपर्यन्तं तैत्तिरीयकादौ प्रतिपादितानि ।
तत्तदुपाधिभेदेष्ववच्छिन्नस्वरूपतया तानि कल्याणशब्दवाच्यानि, 'एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः ।
समष्टिव्यष्टिवत्त्वमुपहितस्वरूपेण सम्भवतीति मतुप्समासोपपत्तिः ।
तथा च राहोः शिर इतिवत् समासान्तर्गतषष्ठ्यर्थभेदस्याविवक्षिततया आनन्दैकविग्रहवतीत्यर्थः, 'विज्ञानमानन्दं ब्रह्म' इति श्रुत्युक्तब्रह्मस्वरूपलक्षणवतीत्यर्थः ॥
ॐ कल्याण्यै नमः ॥
कल्याणगुणशालिनी ।
कल्याणाः सुखकर्तारः ये गुणाः सत्यकामसत्यसंकल्पसर्वाधिपत्यसर्वेशानत्ववामनीत्वसंयद्वामत्वादयः, ते अस्याः शालयन्त इति, तथा एनां शोभयन्तीति वा, तैः शाल्यत इति वा कल्याणगुणशालिनी ।
तथा च कल्याणाश्च ते गुणाश्च कल्याणगुणाः शालयन्त्येनामिति
p. 168
कल्याणगुणशालिनी; अस्मिन् समासे देवतायाः पराधीनगुणवत्त्वं स्वतः शुद्धचैतन्यत्वं च स्फुरितम् ।
कल्याणगुणैः शाल्यत इत्यत्र गुणवत्त्वमात्रं देवतायाः द्योत्यते ।
तच्चौपाधिकत्वं वैदिकमपि स्तुतौ तदप्रकटने न दोषाय ।
यदि गुणानामारोपितत्वेन तत्संकीर्तनस्य भेदबुद्धिसमये तत्कृपाप्राप्तिहेतुत्वेनावश्यकत्वम्, तथापि तदपवादपुरःसरं शुद्धचैतन्याभेदध्यानरूपमुख्यभजनं मुख्यमेवेति संपादयितुं स्वगुरूपदिष्टमार्गेण सुकरमेवेति नातिविस्तार्यते ॥
ॐ कल्याणगुणशालिन्यै नमः ॥
कल्याणशैलनिलया ।
शिलानां विकारः शैलः शिलाघन इत्यर्थः; कल्याणं सुखमेव शैलः घनीभूत इत्यर्थः; तस्मिन् कल्याणशैले स्वस्वरूप आनन्दघने निल्यति तिष्ठतीति कल्याणशैलनिलया, ‘स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति होवाच’ इति श्रुतेः, देवदत्तः स्वस्मिन्नेव स्वयं वर्तते इति लौकिकप्रयोगाच्च, देवतायाः स्वस्वरूपे स्वावस्थानं युज्यत इति ।
कल्याणमेव शैलवत् घनीभूतं कल्याणशैलः आनन्दमयकोशः कल्याणशैलो निलयः यस्याः सा इति बहुव्रीहिसमासः न विरुद्धः, ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति उक्तश्रुतिप्रामाण्यात् ।
अथवा कल्याणशैलः महामेरुः निलयं गृहं
p. 169
यस्याः सा तथा, सुमेरुमध्यशृङ्गस्थेत्यर्थः ॥
ॐ कल्याणशैलनिलयायै नमः ॥
कमनीया ।
परमानन्दस्वरूपत्वेन परमप्रेमास्पदा, कोह्येवान्यात्कः प्राण्यात् ।
यदेष आकाश आनन्दो न स्यात्' इति श्रुतेः ।
सुखस्य मनोहरत्वेन सर्वेप्साविषयत्ववत् मायावृतानां सुखप्रापकत्वेन स्वस्वेष्टदेवतासु प्रीत्यतिशयेन तत्पूजादौ प्रवर्ततां तत्फलदानेन मनोहरत्वाद्वा कमनीया ।
ज्ञानिनामानन्दघनीभावात्मकसुन्दरमूर्तिमत्तया वा कमनीया ॥
ॐ कमनीयायै नमः ॥
कलावती ।
कलाः शिरःपाण्याद्यवयवाः, चतुःषष्टिकलाः
विद्यारूपा वा, चन्द्रकला वा, भक्तध्यानाय अस्याः सन्तीति कलावती ॥
ॐ कलावत्यै नमः ॥
कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २ ॥
कमलाक्षी ।
कमले इव अक्षिणी यस्याः सा तथा कमलायाः लक्ष्म्याः अक्षिशब्देन तन्निमित्तकं ज्ञानं लक्ष्न्यते
विषयतासंबन्धेन तद्वतीति वा ।
कमलायाः ऐहिकामुष्मिकश्रियः हेतुभूते अक्षिणी यस्याः सा- इति स्वकीयेक्षणमा-
p. 170
त्रेण महदैश्वर्यप्रापिकेति भावः ॥
ॐ कमलाक्ष्यै नमः ॥
कल्मषघ्नी ।
कल्मषाणि पापानि हन्ति नाशयतीति क-
ल्मषघ्नी, 'अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि' इति भगवद्वचनात् ।
अथवा वेदान्तमहावाक्यजन्यसाक्षात्काररूपब्रह्मविद्या ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति
स्मृतेः, 'न स पापँ श्लोकँ शृणोति' इति श्रुतेश्च ॥
ॐ कल्मषघ्न्यै नमः ॥
करुणामृतसागरा ।
करुणया कृपया जातं यदमृतं मोक्षरूपं
तस्य सागर इव सागरा ।
यथा अमृतसमुद्रः स्वयममृतस्वरूपः
सन् अन्यानपि लोकान् अमृतपायिमेघाद्विमुक्तामृतेन संजी-
वयति, तथा 'ब्रह्म वेद ब्रह्मैव भवति' 'ब्रह्मविदाप्नोति परम्'
इत्यादिश्रुत्या स्वयममृतस्वरूपा सती ।
'लभते च ततः
कामान्मयैव विहितान्हितान्' इति भगवद्वचनेन तत्तदधिकारिकृतकर्मोपासनादिफलस्य देवताप्रापणीयस्य संप्राप्तौ तत्तदधिकारिणा तत्तत्फलं स्थितमिति संभाव्यत इति सागरोपमा ।
अमृतवत्सर्वसंजीवनी करुणामृतस्य अभिन्नाश्रयत्वात् सागरा, करुणा च भक्तविषयकपरिपाल्यताबुद्धिः ।
यद्वा,
करुणया कृपया अमृताः शाश्वतकीर्तिमत्वेन ब्रह्मादिलोक गताः सागराः सगरराजवश्याः यस्याः
सा तथा, यद्वा,
p. 171
करुणया दयया हेतुना अमृताय प्राप्तः सागरः समुद्रो यया
सा भागीरथी, करुणामृतसागरा ॥
ॐ करुणामृतसागरायै नमः ॥
कदम्बकाननावासा ।
कदम्बनामककल्पवृक्षयुक्तं यत्काननं वनं तत्रावासो गृहं यस्याः सा तथा ॥
ॐकदम्बकाननावासायै नमः ॥
कदम्बकुसुमप्रिया ।
कदम्बानां कुसुमानि कदम्बकुसुमानि
तेषु प्रिया प्रीतिमतीति यावत् ।
यद्यपि प्रियशब्दः प्रीतिविषयवाचकः, तथापि कुसुमजन्यप्रीतेरभावेन तद्विषयतायाः वक्तुमशक्यत्वात् तथोक्तम ॥
ॐ कदम्बकुसुमप्रियायै नमः ॥
कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥
कन्दर्प विद्या ।
कन्दर्पस्य विद्या तन्निष्ठप्रत्यग्ब्रह्मैक्यज्ञानमित्यर्थः ।
अथवा विद्याप्रापकत्वात्तदृष्टमूलमन्त्रवर्णसमुदायो विद्येत्युच्यते वेदवाक्येषु उपनिषत्पदवत् ।
तद्वाच्यार्थत्वात् तथा देवी सूच्यते ॥
ॐ कन्दर्पविद्यायै नमः ॥
कन्दर्पजनकापाङ्गवीक्षणा ।
अपाङ्गाभ्यां वीक्षणमपाङ्गवीक्षणम्,
ईषद्दर्शनमिति यावत् ।
कन्दर्पस्य जनकं अपाङ्ग
p. 172
वीक्षणं यस्याः सा ।
अनेन नाम्ना येषां जडानामपि कुरूपिणां जनानाम् उपरि सकृदीषद्वीक्षणमभिजायते, ते कन्दर्पवद्रूपयौवनसामर्थ्यलक्ष्मीभाजो भवन्तीति ध्वनितम् ।
यद्वा कन्दर्पस्य जनकः श्रीनारायणः सः यस्याः अपाङ्गवीक्षणे ईषद्भृवल्लिचलने वर्तते, यस्याः आज्ञामात्रवश्यतया महाविष्णुः जगद्रक्षादिकार्यं करोतीति सा तथा इति ।
अथवा, कन्दर्पजनका महालक्ष्मीः यस्याः अपाङ्गवीक्षणे प्रेर्यतया वर्तते सा तथा ।
कन्दर्पस्य मन्मथस्य जनकाः उत्पादकाः स्रक्चन्दनादिभोग्यविषयाः ते यस्याः अपाङ्गवीक्षणात् भवन्ति सा तथा ।
अथवा, चन्द्रस्य वामनेत्रतया अपाङ्गवीक्षणं चन्द्रिकोच्यते ।
कन्दर्पजनकं अपाङ्गवीक्षणं यस्याः सा तथा ।
कन्दर्पजनकाशब्देन लक्ष्मीनिवासकमलं लक्ष्यते, तद्वत् अपाङ्गं कमलाक्षीत्यर्थः तन्निरूपितवीक्षणं लोकसंजीवनं यस्याः सा तथा ॥
ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः ॥
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ।
कर्पूरयुक्ताश्च ताः वीटयश्च ताम्बूलकबलानि तासां सौरभ्यं सौगन्ध्यं तैः
कल्लोलितानि असकृत्परिमलितानि ककुभां दिशां तटानि प्रदेशाः यस्याः सा ।
मुखवासितपरिमलेन जगन्मात्रं सुर-
p. 173
भीकृतमिति स्वरूपातिशयोक्तिः अस्मिन्नाम्नि व्यज्यते, महाराजभोगवतीत्यर्थः ।
ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः ॥
कलिदोषहरा कंजलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥
कलिदोषहरा ।
कलेः निन्द्याः जायमानानां पुरुषाणां जन्ममात्रेण ये दोषाः पापानि आयान्ति, तान् दृष्टा श्रुता कीर्तिता संस्तुता पूजिता ध्याता सती हरतीति तथा ।
कलेः अन्योन्यवादिनां कलहात्तत्तन्मताभिनिवेशवशाज्जायमाना ये दोषाः परब्रह्मविषये अस्तित्वनास्तित्वदेहादिव्यतिरिक्तत्वभिन्नत्वाभिन्नत्व-गुणित्वादिसाधकयुक्त्याभासतदनुगुणसंमत्याभा
सश्रुतितात्पर्यविघटनान्यथाकरणदुराग्रहजन्यकामकोधपरुष
परवशक्रियमाणनिन्दासहनादिरूपा बहुविधा दोषाः, तानद्वैतब्रह्मज्ञानसाधनमुक्तिरूपेण हरतीति कलिदोषहरा ॥
ॐ कलिदोषहरायै नमः ॥
कंजलोचना ।
केभ्यः जायन्त इति कजानि, कंजशब्देन अरविन्दनीलोत्पलानि लक्ष्यन्ते तल्लाेचने यस्याः सा तथा ।
अथवा कंज ब्रह्माण्डम् ।
'अयं पूर्वमपः सृष्ट्वा तासु वीर्यम
p. 174
पासृजत् तदण्डमभवद्धैमम्' इति वचनात् कंजानि अनेककोटिब्रह्माण्डानि लोचनयोः लोचनकृतवीक्षणात् यस्याः
सा तथा, 'सेयं देवतैक्षत' इति श्रुतेः ॥
ॐ कंजलोचनायै नमः ॥
कम्रविग्रहा ।
कम्रः अतिमनोज्ञः, गाम्भीर्यधैर्यमाधुर्यादिबहुगुणोदितत्वात्, विग्रहः मूर्तिः यस्याः सा तथा, 'आनन्दरूपममृतं यद्विभाति' इति श्रुतेः ।
आनन्दस्वरूपत्वाद्वा कम्रविग्रहा, ललितारूपेत्यर्थ ॥
ॐ कम्रविग्रहायै नमः ॥
कर्मादिसाक्षिणी ।
कर्म आदिर्येषां तानि कर्मादीनि उपासनायोगश्रवणमनननिदिध्यासनानि ।
तेषां साक्षिणी असंबन्धी द्रष्ट्री, 'साक्षी चेता' इति श्रुतेः ।
अथवा कर्मादयः साक्षिभूताः जीवनिष्ठाः तदनाश्रयतया आत्मदर्शनसाधनानि सृज्यमानजगदुपादानभूतानि यस्याः सा तथा ॥
ॐ कर्मादिसाक्षिण्यै नमः ॥
कारयित्री कारयितृत्वं नाम कुर्वियाज्ञापयितृत्वं यमानकार्यगोचरकृत्युत्पत्तिहेतुकर्मोद्बोधकस्वरूपलिङ्लोट्तव्य
प्रत्ययानां धर्मः विधिनिष्ठभावनेत्युच्यते ।
तेषां शब्दात्मकतया जडानां तथात्वासभवात्तदधिष्ठानचैतन्यरूपतया
p. 175
सर्वे वेदा यत्रैकं भवन्ति' इति श्रुत्या वेदस्यात्माभेदेन स्वप्रकाशकतया अर्थप्रकाशनद्वारा प्रामाण्यविधीनामपि
वेदैकदेशतया प्रेरणरूपत्वात् सदधिष्ठानचैतन्यात्मना कारयतीति तथा, 'एष ह्येव साधु कर्म कारयति' इति श्रुतेः ॥
ॐ कारयित्र्यै नमः ॥
कर्मफलप्रदा ।
कृतानां कर्मणां कालान्तरभाविफलप्रदाने अदृष्टं कारणमित्यनीश्वरमीमांसकादिमतम्, तन्न ।
जडानां सूक्ष्माणामदृष्टानां चेतनधर्मकर्मफलप्रदानसामर्थ्यायोगात् कृतानां कर्मणां फलावश्यंभावे 'कर्माध्यक्षः' इति श्रुतेः, 'मयैव विहितान्हितान्' इति स्मृतेश्च, 'फलमत उपपत्तेः ' इति न्यायाच्च परदेवता कर्मफलप्रदा ॥
ॐ कर्मफलप्रदायैः नमः ॥
एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥
एकरूपा ।
एकारः रूपं मन्त्रद्वितीयावयवसंज्ञापकं यस्याः सा तथा ॥
ॐ एकाररूपायै नमः ॥
एकाक्षरी ।
एकं मुख्यम् ईश्वरोपाधित्वेन ।
न क्षरति आत्मज्ञानेन विनामुक्तेः न नश्यतीति अक्षरं कूटस्थशब्दवाच्यं
p. 176
माया ।
तत्प्रतिबिम्बनिष्ठसर्वज्ञत्वाद्याधायकविशेषणत्वेन अस्या अस्तीति एकाक्षरी ।
एकम् अक्षरं सर्वप्रकृतित्वात्परापरब्रह्मप्रतीकतया तदुपासनया तदुभयप्राप्तिसाधनत्वेन शब्दब्रह्मरूपलक्षितलक्षकशब्दः प्रणवः अस्या अस्तीति वा ।
एकः अखण्डैकचैतन्यरूपः अक्षरः अनश्वरः अविनाशी परमेश्वरः अर्धशरीरत्वेन अस्यामस्तीति वा ।
एकान्यक्षराणि मायाबीजादीनि सदुपासनाप्रतीकत्वेन अस्याः सन्तीति वा ।
'अथ परा यया तदक्षरमधिगम्यते' इति श्रुतेः अखण्डाकारवृत्तिप्रतिफलनयोग्यचैतन्यरूपतया तद्वृत्तिव्याप्तिमात्रेण अक्षरपदलक्ष्यचैतन्यं विषयतासबन्धेन अस्या अस्तीति एकाक्षरी ।
चकारः निर्गुणब्रह्मणोऽपि सगुणब्रह्मविशेषणसद्भावसमुच्चयपरः सर्वत्रापि द्रष्टव्यः ।
'सच्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति वचनेन, 'स्त्रीरूपा चिन्तयेद्देवीं पुंरूपामथवेश्वरीम् ।
अथवा निष्कलं ध्यायेत्सञ्चिदानन्दविग्रहाम्' इति स्मृत्या च, त्वं स्त्री त्वं पुमान्' इति श्वेताश्वतरोपनिषदि उपाधिकृतनानारूपसंभवोक्तेश्च ।
अत एव 'सेयं देवतैक्षत' इत्यादौ तत्सत्यं स आत्मा' इत्यन्ते च श्रुतौ स्त्रीलिङ्गान्तदेवतादिपदानां तत्सत्यमिति नपुंसकान्तस्य स आत्मेति पुंलिङ्गात्मशब्दस्य एकार्थत्वम् अविवक्षि-
p. 177
तोपाधिमत्तया तत्त्वंपदलक्ष्यार्थस्यैकत्वात् ।
तस्मात् तत्त्वंपदलक्ष्यार्थे सर्वेऽपि गुणा वर्णियितुं संभवन्तीति हयग्रीवेण अस्यां त्रिशत्या बहवः चकाराः उपात्ताः ।
तेन वयं सर्वेषां सर्वत्र न पार्थक्येन प्रयोजनान्तरं पश्यामः ॥
ॐ एकाक्षर्यै नमः ॥
एकानेकाक्षराकृतिः ।
एकम् ईश्वरप्रतिबिम्बोपाधितया शुद्धसत्त्वप्रधानम् अक्षरमज्ञानम् ।
अनेकानि मलिनसत्त्वप्रधानतया जीवोपाधिभूतान्यक्षराणि अज्ञानानि, 'माया चाविद्या च स्वयमेव भवति' इति श्रुतेः ।
एकं चानेकानि च एकानेकानि तानि च अक्षराणि च तानि तथा 'माया तु प्रकृतिम्' इति श्रुतेः ।
तेष्वाकृतयः प्रतिबिम्बान्यवन्छिन्नानि वा चैतन्यानि घटस्थोदकावच्छिन्नप्रतिबिम्बिताकाशवद्यस्याः सा तथा ।
अथवा एकानि च प्रणवाद्यानि अनेकानि च अकारादिक्षकारान्तानि अक्षराणि वर्णाः आकृतिः स्वरूपं यस्याः सा, मातृकास्वरूपत्वेन वा ।
'अकारादिक्षकारान्ता मातृकेत्यभिधीयते' इति वचनात् ।
अथवा एच कश्च एकारककारौ तौ चेतराण्यनेकाक्षराणि च सर्वं मिलित्वा पञ्चदशवर्णात्मिका मूलविद्या आकृतिः स्वरूपं यस्याः सा ।
साक्षितया एकीभूता अनेकाक्षरेषु अनेकाज्ञानेषु आकृतिः स्वरूपं
p. 178
शोधिततत्त्वंपदार्थसामरस्यात्मकं यस्याः सा तथा ॥
ॐ एकानेकाक्षराकृतये नमः ॥
एतत्तदित्यनिर्देश्या ।
एतत् एतत्कालेऽपि इयत्तापरिच्छेदवद्वस्तु तत् परोक्षमनिश्चितस्वरूपम् ।
एतच्च तच्च एतत्तत् ।
इतिकारः इत्थंभावे तृतीयार्थे ।
तथा च एतत्त्वतत्त्वाभ्यामित्यर्थः ।
एतत्तदित्यनेन निर्देष्टुं निर्वक्तुं योग्या निर्देश्या सा न भवतीति अनिर्देश्या ।
लोके सविशेषो हि पदार्थः परोक्षत्वापरोक्षत्वादिधर्मविशेषेण तद्गतेन निर्वक्तुं शक्यः शब्दप्रवृत्तिनिमित्तजातिगुणक्रियाषष्ठ्यर्थानां यत्र सबन्धो नास्ति, 'अशब्दमस्पर्शमरूपमव्ययम्', 'निर्गुणं निष्कलम्' इत्यादिश्रुत्या, तादृग्वस्तु केन करणेन केन वा वचनेन निर्देष्टुं शक्यम् ।
'यद्वाचानभ्युदितम्' इति श्रुतेः ।
अतः एतत्तदित्यनिर्देश्या वाङ्मनसातीतेत्यर्थः ।
अथवा, एतत् प्रत्यक्षादिप्रमाणसिद्धं कार्यं पश्चाद्भावि ।
तत् परोक्षत्वादिविशिष्टं पूर्वकालसबन्धि व्यवहित कारणमुच्यते ।
इतिशब्द उभयत्र संबन्धनीयः ।
कार्यमिति कारणमित्यपि शुद्धचैतन्यरूपा अनिर्देश्या, कार्यत्वकारणत्वघटकोपाधिविरहितत्वेन कार्यकारणभावाभावे तद्वाचकशब्दैर्विषयीकर्तुमशक्यत्वात् ।
अथवा, एतत् अपरोक्षतया अहमिति प्रती-
p. 179
यमानं जीवचैतन्यं त्वंपदवाच्यार्थः ।
तत् परोक्षतया प्रतीयमानमीश्वरचैतन्यं तत्पदवाच्यार्थः ।
इतिशब्दः एवकारार्थः ।
तथा च वादिभेदसिद्धान्तः अनूदितः ।
सांख्यमते प्रकृतिर्जगत्कर्त्री, जीवो नानाचेतनः भोक्ता इत्यतः ईश्वर एव नास्तीत्यङ्गीकृतम् ।
भागवतमते तु 'गुणी सर्ववित्' इति श्रुतेः नित्यगुणविशिष्टात् परमेश्वराविष्णोर्जीवानामुत्पत्तिविनाशवत्त्वेन अनित्यत्वात् स एव भगवान् पारमार्थिकः एक इत्यङ्गीकृतम् ।
तदुभयवादिसिद्धान्तस्य औपनिषदमते निरस्तत्वात् तदुभयविधया अनिर्देश्या ।
परमार्थसच्चिदानन्दरूपतया छान्दाेग्यगतदेवताशब्दार्थस्य प्रतिपादनादिति भावः अथवा, तटस्थेश्वरवादिकाणादादिसिद्धान्तवत् व्यवस्थितभेदवज्जीवेश्वररूपतया अनिर्देश्या ।
भेदव्यवस्थाया एष साधितुमशक्यत्वादिति एतत्तदित्यनिर्देश्या ॥
ॐ एतत्तदित्यनिर्देश्यायै नमः ॥
एकानन्दचिदाकृतिः ।
एका मुख्या मोक्षरूपत्वेन प्रापित्सिता ।
आनन्दः सुखम् ।
चित् चैतन्यं प्रकाशज्ञानम् ।
आनन्दश्चासौ चिच्च आनन्दचित् एका चासावानन्दचिच्च एकानन्दचित् आकृतिः स्वरूपं यस्याः सा ।
सच्चिदानन्द-
p. 180
ब्रह्मरूपलक्षणवतीत्यर्थः ।
'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इति श्रुते 'आनन्दादयः प्रधानस्य' इति न्यायाच्च दीप्तिस्वरूपप्रकाशात्मकपरमानन्दस्वरूपस्य जीवन्मुक्त्यवस्थायां परमात्मज्ञानवत् पुरुषानुभवरूपप्रत्यक्षप्रमाणगोचरत्वमस्या इति वा तथा ।
अथवा, एकेषाम् आनुभाविकानां योगिनामानन्दसाक्षात्काररूपा आकृतिः निरावरणप्रकाशरूपा यस्याः सा तथा ।
अथवा, आनन्दः शिवा,
चित् परमेश्वरः, एके मूर्तिभेदरहिते आनन्दचितो आकृतिर्यस्याः सा तथा ॥
ॐ एकानन्दचिदाकृतये नमः ॥
एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणारहिताहता ॥ ६ ॥
एवमित्यागमाबोध्या ।
ननु आनन्दशब्दस्य लक्षणया आनन्दमयो वाच्यः ।
“य एको जालवानीशत ईशनीभिः इति श्रुत्युक्तैकत्वमपि जीवे सिध्यति ।
तथा च एकश्चासावानन्दश्च तस्य चित् अधिष्ठानप्रकाशकचैतन्यमाकृतिः यस्याः सेति विग्रहः संभवति ।
'ब्रह्म पुच्छ प्रतिष्ठा' इति तत्प्रकाशकचैतन्यस्य पुच्छशब्देन परामर्शात् ।
एवं च सति प्रकाशकनित्यत्वस्य प्रकाश्यनित्यत्वापेक्षत्वात् ।
‘सत्यं ज्ञानम-
p. 181
नन्तं ब्रह्म' इत्यादिब्रह्मस्वरूपलक्षणवाक्येषु वाच्यार्थप्राधान्येन विधिमुखेनैव ब्रह्मप्रतिपादने अतद्व्यावृतिरूपनिषेधमुखेन लक्षणार्थप्राधान्येन ब्रह्मस्वरूपलक्षणप्रतिपादनायोगेन तत्त्वमसिवाक्ये वैशिष्ट्यं वाक्यार्थः संभवतीति चेत्, नेत्याह-एवमित्यागमाबोध्येति ।
एवं विशिष्टतया- इति प्रत्यक्षसिद्धत्वेन आगमैर्वेदैः ज्ञापनीया न भवति ।
आनन्दशब्दस्यानन्दमात्रवाचकस्य तत्प्रचुरे सभावितेषद्दुःखे जीवे लक्षणायां त्रयो दोषाः ।
पारमार्थिकभिन्नसत्ताकवस्त्वन्तराभावेन तत्त्वपदवाच्यार्थनिष्ठविशेषणद्वयस्य अन्योन्यविरोधवत्तया तमःप्रकाशवद्वैशिष्ट्यायोगे अखण्डार्थों वाक्यार्थः संपद्यते ।
तथा च स्वरूपलक्षणवाक्येषु वाच्यार्थस्य 'अतोऽन्यदार्तत्' इति श्रुत्या मिथ्यात्वप्रतिपादनात् निषेधमुखेनैव अतद्व्यावृत्तिस्वरूपप्रतिपादनेन लक्षणवाक्यानि समञ्जसानि भवन्तीति भावः ॥
ॐ एवमित्यागमाबोध्यायै नमः ॥
एकभक्तिमदर्चिता ।
एकस्मिन्नभेदे जीवब्रह्मणोः भक्तिः भजनीयत्वबुद्धि तत्परिजिज्ञासा येषां अस्ति, तैरर्चिता पूजिता इत्येतदुपलक्षणं स्तुता ध्याता नमस्कृतेत्येवमादीनाम्, 'यन्मनसा ध्यायति तद्वाचा वदति तत्कर्मणा कराति
p. 182
इति श्रुतेः मानसिकव्यापारपूर्वकानि हि इतरेन्द्रियकर्माणि भवन्तीत्यभिप्रायः ।
अथवा, अस्मिन् संसारमण्डले
तत्स्वरूपपरिज्ञातारः ये केचन, तेषां भजनीयत्वाध्यवसायो भक्तिः तदेकप्रवणता सगुणब्रह्मविषया अष्टविधा, तैरेकभक्तिमद्भिरर्चिता अन्तर्यागबहिर्यागमहायागप्रकारैः पूजिता इत्यर्थः ॥
ॐ एकभक्तिमदर्चितायै नमः ॥
एकाग्रचित्तनिर्ध्याता ।
एकम् ऐक्यरूपम् अग्रम् आलम्बनं विषयः विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयवृत्तिकाभिः निरन्तरव्याप्तिविषयीकृतचैतन्यं यस्य तत्तादृशं चित्तमन्तःकरणं येषां तैः ।
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधीनां परिपाकातिशयेन पश्चात्संपद्यमानासंप्रज्ञातसमाधेः त्रिविधा भूमिका- ऋतंभरा, प्रज्ञालोका, प्रशान्तवाहिता चेति ।
ऋतं यथाभूतं सच्चिदानन्दलक्षणं ब्रह्म भरति वृत्तिव्याप्त्या विषयीकरोतीति प्रथमा तथा, आत्मन्येव वशं नयेत्' इति भगवद्वचनात् ।
प्रज्ञालोका ।
प्रज्ञायाम् अखण्डाकारवृत्तौ नित्यनिरन्तराभ्यासेन परिपाकं नीतायां ब्रह्मविषयिण्याम् आवरणाभिभवं कुर्वन्त्यां सत्याम्, 'प्रज्ञा प्रतिष्ठा' इत्यादिश्रुतेः, प्रज्ञायाः आलोकः अभिव्यक्तिः साक्षात्कारः यस्यां सम्पद्यते सा का-
p. 183
रणविज्ञानम् ।
यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीत्येकविज्ञानेन सर्वविज्ञानरूपम् ।
प्रारब्धवशात्तदा चित्तं तदध्यस्तं सर्वजगद्रष्टुमिच्छति यदि, तदानीं चैतन्यप्रकाशेनैव प्रकाशितं जगत्स्वाप्नपदार्थवदशेषं भासते ।
इदं च भरद्वाजादीनामस्तीति पुराणादिप्रमाणवेद्यमस्माकम् ।
तथा च तस्यां भूमिकायां निरुद्धसामर्थ्यं सदन्तःकरणं साकारस्वरूपं निर्वासनं यदा नश्यति, तदा प्रशान्तवाहिता भवति ।
वहः प्रवाहः सन्ततवृत्तिः धारा अस्य अस्तीति वाही, वाहिनो भावः वाहिता प्रशान्ता च सा वाहिता च प्रशान्तवाहिता ।
अथवा, प्रशान्तः वाहः अस्य अस्तीति प्रशान्तवाही ।
प्रशान्तवाहिनो भावः प्रशान्तवाहिता, 'मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः ।
असप्रज्ञातनामेति समाधिर्योगिनां प्रियः' इति वचनात्, प्रशान्तमनसं ह्येनम्' इति भगवद्वचनात्, 'पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्' इति श्रुत्या उक्तलक्षणसाधनपरिपाकवशाद्भवति ।
तैर्निर्ध्याता, ध्यानस्य निर्गतत्वात् ।
भेदास्फूर्तौ ध्यानविषयो न भवति ध्यातुः स्वरूपमेव प्रकाशते, 'ब्रह्म वेद ब्रह्मैव भवति' इति श्रुतेः ।
निर्ध्याता इति पाठे नितरां
p. 184
श्रवणमनननिदिध्यासनेन साक्षात्कृता इत्यर्थः ॥
ॐ एकाग्रचित्तनिर्ध्यातायै नम ॥
एषणारहितादृता ।
एषणा इच्छा ।
सा त्रिविधा ।
एतल्लोकजयाय पुत्रैषणा ।
पितृलोकजयसाधनकर्मसंपादनाय वित्तैषणा ।
उपासनादिना जयसाधनं देवलोकः, तस्मिन्नेषणा लोकैषणा ।
आभिः रहितैः अनाकृष्टचित्तैः, 'ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' इति श्रुतेः ।
एषणारहिताः ये परमहंसपरिव्राजकाः संन्यासिनः तैः आदरेण अतिशयप्रेम्णा स्वस्वरूपेण आदृता अङ्गीकृता निरन्तरध्यानेन साक्षात्कृता सती मोक्षरूपतया प्राप्तेत्यर्थः ॥
ॐ एषणारहितादृतायै नमः ॥
एलासुगन्धिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥
एलासुगन्धिचिकुरा ।
एलावदिति दृष्टान्तप्रदर्शनं सौगन्ध्यमात्रसद्भावप्रदर्शनेनाकल्पितदिव्यपरिमलसद्भावे हेतुः, न तु प्राकृतत्वदशनपरम्, ब्रह्मणः स्वाधीनमायत्वात् ।
तद्वत्सुगन्ध इति साजात्यमात्रं व्यज्यते, गुणमात्रादानेन
सर्वत्र पदार्थान्तरस्य दृष्टान्तीकरणात् ।
सुगन्धा येषां
p. 185
सन्तीति सुगन्धिनः तादृशाः चिकुराः कुन्तलाः सा तथा ।
स्वभावसिद्धदिव्यपरिमलशालिसर्वाङ्गसौरभ्यवती, चिकुरपदस्य उपलक्षणत्वादिति भावः ॥
ॐ एलासुगन्धिचिकुरायै नमः ॥
एनःकूटविनाशिनी ।
एनसां पापानां कूटं समुदायः ।
आगामिसंचितप्रारब्धभेदेन समष्टिरूपेण दृढतर तत्त्वज्ञानेन विना अन्यस्य भोगमात्रस्य तद्विनाशकत्वावगमात् तेषां च कल्पकोटिकालं क्रमिकभोगप्रदानं विनोपायान्तरेण क्षयेप्सूनामात्मनाभेदज्ञानविषयतया चैतन्यं नाशयतीति तथा ।
एवंविदि पापं कर्म न श्लिष्यते, 'अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः इत्यादिश्रुतेः, 'अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि' इति स्मृतेश्च ।
अथवा एनांसि च तत्कारणीभूतं कूटं कपटवचनाभिधानं च तत्कारणं मायां च नाशयतीति तथा ॥
ॐ एनःकूटविनाशिन्यै नमः ॥
एकभोगा ।
एकेन कामेश्वरेण साकं भोगः भुक्तिः भोगः स्वस्वरूपानन्दानुभवः यस्याः सा तथा ।
अथवा, एकस्य अज्ञानतत्कार्यस्य कार्यकारणरूपेण अभिन्नस्य तदधिष्ठानतया स्वसत्ताधायकत्वेन भोगः परिपालनं यस्याः सा ।
प्रपञ्चो
p. 186
त्पत्तिस्थितिनाशहेतुमायोपाधिकचैतन्यमित्यर्थः ।
एकाकी न रमते ततः पतिश्च पत्नी चाभवताम्' इति पुरुषविधब्राह्मणवचनात्, दंपत्योरैच्छिकभेदकत्वावगमेन परमार्थतः एतत्स्वरूपस्यैकचैतन्यरूपतावगमात्, तदुभयभोगस्यापि एकभोगत्वात् तद्वतीति वा ॥
ॐ एकभोगायै नमः ॥
एकरसा ।
एकः अभिन्नः रसः सामरस्यं यस्याः सा, 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेः ।
एकः नवरसेषु मुख्यः शृङ्गाररसः यस्याः सा तथा ।
अथवा, एकेन परमेश्वरेण अस्यां क्रियमाणः प्रीत्यतिशयरूपः रसः एतद्विषयकः यस्याः सा ।
अथवा एकस्मिन्नेव स्वभर्तरि रसः निरतिशयप्रीतिः अनुरागसंज्ञा यस्याः सा ।
अथवा, षड्रसेषु मुख्यः मधुररसः प्रियत्वेन यस्याः सा, सत्त्वगुणप्रधानमायोपाधिकचैतन्यस्वरूपत्वात् ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः इति भगवद्वचनात् ॥
ॐ एकरसायै नमः । ।
एकैश्वर्यप्रदायिनी ।
ईष्टे प्रेरयति अन्तर्यामित्वेन सर्वाणीति ईश्वरः ।
'यः सर्वेषु भूतेषु तिष्ठन्यः सर्वाणि भूतान्यन्तरो यमयति' इति श्रुतेः ।
तत्प्रेर्यमाणानां जीवानां भूतशब्दवाच्यानाम् अज्ञानतत्कार्यान्तःकरणोपहितप्रतिबिम्ब
p. 187
चैतन्यरूपाणां जाग्रदाद्यवस्थाभिमानिनाम् अखण्डब्रह्मसाक्षात्कारवेलायाम् अभेदानुभवात्, 'तत्त्वमसि' इति श्रुतेश्च 'एकमेवाद्वितीयम्' इति विशेषितत्वाच्च, एकश्चासावीश्वरश्च एकेश्वरः तस्य भावः तदैक्यं तत् प्रददातीति तथा ।
बहुषु विद्याधनवत्सु तेष्वेको विद्याधनवानित्युक्ते, तत्रत्यजननिष्ठविद्याभावे तदतिशयप्रतीतिवत् एकं च निरतिशयमणिमादिकमैश्वर्यं निःश्रेयसं प्रददातीति वा ।
यद्वा एकं मानुषं सर्वोत्कृष्टं सार्वभौमत्वादिलक्षणमभ्युदयसामान्यमैश्वर्यं प्रददातीति वा तथा ॥
ॐ एकैश्वर्यप्रदायिन्यै नमः ॥
एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८ ॥
एकातपत्रसाम्राज्यप्रदा ।
आतपात् आ समन्तात् अध्यात्माधिदैवताधिभूतानि आ शब्दार्थः ।
तेभ्यो जाताः तापाः आतपाः ।
तपन्ति शोषयन्तीति तपाः, आतपेभ्यः त्रायते रक्षतीति आतपत्रं सर्वसंसारदुःखोपशमात्मकमात्मज्ञानम् ।
'यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि' इति भगवद्वचनात् ।
अखिलदुःखनिदानाज्ञाननिवर्तकम् एकं लक्षणया अभिन्नब्रह्मविषयकमित्यर्थः ।
एकं च तत् आतपत्रं च अखण्डाकारज्ञानम्, तेन जायमानं यत्साम्राज्यं सम्राजो भावः सर्वोत्तम-
p. 188
त्वं तत्प्रददातीति ।
अथवा, एकातपत्रसाम्राज्यं चक्रवर्तित्वं तत्प्रददातीति वा ॥
ॐ एकातपत्रसाम्राज्यपदायै नमः ॥
एकान्तपूजिता ।
एकस्य अद्वितीयस्य शोधितत्वपदार्थस्य अन्ते उपाधौ हृदि परिच्छेदकत्वात् पूजिता अहमित्यपरोक्षीकृता, ‘यत्साक्षादपरोक्षाद्ब्रह्म’ इति श्रुतेः ।
एकस्य ब्रह्मणः अन्ते उप पूजिता षद् गत्यवसानार्थयोरिति धातुपाठात् उपनिषद्ब्रह्ममात्रतया पर्यवस्यतीत्यर्थः ।
एकान्तपूजितेति नाम्नोपनिषदित्यर्थः ।
अथवा, एकान्ते ‘गुहानिवाताश्रयेण प्रयोजयेत्’ इति श्रुतेः एकान्तस्थं ध्यानादिना योगिभिर्विषयीकृतेत्यर्थः ।
अथवा, कामेश्वरेण एकान्ते स्त्रीलिङ्गे पूजिता ।
संप्रदायप्रवृत्त्यर्थमादौ ईश्वरेण बहिर्यागक्रमेण आदिमसाधनेन सर्गाद्यकाले पूजादिना संतोषितत्वात् भूतार्थव्यपदेशः ।
एकान्ते सर्वप्रविलापनसमये पूजिता ध्यानादिना संपादिता साक्षात्कृतेत्यर्थः ।
‘कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ इति श्रुतेरिति वा ॥
ॐ एकान्तपूजितायै नमः ॥
एधमानप्रभा ।
एधमाना विवर्धमाना सर्वातिशायिनी प्रभा कान्तिर्यस्याः सा, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः ।
ॐ एधमानप्रभायै नमः ॥
p. 189
एजदनेकजगदीश्वरी ।
एजन्ति कम्पमानानि चेष्टमानानि प्राणवन्ति जीवन्ति अनेकानि नानोपाधिकानि जगन्ति
जङ्गमानि विचरत्प्राणिन इत्यर्थः ।
ईष्टे प्रेरयतीति ईश्वरी ।
स्थावराणां सुखदुःखप्राप्तिपरिहारोपायानभिज्ञत्वेऽपि स्वजीवनहेतुभूतोदकपानादिप्रवृत्तिदर्शनाच्चेष्टावत्त्वं तत्राप्यस्तीति जगच्छब्दो निर्विशेषप्रपञ्चमात्रपरो वक्तव्यः, अन्यथा सर्वेषु भूतेषु' इति श्रुतौ चरप्राणिमात्रपरत्वे संकोचापत्तेः ।
असति विराधे सामान्यवाचकस्य शब्दस्य विशेषलक्षणाङ्गीकारस्य न्याय्यत्वात् ।
अन्यथा ब्रह्मणः प्रपञ्चमात्रोत्पत्त्यादिहेतुत्वं सङ्कुचितं भवेत् ।
अत एव आकरे एजत्पदम् उपात्तम् ।
यथाकथंचित क्रियाश्रयत्वेन प्राणवत्त्वमात्रस्य समष्टिहिरण्यगर्भाश्रयत्वेन सर्वेषां प्रेर्यत्वं संभवतीति भावः ॥
ॐ एजदनेकजगदीश्वर्यै नमः ॥
एकवीरादिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥
एकवीरादिसंसेव्या ।
एकः अनितरसाधारणः वीरः पुरश्चर्यादिना कृतमन्त्रदेवतासाक्षात्कारलब्धपुरुषार्थः पुमान् विजयप्राप्ताभ्युदयशाली ।
राजराजनिष्ठधैर्यगाम्भीर्यादिगुणवत्त्वेन तत्तद्देवत्तोपासकाः पुरुषाः वीरा इत्युच्यन्ते ।
यासां
p. 190
शक्तीनामादयो यषां प्राणिकोटीनां ताः एकवीरादयः तासां कदम्बैः संसेव्या संसेवितुं योग्या ।
यदा ईश्वरी भक्ताननुगृह्णाति सगुणविग्रहवती स्यात् तदा अनेकपरिवारदेवतापरिसेविता मन्त्रदेवतात्वेनोपासनीयेत्यर्थः ।
अथवा, एकवीरा रेणुका, तदादयः शक्तयः श्यामलाप्रमुखाः, ताभिस्तत्कालप्रपञ्चे स्वस्वपीठे स्थिताः सत्यः उपासकानामभीष्टवरप्रदात्र्यो दृश्यन्ते ।
ता अस्याः परिसेवकत्वेन स्वयमभीष्टवरकामाः इत्यस्याः प्रकृताया महिमातिशयोक्तिः ॥
ॐ एकवीरादिसंसेव्यायै नमः ॥
एकप्राभवशालिनी ।
प्रभोर्भावः प्राभवं रक्षकत्वम् एकमनितरसाधारणं च तत्प्राभवं च तच्छालत इति तथा ।
अथवा, प्राभवस्य सापेक्षकधर्मत्वादेकपदस्य चानन्यगामित्वार्थस्य सामानाधिकरण्येन स्वारस्येन पर्यालोच्यमानेन अयमर्थः सूच्यते ।
प्राभवं च नियम्यलोकोद्भवं विना अनुपपद्यमानं तदन्तर्गततत्कार्यमर्थापत्त्या सिध्यति ।
तथा च वटबीजवस्त्वन्तर्गतपश्चाद्भाविकार्यवत्कूटस्थचैतन्यमिति भावः ।
अथवा, प्राभवं नामेश्वरत्वं तदाक्लृप्तनियम्यजगच्चोपलक्षणविधया यस्यैकस्याखण्डचैतन्यस्य तदेकप्राभवम् ।
'पादोऽस्य सर्वा भूतानि
एकांशेन स्थितो जगत्' इति श्रुतिस्मृतिभ्यां भूतपूर्व
p. 191
गत्या प्राभवोपलक्षितमेकं सच्चिच्चैतन्यरूपं शालते आविष्करोति तथा ।
अथवा एकं च सत् प्राभवं च एकप्राभवं मुख्यसार्वभौमत्वमिति यावत् ।
प्रभुत्वपरम्परायाः सविशेषायाः कुत्रचित् पर्यवसानावश्यंभावे 'एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः' इति श्रुत्या अन्तर्यामितया साक्षात्कृत्युत्पादकत्वयुक्त्या च इतरवागाद्यवयवप्रेरणातिशयानां पर्याप्तिरत्रैवास्तीत्यभिप्रायः ।
तथा च निरङ्कुशस्वतन्त्रजगत्कारणत्वरूपतटस्थलक्षणलक्षितवेदान्तसमन्वयविषयीभूता
अखण्डसच्चिदानन्दस्वरूपा परदेवता अवश्यं स्वस्वरूपेणैव ध्यातव्येति निष्कृष्टार्थः ॥
ॐ एकप्राभवशालिन्यै नमः ॥
ईकाररूपा ।
ईकारः रूपं तृतीयावयवः यद्वाचकमन्त्रस्य यस्याः सा तथा ॥
ॐ ईकाररूपायै नमः ॥
ईशित्री ।
इच्छति ईष्टे इति ईशित्री सर्वप्रेरिका इत्यर्थः ॥
ॐ ईशित्र्यै नमः ॥
ईप्सितार्थप्रदायिनी ।
अर्थ्यन्ते प्रार्थ्यन्ते इत्यर्थाः अभ्युदयनिःश्रेयसरूपाः, आप्तुं गन्तुं प्राप्तुम् इच्छाविषयीभूताः ईप्सिताः, ते च ते अर्थाश्चेति कर्मधारयः, ईप्सितार्थान् प्रददातीति तथा ।
केवलकर्मणामदृष्टद्वारा कालान्तरभावि
p. 192
फलदातृत्वमचेतनत्वान्नोपपद्यते ।
तादृशानां कस्मिन्नप्यर्थे सामर्थ्यादर्शनात् ।
चेतनाधिष्ठितानां तु कर्मणां भूत्यकृतपराक्रमादितुष्टराजवत्तदाराधितपरमेश्वरः कर्माध्यक्षः, इति श्रुत्या सर्वज्ञस्य तत्तदधिकारिकृतपुण्यापुण्यानुरूपतया फलप्रदाने समर्थ्यस्य सत्त्वकल्पने तदन्यस्य चेतनस्य जीवादेस्तत्र
सामर्थ्यविरहात् स एव तत्तदनुगुणविषयेच्छोत्पादनेन तत्साधनानुष्ठापयिता सन् तत्फलकामनां पूरयतीत्यनीश्वरमीमांसकमतनिरासो द्रष्टव्यः ।
अथवा, ईप्सिता जिज्ञासिता, तथा च स्वस्वरूपप्रतिपादकवेदान्तश्रवणमनननिदिध्यासनविषयीकृता सती अर्थं प्रार्थ्यमानं सर्वाभ्यर्हितमोक्षरूपं पुरुषार्थं प्रददातीति तथा ॥
ॐ ईप्सितार्थप्रदायिन्यै नमः ॥
ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १० ॥
इदृगित्यविनिर्देश्या ।
ईदृक् एतल्लक्षणलक्षित एतादृशपरिमाण एवंस्वरूपः एतादृशधर्मवानिति प्रत्यक्षसिद्धार्थो
विनिर्देष्टुं शक्यते ।
'यश्चक्षुषा न पश्यति' इत्यादिश्रुत्या सर्वेन्द्रियगोचरत्वनिराकरणात् विनिर्देश्या न भवति ।
औपनिषदानां मते तु उपनिषदां वेदैकदेशत्वेन इतरप्रमाणा
p. 193
नपेक्षतया अज्ञातार्थज्ञापकत्वेन प्रामाण्यमुररीकृतम् ।
इदमेव एतादृगेवेति प्रत्यक्षसिद्धार्थज्ञापने तासामनुवादकत्वेन
सापेक्षत्वरूपमप्रामाण्यं प्रसज्येतेत्यभिप्रायः ।
ॐ ईदृगित्यविनिर्देश्यायै नमः ॥
ईश्वरत्वविधायिनी ।
ईश्वरस्य भावः तस्यैक्यं विदधाति, आवरणविक्षेपशक्तिमदज्ञाननिवर्तकाखण्डाकारचैतन्यस्वरूपा सती भेदबुद्धिमात्रसंपादितैश्वर्यैक्यायोगभ्रमं निवर्तयतीत्यर्थः, 'स्वेन रूपेणाभिनिष्पद्यते' इति श्रुतेः ।
अथवा, ईश्वरत्वं नाम नानादेशविद्याधनोत्कर्षादिमत्त्वं तत्तत्प्राणिनिकायपुण्यप्रारब्धानुसारेण कर्मफलं प्रयच्छतीति वा ।
ईश्वरत्वविधायिन्यै नमः ॥
ईशानादिब्रह्ममयी ।
ईशानतत्पुरुषाघोरवामदेवसद्योजाताख्यानि पञ्च ब्रह्माणि, तानि मयं स्वरूपमस्या अस्तीति सा तथा ।
अथवा, ईशानः आदिर्येषां ते तथा अधिकारिपुरुषाः विष्णुब्रह्मेन्द्रादयः, तेषामपि तत्तन्नामरूपविशिष्टानाम् अहंबुद्धिमताम् अन्तर्यामिस्वरूपेण बुद्धिप्रेरकसच्चिदानन्दस्वरूपपरब्रह्मानन्दप्रकाशात्मना स्फुरतीति तथा ।
ॐ ईशानादिब्रह्ममय्यै नमः ॥
ईशित्वाद्यष्टसिद्धिदा ।
इशित्वमादिर्यासां तास्तथा ।
'अ-
p. 194
णिमा महिमा लघ्वी गरिमा प्राप्तिरीशिता ।
प्राकाम्यं च वशित्वं च यत्र कामाः परागताः' इति वचनात् ।
ताः
सिद्धीरष्टौ दवातीति तथा ।
अणिमा क्षणमात्रेण अतिसूक्ष्मभावः ।
महिमा महतो भावः ।
लघ्वी लाघवम् ।
गरिमा गुरोर्भावः, जडतरपर्वतादिवत् भारवशेनाप्रकम्पितत्वमित्यर्थः ।
क्षणमात्रेण विराडाकृतिमत्त्वं प्राप्तिः ।
हस्तेन चन्द्रमण्डलादिस्पर्शः ईशिता, इन्द्रादीनामपि प्रेरकता ।
प्राकाम्यम् अप्रतिहतकामनावत्त्वम्, वाञ्छितार्थफलप्राप्तिरित्यर्थः ।
वशित्वं सर्वलोकवशीकरणसामर्थ्यम् ।
यत्र कामाः परागताः काम्यन्त इति कामाः विषयाः यत्र यस्मिन् ऐश्वर्ये सति परागताः बहिर्भूता भवन्ति, विषयाणामनुभवाभावेऽपि तज्जन्यसुखवत्वम् आप्तकामत्वमित्यर्थः ।
एताः अष्टसिद्धयः ।
ॐ ईशित्वाद्यष्टसिद्धिदायै नमः ॥
ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा ।
इंडिता चेश्वरार्धाइशरीरेशाधिदेवता ॥ ११ ॥
इक्षित्री ।
उदासीनद्रष्ट्री साक्षिणी असङ्गोदासीनज्ञानस्वरूपेत्यर्थः, 'साक्षी चेता' इति श्रुतेः, 'आविः संनिहितं गुहायाम्' इति श्रुतेः ।
ॐ इक्षित्र्यै नमः ॥
p. 195
ईक्षणसृष्टाण्डकोटिः ।
अण्डानां ब्रह्माण्डानां कोटयः असंख्याताः, भूतभाविकालभेदेन बहुवचनं कोटिशब्दस्य,
अनादित्वात् संसारमण्डलस्य, ईक्षणेन भाविकार्यालोचनेन सृष्टाः अण्डकोटयो यया सा तथा, 'तदैक्षत बहु स्यां प्रजायेयेति' स ईक्षांचक्रे' आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति स
इमांल्लोकानसृजत' इत्यादिश्रुतेः, बाह्यकारणमनपेक्ष्य ऊर्णनाभ्यादिदृष्टान्तप्रदर्शनेन चेतनस्याभिन्ननिमित्तोपादानत्वप्रदर्शनयुक्तेः, 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादेश्चेति भावः ।
ॐ ईक्षणसृष्टाण्डकोटये नमः ॥
ईश्वरवल्लभा ।
ईश्वरः कामेश्वरः वल्लभः पतिः यस्याः सा तथा ।
ईश्वराणां ब्रह्मविष्णुरुद्रादीनां तत्तन्निष्ठमहिमोत्कर्षरूपेण प्रीत्यतिशयविषयत्वेन अभ्यर्हितेत्यर्थो वा ।
ॐ ईश्वरवल्लभायै नमः ॥
ईडिता ।
ईड स्तुताविति धातुपाठात् स्तुतिभिः विषयीकृता, वेदान्तैरिति शेषः, 'एष नित्यो महिमा ब्राह्मणस्य' इत्यादिश्रुतेः ।
ॐ ईडितायै नमः ॥
ईश्वरार्धाङ्गशरीरा ।
ईश्वरस्य सच्चिदानन्दात्मकस्य शिवस्य अर्धं च तत् अङ्गं च अर्धाङ्गम् ।
आनन्दस्वरूपता शरीरं
p. 196
शरीरवत्स्वरूपलक्षणं यस्याः सा तथा ।
'सच्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति स्मृतेः ।
अथवा, ईश्वरस्यार्धाङ्गं वामभागः शरीरं मूर्तिर्यस्याः सा ।
अथवा, ईश्वरस्य हकारस्य अर्धाङ्गं शक्तिबीजं शरीरं मन्त्रात्मिका मूर्तिर्यस्याः सा तथा ।
ॐ ईश्वरार्धाङ्गशरीरायै नमः ॥
ईशाधिदेवता ।
ईशस्येत्युपलक्षणं जीवस्यापि, ईशस्य तत्त्वंपदवाच्यार्थस्य मायोपाधिकस्य विशिष्टस्य अधि उपरि विशेषणद्वयस्य परित्यागे देवता द्योतमाना कूटस्थचिन्मात्रशोधिततत्त्वपदार्थरूपेत्यर्थः ।
अथवा, ईशः कामेश्वरः अधिदेवता पूज्यः यस्याः सा तथा ।
परमपतिव्रतेत्यर्थः ॥
ॐ ईशाधिदेवतायै नमः ॥
ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ॥
ईश्वरप्रेरणकरी ।
ईश्वरस्य बिम्बचैतन्यस्य स्वरूपा सती जगत्सर्जनादिकार्यप्रेरयित्री प्रेरणकरी आज्ञापकेत्यर्थः ।
इच्छानानक्रियाशक्त्यावरणविक्षेपशक्तिप्रतिफलितचित्स्वरूपा भाविकार्यानुकूलप्रारब्धाध्यक्षपरमेश्वरेक्षणनामधेयप्रकाशात्मिका भवतीति भावः ।
ईश्वरप्रेरणं तदाज्ञामनुल्लङ्घनेन क-
p. 197
रोतीति वा, तदीयभार्यात्वेन नितरां तद्वश्येति यावत् ॥
ॐ ईश्वरप्रेरणकर्यै नमः ॥
ईशताण्डवसाक्षिणी ।
ईशस्य तत्पदवाच्यार्थस्य ताण्डवं नर्तनवदप्रयत्नसंपाद्य लीलामात्रमित्यर्थः, जगत्सर्जनादिरूपा क्रिया चलनरूपकर्मत्वसामान्यात्, तस्य साक्षिणी असंसर्गप्रकाशरूपिणीत्यर्थः, 'असंगो न हि सज्जते' इति श्रुतेः ।
अथवा, ईशताण्डवस्य परमेश्वरनृत्यनाट्याभिव्यञ्जितचतुःषष्टिकलोपदेशस्य साक्षिणी ।
तदुक्तम्- नर्तनाद्धि परेशस्य चतुःषष्टिकलाजनिः' इति प्रदोषस्तोत्रे ईशताण्डवनर्तनवर्णनमतिस्फुटमिति नेह लिख्यते ॥
ॐ ईशताण्डवसाक्षिण्यै नमः ॥
ईश्वरोत्संगनिलया ।
ईश्वरस्य स्वभर्तुः उत्सङ्गः ऊरू तौ निलयः यस्याः सा तथा ॥
ॐ ईश्वरोत्संगनिलयायै नमः ॥
ईतिबाधाविनाशिनी ।
ईतिबाधा दैवाद्युपद्रवः, क्षुद्रजन्तुपीडा वा, तां विनाशयतीति तथा ॥
ॐ ईतिबाधाविनाशिन्यै नमः ॥
ईहाविरहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥
p. 198
ईहाविरहिता ।
अप्राप्तप्राप्तिं प्रति इच्छा ईहा, तया विरहिता; आप्तकामत्वात् तद्विरहितेत्यर्थः ॥
ॐ ईहाविरहितायै नमः ॥
ईशशक्तिः ।
ईशस्य शक्तिः सर्वज्ञत्वादिस्वरूपसामर्थ्यं यस्याः सा तथा, ‘देवात्मशक्तिम्’ इति श्रुतेः ॥
ॐ ईशशक्तये नमः ॥
ईषत्स्मितानना ।
ईषत् स्मितं मन्दहासः यस्य तत् तथा, तादृगाननं यस्याः सा तथा; पर्याप्तकामत्वेन सर्वदा प्रसन्नमुखीत्यर्थः ।
दुःखास्पृष्टपरमानन्दरूपतया वा तथा ॥
ॐ ईषत्स्मिताननायै नमः ॥
लकाररूपा ।
रूप्यत इति रूपं मन्त्रस्य चतुर्थवर्णत्वेन ज्ञापकं यस्याः सा तथा ॥
ॐ लकाररूपायै नमः ॥
ललिता ‘ललितं त्रिषु सुन्दरम्’ इति वचनात् अत्यन्तसौन्दर्यवतीत्यर्थः ।
अनुपमसौन्दर्या वा ॥
ॐ ललितायै नमः ॥
लक्ष्मीवाणीनिषेविता ।
लक्ष्मी रमा सर्वैश्वर्यशक्तिः; वाणी सरस्वती सर्वज्ञानशक्तिः; ताभ्यां नितराम् अन्तरङ्गप्रेम्णा अनन्यभूता सती सेविता ।
सेवानाम उन्मीलिताज्ञाप्रतीक्षा, तद्वत्त्वादित्यर्थः ॥
ॐ लक्ष्मीवाणीनिषेवितायै नमः ॥
p. 199
लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिकालसत्फाला ललाटनयनार्चिता ॥
लाकिनी ।
क सुखम्, 'कं ब्रह्म इति श्रुतेः, तन्न भवतीत्यकं ब्रह्माभिन्नतया प्रतीयमानं दुःखात्मकं जगत् अकम्, लीयत इति लम्, उपलक्षणमुत्पत्त्यादेः लमकभस्यास्तीति लाकिनी, अनृतजडदुःखरूपजगत्कारणतद्व्यावृत्तस्वरूपब्रह्मभूता इत्यर्थः ॥
ॐ लाकिन्यै नमः ॥
ललनारूपा ।
रूप्यते ज्ञाप्यते अनेनेति रूपं ज्ञापकं तद्व्याप्यलिङ्गं चिह्नमिति वा, ललनानां स्त्रीणां रूपं वेषः आभरणाद्यलङ्कारो वा आकृतिर्वा यस्याः सा तथा, ललनाः स्त्रियः रूपाणि भूतयः यस्याः सा तथा, 'लिङ्गाङ्कितमिदं पश्य जगदेतद्भगाङ्कितम्' इति पुराणवचनात् ॥
ॐ ललनारूपायै नमः ॥
लसद्दाडिमपाटला ।
दाडिमशब्देन विकसिते तत्पुष्पं लक्ष्यते, लसत् सद्यो विकसनप्रकाशं च तद्दाडिमं च, इदम् उपलक्षणं बन्धूकादीनाम्, तद्वत्पाटला श्वेतमिश्ररक्तवर्णप्रधानमूर्तिमतीत्यर्थः, 'श्वेतरक्तं तु पाटलम्' इति वचनात् ।
ॐ लसद्दाडिमपाटलायै नमः ॥
p. 200
ललन्तिकालसत्फाला ।
ललन्तिकया परितः मुक्ताफलखचितनवरत्नमध्यया ललाटमध्यदेशभूषया, इदमुपलक्षणं
ललाटपट्टादीनाम्, लसत् फालं यस्याः सा तथा ॥
ॐ ललन्तिकालसत्फलायै नमः ।
ललाटनयनार्चिता ।
ललाटे नयनं येषां ते, अत्र ललाटशब्देन भ्रूमध्यं लक्ष्यते, नयनशब्देन ज्ञानमपि, चोर्ध्वदृष्टिभिः खेचरीमुद्रया विलीनचित्तैः असिवरुणयोर्मध्यदेशाभिधानाविमुक्तकृतपरमेश्वराराधनपरपुरुषप्राप्यत्वाभिधायकात्रिप्रश्नोत्तरजाबालश्रुतिगत-याज्ञवल्क्योत्तरवाक्यनिर्दिष्टभूमिकाजयसिद्धिमत्पुरुषैः अर्चिता साक्षात्कृतेत्यर्थः ।
अथवा, तृतीयनेत्रवता शिवेन तत्स्वरूपरुद्रैर्वा पूजितेत्यर्थः ।
ॐ ललाटनयनार्चितायै नमः ॥
लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।
लक्ष्यार्थी लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥
लक्षणोज्ज्वलदिव्याङ्गी ।
दीप्यसे प्रकाशत इति दिव्यं लक्षणैः स्वरूपतटस्थनामकैः उज्ज्वलं शोभितं शुद्धम् अङ्गं स्वरूपं विग्रहो वा ।
घृताकाठिन्यन्यायेन 'तदात्मानं स्वयमकुरुत' इति श्रुतेः सच्चिदानन्दघनीभूतजीवात्मको विग्रहो
p. 201
यस्याः सा तथा ।
अथवा, सामुद्रिकशास्त्रोक्तदिव्यलक्षणैरुज्ज्वलानि सम्पूर्णानि दिव्यानि यानि अङ्गान्यवयवाः शिरःपाण्यादयः अस्याः सन्तीति वा तथा ॥
ॐ लक्षणोज्ज्वलदिव्यायै नमः ॥
लक्षकोट्यण्डनायिका ।
लक्षानि च कोट्यश्च असंख्यातापरिमितानीत्यर्थः, संसारस्यानादित्वेन भूतभविष्यदादिभेदेन बहुसंख्यावत्वमण्डानाम्, तानि च तान्यण्डानि च हिरण्यगर्भविराड्रूपाणि समष्टिव्यष्ट्यात्मना विश्वतैजसाेपाधिभूतानि, तेषाम् अधिष्ठानबिम्बचैतन्यात्मना नयति स्वसत्तामापादयतीति नायिका ॥
ॐ लक्षकोट्यण्डनायिकायै नमः ॥
लक्ष्यार्था ।
लक्षणया शोधनया जहदजहल्लक्षणया वा प्रतिपाद्यते वेदान्तमहावाक्यानां योऽर्थः चित्स्वरूपा ।
अथवा योगशास्त्रप्रसिद्धबहिरूर्ध्वाधःप्रदेशविशेषरूपभूमिकासु स्वस्वमनोवाञ्छाविषयविशेषणत्वेन निर्गुणत्वेन वा मनाेविलयरूपहठराजयोगादिसाधनपरिपाकवशेन साक्षात्कृतं चैतन्य लक्ष्य इत्युच्यते, अर्थ्यते याच्यते गुरुं प्रति इति अर्थः, लक्ष्यो योऽर्थः चित्स्वरूपपरमानन्दरूपः सोऽपि सैवेति तथा, 'ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्त-
p. 202
रेण' इति श्रुतेः ॥
ॐ लक्ष्यार्थायै नमः ॥
लक्षणागम्या ।
लक्षणानाम शक्यार्थे वाचकस्य पदस्य अन्वयाद्यनुपपत्त्या तत्संबन्धिपदार्थान्तरज्ञानहेतुः शक्यसंबन्धादिपदजन्यपदार्थान्तरज्ञानहेतुः शब्दवृत्तिरित्युच्यते, तस्या वाच्यवाचकतत्संबन्धादिभेदज्ञानपूर्विकायाः परिच्छिन्नसावयवपदार्थसंबन्धज्ञानहेतोः केवलचिन्मात्रे निरुपाधिके वस्तुनि षष्ठीजात्यादीनां लक्ष्यतावच्छेदकधर्माणामभावे प्रवृत्त्ययोगात् तया अगम्या, गन्तुं ज्ञातुं योग्यं गम्यं तन्न भवतीत्यगम्या ।
वेदान्तमते जहदजहल्लक्षणया विशषणमात्रपरित्यागस्य अन्याेन्यतादात्म्यानुपपत्या बोधिसत्वात् तदर्धं सा अवश्यमङ्गीकर्तव्या ।
विशेष्यस्य ज्ञानस्वरूपत्वेन नित्यतया लक्षणाजन्यत्वात् तदर्थं सा न अपेक्ष्यत इति भावः तथा च प्रकृताया देवतायाः शुद्धचैतन्यमात्रस्वरूपतया स्वयं प्रकाशत्वेन लक्षणागोचरत्वात् लक्षणागम्येति नाम युक्तमिति भावः ॥
ॐ लक्षणागम्यायै नमः ॥
लब्धकामा ।
लब्धाः काम्यन्त इति कामाः ऐहिकामुष्मिकसुखसाधनानि, लक्षणया तत्तज्जन्यसुखानि वा
तथाभूताः कामाः यया सा तथा, पर्याप्तकामेत्यर्थः,
p. 203
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामा' इति श्रुतेः ॥
ॐ लब्धकामायै नमः ॥
लतातनुः ।
लता इव, लताः कल्पादिवल्ल्यः सकलपुरुषार्थप्रदत्वेन जगति प्रसिद्धाः, ता इव सुकुमारत्वाद्याश्रया तनुः मूर्तिः यस्याः सा तथा ॥
ॐ लतातनवे नमः ॥
ललामराजदलिका लम्बिमुक्तालनाश्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाट्या लयवर्जिता ॥ १६ ॥
ललामराजदलिका ।
ललाम्ना कस्तूरीतिलकेन कस्तूरीपत्रेण वा राजत् विभ्राजत् परमशाेभि अलिकं ललाटं यस्याः सा तथा ॥
ॐ ललामराजदलिकायै नमः ॥
लम्बिमुक्तालताञ्चिता ।
लम्बिन्यः लम्बमानाः अधः प्रसृताः मुक्तालताः हाराः मुक्ताफलानि वा यस्याः
सा तथा ।
नवरत्नखचितसुवर्णमुक्तागुच्छैः सर्वाङ्गेषु प्रलम्बमानैः ललाटपर्यन्तं लम्बमानकिरीटप्रथमभागललाटपट्टनासाग्रताटङ्काधःकर्णदेशकण्ठप्रदेशहस्तचतुष्टयाङ्गदसमानप्रदेशकूर्पासपरितःपदकाग्रदेशकटिनिबद्धकाञ्च्यादिषु परिलम्बमानैरित्यर्थः ॥
ॐ लम्बिमुक्तालताञ्चितायै नमः ॥
p. 204
लम्बोदरप्रसूः ।
लम्बोदरस्य महागणेशस्य प्रसूः जनयित्री मातेत्यर्थः ।
लम्बोदरं प्रसूत इति वा ॥
ॐ लम्बोदरप्रसुवे नमः ॥
लभ्या ।
संसारदशायामावारकाज्ञानेन स्फुटमप्रकाशमाना सती श्रवणादिसंस्कृतान्तःकरणवृत्तावखण्डाकारज्ञानभूमिकायां प्रतिफलितस्वरूपेण विस्मृतकण्ठगतकनकभूषणवत्
प्राप्तप्राप्तिरूपतया लब्धुं योग्येति तथा ॥
ॐ लभ्यायै नमः ॥
लज्जाढ्या ।
लज्जया, उपलक्षणमन्तःकरणधर्माणां सर्वेषाम्, आढ्या तद्वत्त्वेन आकारवतीत्यर्थः ।
तिरोधानादिना अन्तर्हिता सती वरादि प्रयच्छतीति लज्जाढ्या भवतीति च उपचर्यते ॥
ॐ लज्जाढ्यायै नमः ॥
लयवर्जिता ।
'अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा' इत्यादिश्रुतेः, लयो विनाशः, तेन रहिता
वर्जितेत्यर्थः ।
इदमुपलक्षणं षड्भावविकाराणाम्, सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि श्रुतेः ॥
ॐ लयवर्जितायै नमः ॥
ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया ।
ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥ १७ ॥
p. 205
ह्रींकाररूपा ।
ह्रींकारः रूप्यते निरूप्यते निर्देश्यत इति रूपं मन्त्रपञ्चमावयवः यस्याः सा तथा ।
ॐ ह्रींकाररूपायै नमः ॥
ह्रींकारनिलया ।
ह्रीमक्षरं निलयः गृहवदवच्छेदकं यस्याः सा तथा ।
स्वीयवाचकत्वारोपितवाच्यतावच्छेदकधर्मावच्छिन्नतादिसंपादनेन गृहवर्तिपुरुषवत् व्यावृत्तस्वरूपेण ज्ञापकं भवति ।
अन्यथा, नाम्नो वाच्यार्थे प्रवृत्त्ययोगादिति भावः ।
ॐ ह्रींकारनिलयायै नमः ॥
ह्रींपदप्रिया ।
पद्यते गम्यते ज्ञायते अनेनेति पदम्, पद्यते गम्यते प्राप्यत इति वा पदम्, ह्रीकारस्य मन्त्रावयवतया तद्देवताप्रकाशकत्वेन तस्यां शक्तत्वात्- 'शक्तं पदम्' इति तल्लक्षणत्वात् तथा प्रथमं व्याख्यानम् ।
हकाररेफेकारानुस्वाराणां वर्णानां समष्टिस्वरूपेण समुदायात्मकत्वात् 'वर्णसमुदायः पदम्' इत्यपि पदलक्षणवत्वमस्य घटते ।
पुरश्चर्यावतां स्वदेवतासाक्षात्कारद्वारा सकलपुरुषार्थप्रापकत्वात् द्वितीयव्याख्यानं तथा कृतम् ।
तस्मिन् प्रिया प्रीतिमतीत्यर्थः ॥
ॐ ह्रींपदप्रियायै नमः ॥
ह्रींकारबीजा ।
ह्रींकार एव बीजं स्ववाचकमन्त्रभाग:, 'ज्ञापकं देवतानां यत् बीजमक्षरमुच्यते' इति वचनात् ह्रीं-
p. 206
कारस्य मायाप्रकाशकत्वेन, वटधानादिः स्वनिष्ठवृक्षाभिव्यञ्जकत्वेन कारणतया यथा बीजमित्युच्यते- सत्कार्यवादिनामव्यक्तनामरूपकारणं बीजम्, अभिव्यक्तनामरूपात्मकं पश्चाद्भावि कार्यमित्यङ्गीकारः, सकलकारणसमवधाने विशेषनामरूपवत्तया कारणस्याभिव्यक्तिरुत्पत्तिः तथा चोक्तबीजस्य मायावच्छिन्नचैतन्याभिव्यञ्जकत्वेनापि बीजत्वम्, तादृशं ह्रींकारबीजं यस्याः सा तथा ॥
ॐ ह्रींकारबीजायै नमः ॥
ह्रींकारमन्त्रा ।
ह्रींकारस्य मननात् त्रायते रक्षति वाच्यवाचकयोरभेदादिति तथा ।
ह्रींकारघटितो मन्त्रो वा यस्याः सा इति वा तथा ॥
ॐ ह्रींकारमन्त्रायै नमः ॥
ह्रींकारलक्षणा ।
हकारः शिवः, आकाशबीजत्वादाकाशवन्निर्लेपः, रेफः वह्निबीजं कार्योत्पादसंनिहितशक्तिमदीश्वरवाचकम् तथा च हकारयुक्तरेफः शुद्धचैतन्यमेव कारणतावच्छिन्नम्- इति वदति ।
ईकारः मन्मथबीजं तत्कारणलक्षकतया स्थितिहेतु विष्णुरूपचैतन्यमभिदधाति ।
अनुस्वारस्तस्मिन्नेव पदार्थे अभिन्ननिमित्तोपादाने लयं वक्ति ।
तथा च ह्रीमित्युक्ते जगदुत्पत्तिस्थितिलयकारणं चैतन्यं शक्त्या वाच्यार्थः प्रतीयते ।
तस्यैवोपाधिपरित्यागरूपलक्षणं यस्याः सेति वा तथा ।
ह्रीकारः लक्षणं तटस्थलक्षणं यस्याः
p. 207
सेति वा तथा ॥
ॐ ह्रींकारलक्षणायै नमः ॥
ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ १८ ॥
ह्रींकारजपसुप्रीता ।
ह्रींकारस्य जपः ह्रींकारजपः, तेन सुप्रीता ॥
ॐ ह्रींकारजपसुप्रीतायै नमः ॥
ह्रींमती ।
वाचकत्वेन लक्षकत्वेन वा लक्ष्यपदार्थरूपेण वा वाच्यवाचकयोरभेदेन वा अस्या अस्तीति ह्रींमती ॥
ॐ ह्रींमत्यै नमः ॥
ह्रींविभूषणा ।
केवलजडमायावाचकः ह्रींकारः, तथा हि-हकारः श्वेतवाचकः, रेफः रोहितार्थकः, ईकारः नीलार्थकः, तथा च विशिष्टस्य शुक्लरक्तनीलवत्पदार्थवाचकतया सत्त्वरजस्तमोगुणवत्प्रकृतिवाचकत्वेन परिच्छिन्नानृत जडदुःखस्वरूपवाच्यार्थकतया प्रकाशराहित्येन अनुपादेयताया सत्या तदवच्छिन्नस्वप्रकाशचैतन्याकारतया विशिष्टार्थस्य आपादमस्तकभूषिततरुणीवदानन्दस्वरूपतया तद्वाचकह्रींपदस्य अष्टैश्वर्यसिद्धिप्रदानशक्त्याधायकतया शोभायमान भूषणवत्, 'कुण्डली पुरुष' इत्यत्र कुण्डलस्योपलक्षणतया इतरसजातीयादिव्यावर्तकत्वम्, तथास्यापि बीजस्येतरव्यावृत्तवाच्यार्थगोचरप्रमाजनकत्वेन भूषणवत् यस्याः सा
p. 208
वृत्तवाच्यार्थगोचरप्रभाजनकत्वेन भूषणवत् यस्याः सा तथा ॥
ॐ ह्रीविभूषणायै नमः ॥
ह्रीशीला ।
ह्रीमित्यनेन तद्वाच्यार्थाः ब्रह्मविष्णुरुद्राः लक्ष्यन्ते, तेषां शीलं स्वभावः पारमार्थिकं रूपं सच्चिदानन्दात्मकता यस्याः सा तथा; तन्निष्ठधर्माः सत्त्वरजस्तमोगुणादयो वा यस्याः सा तथा; ‘शीलं स्वभावे धर्मे च’ इति वचनात् ॥
ॐ ह्रीशीलायै नमः ॥
ह्रीपदाराध्या ।
ह्रीपदेन एकाक्षरबीजमन्त्रेण आराधितुं योग्या तथा ।
‘ह्रींकारेणैव संसिद्धो भुक्तिं मुक्तिं च विन्दति’ इति भुवनेश्वरीकल्पवचनादिति यावत् ॥
ॐ ह्रीपदाराध्यायै नमः ॥
ह्रीगर्भा ।
ह्रीशब्दार्थाः सगुणमूर्तयस्तिस्रः गर्भे स्वस्वरूपे सशक्तिकाः अविनाभावसंबन्धेन यस्याः सा तथा, ‘मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्’ इति वचनात् ॥
ॐ ह्रीगर्भायै नमः ॥
ह्रीपदाभिधा ।
ह्रींकारः अभिधा नाम यस्याः सा तथा ।
समष्टिरूपायाः समष्टिशब्दवाच्यत्वनियमादित्यभिसन्धिः ॥
ॐ ह्रीपदाभिधायै नमः ॥
p. 209
ह्रींकारवाच्या ।
मायोपाधिकब्रह्मणि कल्पितधर्मेण शब्दप्रवृत्त्युपपत्तेः ह्रींपदस्य वाच्या रूढ्यैत्यर्थः ॥
ॐ ह्रींकारवाच्यायै नमः ॥
ह्रींकारपूज्या ।
'मूलमन्त्रेण पूजयेत्' इति पूजाङ्गत्वेन मूलमनोर्विनियोगः श्रूयते ।
मूलमनुश्च देवतायाः स्वकं नामेति वचनात् ।
अन्तर्मुखानामेव मन्त्रशास्त्रेषु तन्नाम्ना व्युत्पन्नत्वात् ।
ह्रींकार नमोऽन्तमुच्चार्य यथागुरुसंप्रदायं श्रीचक्रादौ मूलदेवता पूजनीयेत्यागमरहस्यात् ह्रींबीजेनैव पूजयितुं योग्या ।
अतिप्रियबीजनामत्वादित्यभिप्रायः |
ॐ ह्रींकारपूज्यायै नमः ॥
ह्रींकारपीठिका ।
अत्र पीठशब्दः आधारलक्षकः ।
वाच्यार्थो हि वाचकशब्दस्य सत्ताप्रदत्वेन आधारो भवति ।
मन्त्रदेवतयाेरभेदेऽपि अर्थनिष्ठमहिम्नः तद्वाचकपदेऽदृश्यमानत्वात् कल्पितभेदं संपाद्य इदमुच्यते ।
ह्रींकारस्य पीठिका वृत्तिस्थानं शक्त्या गोचरतया विषयीभूतेत्यर्थः ॥
ॐ ह्रींकारपीठिकायै नमः ॥
ह्रींकारवेद्या ।
स्वरूपतः निर्गुणब्रह्मतया अज्ञानविषयत्वाश्रयत्वाभ्यामप्राप्तपुरुषार्थरूपतया संसारदशायां प्रतीयमानत्वात् गुरूपसदनश्रवणादिरूपविध्यप्रामाण्यनिरासाय लक्ष-
p. 210
णया शुद्धस्वरूपपरमानन्दतया प्रेप्सितत्वात् श्रवणादिजन्यवृत्तिव्याप्यत्वरूपवेदनाविषयत्वम् ।
'ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरितीर्यते' 'मामेव ये प्रपद्यन्ते मायामेताम्' इत्यादिवचनात् भगवताप्यङ्गीकृतमिति ।
ह्रींकारेण गुरुमुखोद्भूतेन वेद्या वेदितुं योग्या ।
तत्स्वरूपपरिज्ञानद्वारा तत्प्राप्तिरूपपुरुषार्थहेतुत्वादिति तात्पर्यम् ॥
ॐ ह्रींकारवेद्यायै नमः ॥
ह्रींकारचिन्त्या ।
अस्य बीजस्य पञ्चप्रणवान्तर्गतत्वेन ॐकारभेदे ब्रह्मप्रतीकत्वाविशेषात् ।
प्रणवे यथा परापरब्रह्मोपासनहेतुवदस्मिन् वा प्रतीके तद्भवतीति विकल्पः ।
यदा भक्तिपार्थक्येन मन्त्रविशेषेषु भवतीति योगवेदमार्गरहस्यं न वादजल्पाद्यवकाशः ।
ह्रींकारे उभयविधब्रह्मस्वरूपतया चिन्तितुं योग्या ।
ध्यानस्य साक्षात्कारं प्रत्यारादुपकारकत्वेन ध्यातव्येत्यर्थः ॥
ॐ ह्रींकारचिन्त्यायै नमः ॥
ह्रीं ।
हृञ् हरणे इति धातुपाठात् समस्तविद्यैश्वर्यप्रदानादिशक्त्यारोपाधिष्ठानत्वे सत्यपवादावशेषितपरमानन्दरूपमुक्तिरित्यर्थः ॥
ॐ ह्रीं नमः ॥
ह्रींशरीरिणी ।
मूलमन्त्रात्मिकेति यावत् ह्रीमेव शरीरं मूर्तिरस्या अस्तीति ह्रींशरीरिणी ॥
ॐ ह्रींशरीरिण्यै नमः ॥
p. 211
हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥
हकाररूपा ।
हकार रूप षष्ठावयव यस्या सा,
मूलविद्यावाच्यार्थवाचक यस्या सा, तथा ।
ॐ हकाररूपायै नम ॥
हलधृक्पूजिता ।
हल युग धरति इति हलधृक् बलराम, तेन पूजिता ध्यानादिभिराराधितेत्यर्थ ॥
ॐ हलधृक्पूजितायै नमः ॥
हरिणेक्षणा ।
हरिण्या एण्या ईक्षणमिव ईक्षण यस्या
सा तथा, अतिसतोषेण कातराक्षीति भाव ।
सर्वत्र सर्वदा सर्वद्रष्ट्रीति वा ।
भक्तेष्वादरहेतुदर्शनवतीति भाव ॥
ॐ हरिणेक्षणायै नम ॥
हरप्रिया ।
हरस्य प्रिया शिववल्लभेत्यर्थ ।
हर प्रियो
यस्या सा इति वा ॥
ॐ हरप्रियायै नमः ॥
इराराध्या ।
हरेण स्वभर्त्रा आराधितु योग्या, केवलसच्चिदानन्दस्वरूपत्वात् । ।
ॐ हराराध्यायै नमः ॥
हरिब्रह्मेन्द्रवन्दिता ।
हरि रमेश ।
ब्रह्मा वाणीश ।
p. 212
इन्द्रो देवेशः उपलक्षणं सर्वदेवभेदानाम् ।
तैर्वन्दिता नमस्कृता ॥
ॐ हरिब्रह्मेन्द्रवन्दितायै नमः ॥
हयारूढासेविताङ्घ्रिर्हयमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥
हयारूढासेविताङ्घ्रिः ।
हयारूढानाम् अश्वमात्रसेनानीशक्तिः वश्यकरी ।
तया सेवितौ अङ्घ्री यस्याः सा तथा ॥
ॐ हयारूढासेविताङ्घ्र्यै नमः ॥
हयमेधसमर्चिता ।
हयमेधेन अश्वमेधेन समर्चिता पूजिता ।
पुरुषत्वादिप्राप्त्यै इलादिभिरित्यर्थः ॥
ॐ हयमेधसमर्चितायै नमः ॥
हर्यक्षवाहना ।
वाहयतीति वाहनम्, हर्यक्षः केसरी वाहनं यस्याः सा तथा ।
महालक्ष्मीरूपदुर्गेत्यर्थः ॥
ॐ हर्यक्षवाहनायै नमः ॥
हंसवाहना ।
हन्ति गच्छतीति हंसः सूर्यः प्राणो वा, वाहनवत् आधारभूतप्रतीकमित्यर्थः; अभिव्यक्तिस्थानमिति यावत्, ‘स यश्चायं पुरुषे ।
यश्चासावादित्ये ।
स एकः’ इति श्रुतेः ।
अथवा, हंसवाहना ब्राह्मीरूपेणेत्यर्थः ॥
ॐ हंसवाहनायै नमः ॥
p. 213
हतदानवा ।
इता दानवा अनेकप्रकारशक्तिरूपधरया भण्डासुरादय यया सा तथा ॥
ॐ इतदानवायै नमः ॥
हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना । ।
हत्यादिपापशमनी ।
हत्या ब्रह्महत्या आदिर्येषा तानि तथा पापानि शमयतीति तथा, 'हरिर्हरति पापानि' इति वचनात् । ।
ॐ हत्यादिपापशमन्यै नमः । ।
हरिदश्वादिसेविता ।
हरित् हरिद्वर्ण मरकत इव अश्वो यस्येन्द्रस्य स तथा आदिर्येषा दिक्पतीना तै सविता चरणारविन्दसनिधिंं किंकरतयाश्रितेत्यथ ॥
ॐ हरिदश्वादिसेवितायै नम ॥
हस्तिकुम्भोत्तुङ्गकुचा ।
हस्त अस्यास्तीति हस्ती, तस्य कुम्भौ तद्वदुन्नतौ कुचौ सान्द्रौ यस्या सा तथा ॥
ॐ ह स्तिकुम्भोत्तुङ्गकुचायै नम ॥
हस्तिकृत्तिप्रियाङ्गना ।
इस्तिन कृत्तौ चर्मणि प्रिय प्रीतिमान् शिव , तस्याङ्गना भामिनीत्यथ ॥
ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः ॥
p. 214
हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदोल्लसा ॥
हरिद्राकुङ्कुमादिग्धा ।
हरिद्राकुङ्कुमाभ्या उपलक्षण कस्तूरीपत्रादीनाम् ।
दिग्धा लिप्तेत्यर्थ ॥
ॐ हरिद्राकुङ्कुमादि ग्धायै नम ॥
हर्यश्वाद्यमरार्चिता ।
हर्यश्व सुरेश आदिर्येषाम् अम राणा तैरर्चिता किंकरतया नियामकत्वेन पूजितेत्यर्थ ॥
ॐ हर्यश्वाद्यमरार्चितायै नमः ॥
हरिकेशसखी ।
हरय हरिद्वर्णा केशा शिरोरुहा यस्य, 'हिरण्यश्मश्रुर्हिरण्यकेश ' इति श्रुते ।
तस्य सखी प्रयोज नमनपेक्ष्योपकारिणीत्यर्थ ।
यद्वा वर्णेन नीलेन हरिणा विष्णुना समा केशा अस्य सन्तीति सर्वाङ्गसुन्दरनित्ययौवनचि द्रूपसहितकामेश्वर , तस्य सखी । ।
ॐ हरिकेशसख्यै नमः ॥
हादिविद्या ।
लोपामुद्रापासितमनुरूपत्यर्थ ॥
ॐ हादि विद्यायै नम ॥
हालामदालसा ।
हालाया अमृतमथनाद्भूतवारुण्या मदेन उल्लासेन अलसा आरक्तनेत्रान्तरोमाञ्चादिचिह्नवती त्यर्थ ॥
ॐ हालामदालसायै नमः । ।
p. 215
सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥
सकाररूपा ।
द्वितीयखण्डद्वितीयावयवत्वेन ज्ञापक यस्या सा तथा ॥
ॐ सकाररूपायै नमः ।
सर्वज्ञा ।
अलुप्तनित्यज्ञानस्वरूपेण सामान्यरूपेण सर्वं जानातीति सर्वज्ञा, “य सर्वज्ञ सर्ववित्' इति श्रुते ॥
ॐ सर्वज्ञायै नम ॥
सर्वेशी ।
सर्वस्य कार्यस्य अन्तर्यामिरूपेण ईष्टे प्रेरयती ति तथा ॥
ॐ सर्वेश्यै नमः ॥
सर्वमङ्गला ।
सर्वप्रकारेण शुद्धविशिष्टचैतन्यरूपेण मङ्ग ला परमानन्दस्वरूपा ।
अत्र बहुप्रीहेरविवक्षितत्वात् विषक्षिताया वा सुन्दरकायो राजत्यादिवत् समासार्थ ।
अथवा, सर्वेषा मङ्गल यस्या सा तथा ।
सर्वै प्रकारै ध्यानकीर्त नपूजानमस्काराद्यर्चनभक्तिजन्यकैङ्कर्यै जडानामपि मङ्गल सुख यस्या जायत सा तथा ।
सर्वेषामात्मरूपतया प्रतीय मान मङ्गल सुखस्वरूप यस्या सेति वा ।
सर्वशब्दवाच्य सर्वकारण शिव , तस्य मङ्गल सुख यस्या जायते सा तथा, सञ्चिन्मय शिव साक्षात्तस्यानन्दमयी शिवा' इति च
p. 216
)
चनात् ।
अथवा, मङ्गलशब्दन मङ्गलहतुभूता स्त्रियो
लक्ष्यन्ते ।
सर्वेषा प्राणिना मङ्गल मङ्गलसाधनभूता योषा
स्वाभिन्नसच्चिदानन्दवत्त्वेन यस्या सा तथा, 'एतस्यैवान.
न्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेरित्यर्थ ।
'अशुभानि निराचष्टे तनोति शुभसततिम् ।
स्मृतिमात्रेण
यत्पुसा ब्रह्म तन्मङ्गल विदु ।
अतिकल्याणरूपत्वात् नित्य-
कल्याणसश्रयात् ।
स्मतृणा वरदत्वाच्च ब्रह्म तन्मङ्गल विदु
इत्यादिवचनात् | |
ॐ सर्वमङ्गलायै नम ॥
सर्वकर्त्री ।
सर्वं समस्त स्वशक्त्या मायारूपया करा
तीति तथा, 'ईशत ईशनीमि ' इति श्रुत ॥
ॐ सर्वकर्त्र्यै
नमः ॥
सर्वभत्री ।
सर्वं बिभर्तीति तथा, एष विधृतिरेषा
लाकानाम् इति श्रुत ॥
ॐ सर्वभर्त्र्यै नमः । ।
सवहन्त्री ।
सर्वं हरतीति तथा ।
एभिनामत्रयै 'यतो
वा' इत्यादिश्रुत्युक्ततटस्थलक्षणत्रयमभिहितमिति वेदित
व्यम् ।
ॐ सर्वहन्त्र्यै नम ॥
सनातना ।
अजो नित्य शाश्वताऽय पुराण इति
श्रुत नित्यसिद्धस्वरूपेत्यर्थ । ।
ॐ सनातनायै नम । ।
>
p. 217
सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी । ।
सर्वानवद्या ।
सर्वैर्ज्ञानैश्वर्यादिगुणैरनवद्या |
अवद्यानाम
विद्यया हीना जडप्रकृति मिथ्या बाध्यमानत्वात् ।
तद्विलक्षणा
सत्यज्ञानानन्दरूपत्वादनवद्या ।
सर्वेषा सर्वाभीष्टप्रापकत्वेन
स्तुत्या वा । ।
ॐ सर्वानवद्यायै नम ॥
सर्वाङ्गसुन्दरी ।
सर्वाणि च तानि अङ्गानि च अवयवा
शिर पाण्यादय , तेष्वन्यूनातिरिक्तभाववत्त्वात् यथासामुद्रि
कलक्षण तद्वत्त्वन सर्वाङ्गसुन्दरी ।
अथवा, सर्वेषामङ्गेषु
शरीरेषु ब्रह्मस्वरूपतया अत्यन्तप्रेमविषयत्वेन सुन्दरपदार्थ
वदविनाभाववाञ्छाविषयत्वात् तथा ॥
ॐ सर्वाङ्गसुन्दर्यै
नम ॥
सर्वसाक्षिणी ।
सर्वेषा जडाना कार्याणा स्फूत्याधायक-
त्वेन प्रकाशकर्त्री तथा ।
सर्वं साक्षादीक्षत इति वा तथा ॥
ॐ सर्वसाक्षिण्यै नम ॥
सर्वात्मिका ।
सर्वेषामात्मस्वरूपत्वात् ।
'यच्चाप्नोति यदा
दत्ते यच्चात्ति विषयानिह ।
यच्चास्य सतता भावस्तस्मादात्मेति
गीयत' इति वचनातथा ॥
ॐ सर्वात्मिकायै नम | |
p. 218
सवसौख्यपात्री ।
सुखिन भाव सौख्यम् , सर्वाणि च
तानि प्रियमोदप्रमोदानन्दशब्दवाच्यानि ।
इष्टदर्शनजन्य
सुख प्रिय ।
तल्लामजन्य मोद ।
तदनुभवजन्य प्रमोद ।
आनन्द समष्टि ।
जीव भोक्ता ।
तानि ददातीति तथा ।
सर्वप्रकारै स्मरणादिमि सौख्य ददातीति वा ।
सर्वेषा
माब्रह्मस्तम्बपर्यन्ताना यथाकर्मोपासन प्रत्यक्षेण दृश्यमान
ज्ञानेश्वर्यादिसहित सुख ददातीति वा तथा ।
एष ह्यवानन्द
याति' इति श्रुते ॥
ॐ सर्वसौख्यदात्र्यै नम ॥
सर्वविमाहिनी ।
सर्वान् विमोहयतीति अन्यथा ग्राहय
सीति वा तथा ।
'अज्ञानेनावृत ज्ञान तन मुह्यन्ति जन्तव 'अनृतेन हि प्रत्यूढा ' इति श्रुतिस्मृतिभ्या अज्ञाना
वरणशक्तिकार्यं मोहनादिसत्ताप्रकाशादिप्रधानाधिष्ठानत्वेन
उपचारात् सर्वं माहयतीत्युच्यत ।
अयो दहतीतिवत् ॥
ॐ सर्वविमोहिन्यै नम ॥
सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषणभूषिता । ।
सर्वाधारा ।
सर्वस्याधारा 'ब्रह्म पुच्छ प्रतिष्ठा' इति
श्रुते ।
सर्वेषा हृदयानि आधार अभिव्यक्तिस्थान उपासनाय
p. 219
यस्याः सेति तथा ॥
ॐ सर्वाधारायै नमः ॥
सर्वगता ।
सर्वे गच्छतीति तथा ।
'अनेन जीवेनात्मनानुप्रविश्य ' इति श्रुतेः ॥
ॐ सर्वगतायै नमः ॥
सर्वावगुणवर्जिता ।
अवमानहेतवश्च ते गुणाश्च तथा ;
आध्यात्मिकसंबन्धेन आरोपिताः सत्त्वादयः समष्टौ, अन्तः-
करणधर्माः कामादयः व्यष्टौ ; सर्वे च ते अवगुणाश्च तथा ।
सर्वान्तर्यामित्वेन सर्वानुस्यूतत्वेऽपि तत्तदुपाधिनिष्ठोत्तमाधमधर्मैः न संबध्यते— घटादिनिष्ठाकाशवत् कोशान्तर्गतखड्गवद्वा ; 'सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन
बाह्यः' इति श्रुतेः ॥
ॐ सर्वावगुणवर्जितायै नमः ॥
'असौ यस्तासर्वारुणा ।
सर्वेष्वङ्गेष्वरुणा आरक्तवती,
म्रो अरुणः' इति श्रुतेः ॥
ॐ सर्वारुणायै नमः ॥
सर्वमाता ।
सर्वेण कार्येण मीयते अनुमीयते ऽभेदेनेति
तथा ।
तथा हि — इदं जगत् ब्रह्माभिन्नं तत्सत्तास्फूर्तिनियतसत्ताप्रकाशज्ञानविषयत्वात् ; यत् यन्नियतसत्ताप्रकाशवान्
यथा तन्तुकार्यः पट इति ।
सर्वान् मिनोति
स्वाभेदेन जानातीति तथा ॥
ॐ सर्वमात्रे नमः ॥
स तदभिन्नः-
p. 220
सर्वभूषणभूषिता ।
सर्वात्मकत्वेन ये ये प्राणिनः यानि
यानि भूषणालंकारभोजनादीनि भोग्यवस्तून्यात्मार्थं संपादयन्ति तेषां सर्वेषां प्रत्यक्तया तैः सर्वैर्भूषिता उपकृतेत्यर्थः ;
आत्मनस्तु कामाय सर्वे प्रियं भवति' इति श्रुतेः ।
अथवा,
सर्वदेवात्मकत्वेन सर्वभक्तजनस्य स्वस्वेष्टदेवताप्रीत्यर्थ भूषणभूषितत्वेन तथा ।
अथवा, सर्वैर्भक्तजनैः तत्तदवयवेषु
भूषणैरारोपिता ; स्वस्याः महाराज्ञीत्वेन असंगोदासीनस्वभावत्वादिति भावः ।
यद्वा, सर्वदेशकाललोकेषु भूषणैः
तव तत्र भवैः उच्चावचैर्भूषणैरारोपिता ; हस्त्यश्वादिदेहोपाधिका सती तत्तदीयालंकारादिषु जुगुप्सारहितेत्यर्थः ।
भूषयन्ति सर्वोत्तमत्वेन प्रतिपादयन्तीति भूषणानि वेदान्तमहावाक्यानि ; सर्वैः समस्तैः गतिसामान्यात् एकतात्पर्येण
भूषिता लक्षणया पर्यवसिता समन्विता वेत्यर्थः ॥
सर्वभूषणभूषितायै नमः ।
ॐ
ककारार्था कालही कामेशी कामितार्थदा ।
कामसंजीवनी कल्या कठिनस्तनमण्डला ॥
: ककारार्था ।
'कं ब्रह्म' इति श्रुत्या ककारस्य ब्रह्मार्थकत्वेन तद्व्यतिरिक्तस्यातदर्थस्य बाधितत्वात् ॥
ॐ ककाराथायै नमः ॥
p. 221
कालहन्त्री ।
अजपारूपेण प्राणापाननामकचन्द्रसूर्यनियमने पुरुषाणां नियमित परिमितायुः स्वरूपैकविंशतिषट्शताधिकसहस्रसंख्याकनिर्गमनरूपेण क्षपयन्ति अवशेषायुषो
युगकल्पाद्यविशिष्टस्य वृद्धौ पुनः संयमने तथा तथा वृद्धौ
संयुञ्जानस्य सर्वप्राणेन्द्रियस्य वृत्तिलये मनोन्मन्यवस्था निष्पद्यते ।
तथा च श्रुतिः - ' पृथिव्यप्तेजोऽनिलखे समुत्थिते
पञ्चात्मके योगगुणे प्रवृत्ते ।
न तस्य रोगो न जरा न
मृत्युः प्राप्तस्य योगाग्निमयं शरीरम' इति ' अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' इति च ।
तथा च तदानीमाविर्भूतब्रह्मस्वरूपेण 'ततः संवत्सरोऽजायत' इति श्रुत्या क्रियाशक्त्यात्मककालोत्पत्तिश्रवणात्
तस्मिन् ब्रह्मण्येव लये कालं हन्ति नाशयतीति तथा
नामनिर्वचनं युक्तं वक्तुमिति भावः ॥
ॐ कालहन्त्र्यै
नमः ॥
'
कामेशी ।
कामानां भोग्यपदार्थानां यथादृष्टं ईष्टे
प्रेरयतीति तथा ॥
ॐ कामेश्यै नमः ॥
कामितार्थदा ।
कामितानर्थान् ददातीति तथा,
' आप्तकामः' इति श्रुतेः ।
संसारदशायामावृतानन्दस्य अनाप्तवदवभासमानस्य आत्यन्तिकसुखात्मिका मुक्तिर्मे स्यादिति का -
p. 222
म्यमानत्वादात्मनः कामितत्वम् ।
कामितश्चासावर्थश्चेति तस्यैव
ज्ञानस्यावरणाभिभावकत्वेन प्राप्तप्राप्तिरूपतया तं ददाति प्रयच्छतीति प्रकाशस्वरूपेण अनुभावयतीत्यर्थः ॥
ॐ कामितार्थदायै नमः ॥
कामसंजीवनी ।
कामं मन्मथं परमेश्वरनेत्राग्निविप्लुष्टं
भण्डासुरात्मना अनेककालदेवलोकविपक्षं कामशास्त्रप्रयोगसमये रतिदेवीप्रार्थन समीचीनतदीयपूर्वकायं तपश्चर्यादिपरिपाकफलभूतं करुणारसपूरितापाङ्गावलोकनेन संजीवयति
सप्राणं कृत्वा तस्मै वरादि प्रयच्छति तेन तं हर्षयतीति
तथा ॥
ॐ कामसंजीवन्यै नमः ॥
कल्या ।
कलयितुं ध्यातुं योग्या ।
अथवा, सर्वोत्तमदेवत्वेन ध्यातुं योग्या कल्या ।
कलेः कामधेनुत्वेन यथा वाञ्छितार्थकारणम् ॥
ॐ कल्यायै नमः ॥
कठिनस्तनमण्डला ।
स्तनयोः मण्डले आदिमभागौ सान्तः प्रदेशौ कठिने अप्रकम्पे अतिस्थिरे वा यस्याः तथा ॥
ॐ कठिनस्तनमण्डलायै नमः ॥
करभोरुः कलानाथमुखी कचजिताम्बुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥
p. 223
मणिकरभोरुः ।
करभ इव ऊरू यस्याः सा तथा ।
बन्धादाकनिष्ठं करस्य करभो बहिः' इति प्रमाणादिति भावः ॥
ॐ करभोरवे नमः ॥
कलानाथमुखी ।
कलाः चतुःषष्टिकलाः नाथयति प्रेरयतीति कलानाथः, 'निश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदः' इत्यादिश्रुतेः, 'शास्त्रयोनित्वात्' इति न्यायाच्च ।
तादृशमुखं वदनं यस्याः सेति तथा ।
कलानाथश्चन्द्र इव
मुखं यस्याः सेति वा ॥
ॐ कलानाथमुख्यै नमः ॥
कचजिताम्बुदा ।
कचेन केशभारेण कबरेण वेत्यर्थः ।
जिताः अधरीकृताः अम्बुदा मेघा यया सा तथा ;
मेघमण्डलापेक्षया ऊर्ध्वगामिशिरोरुहभारा व्योमकेशीति भावः ।
अथवा, केशवृत्ति नीलरूपेण सादृश्यासहत्वेन धिक्कृताः
मेघाः यया सा तथा ॥
ॐ कचजिताम्बुदायै नमः ॥
कटाक्षस्यन्दिकरुणा ।
यद्यपि दीनेषु परिपाल्यता बुद्धिदेवानां महतां करुणेत्युच्यते, तथापि तस्याः आन्तरत्वेन
अज्ञायमानतया तेषु भक्त्यतिशयेन प्रवृत्त्यर्थ सेवादौ तद्वत्ताज्ञानस्यावश्यकफलप्रदानादिहेतुतया निश्चयेन तदनुरूपकसात्त्विकवीक्षणस्मेर संभाषणादिसत्त्वं तत्रावश्यं भवतीति का -
र्यसत्त्वप्रसञ्जितकारणसत्त्ववत्त्वात्, करुणायाः नवरसेष्व-
p. 224
-न्तर्भावात्, रसशब्दस्य मधुरादौ रूढत्वात् तेषामनिर्वचनीयत्वेऽपि अनुभवगोचरतायामिक्ष्वादिसारद्रव्य पदार्थनिष्ठत्वोपलब्धेः तत्संबन्धवशात् परंपरया द्रवद्रव्यवृत्तिस्यन्दनरूपक्रियाश्रयत्वमुपचर्यते ।
तथा च कटाक्षस्यन्दिनी करुणा
परिपाल्यताबुद्धिरूपा यस्याः सा तथा ॥
ॐ कटाक्षस्यन्दिकरुणायै नमः ॥
कपालिप्राणनायिका ।
कपालमस्य अस्तीति कपाली आनन्दभैरवः, तम्य प्राणनायिका प्राणस्येत्युपलक्षणं पञ्चानाम ।
नायिका अधिष्ठानत्वेन प्रेरका ।
न प्राणेन नापानेन मर्त्यो
जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ'
इति श्रुतेः ।
तस्यापि हृदयान्तर्वर्तिपरमेश्वररूपेति यावत् ।
प्राणवल्लभेति वा ; प्रियेति भावः ।
ॐ कपालिप्राणनायिकायै नमः ॥
कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥
कारुण्यविग्रहा ।
कारुण्यं पूर्वोक्तकृपा, करुणस्य भावः,
तत् विग्रहः मूर्तिर्यस्याः सेति तथा ।
कारुण्यस्यान्तःकरणपरिणामबुद्धिरूपत्वेन नेत्रान्तवीक्षासस्मितभाषादिनानुमीयमानत्वेऽपि साक्षात्तज्जन्यमनोवाञ्छितवरप्रदाना-
p. 225
दीनां शरीरावयवविशेषजन्यतया कारुण्यं विग्रहो यस्याः
सेति समासोपपत्तिः ।
मायोपाधिकस्य ब्रह्मणः जगत्सृष्टथनुकरणहेतुभूतस्वेच्छामात्रनिमित्तककर्मानधीनसच्चिदानन्दघ -
नीभूतात्मकभक्तानुग्राहकविग्रहवत्तां विना देवतायाः बुद्धावनारोपेण सगुणोपासनमनुपपद्यमानं स्यात् ;
तदर्थं
देवताधिकरणे मन्त्रप्रकाशिता देवाः 'वज्रहस्तः पुरन्दरः '
इत्यादिस्वतःप्रमाणवेदवाक्यवशात् बाधकाभावे
विग्रहवन्तः अङ्गीकर्तव्या इति प्रतिष्ठापितम् ।
तथा 'बहु
शोभमानामुमां हैमवतीम्' इति केनोपनिषद्भाष्ये हैमानि
हेमविकाराणि भूषणानि यखाः सेति वा तथा, हिमवतः
अपत्यं स्त्रीति च तथेति परदेवतायाः दिव्यविग्रहवत्त्वं प्रतिष्ठापितम् ।
तथा च महानुभावानां स्वप्रकाशचैतन्यरूपाणामेवंभूतानां सर्वात्मना सर्वोत्तमानां मूर्तित्रयदेवानां ध्यानाद्युपकाराय तादृशमूर्तिमत्त्वम् अस्तीति न किंचिदनीश्वरवादप्रसङ्गावकाश इति आस्तां विस्तरः ॥
कारुण्यविग्रहायै नमः ॥
ॐ
कान्ता ।
' कन दीप्तौ' इति धातोः अत्यन्तमनोहरत मेत्यर्थः ।
मदनगोपालविग्रहा वा ।
' कदाचिदाद्या ललिता पुंरूपा कृष्णविप्रहा ।
वंशनादविनोदेन करोति विवशं जगत्
p. 226
इति त्रिपुरतापनीये ॥
ॐ कान्तायै नमः ॥
, ।
कान्तिधूतजपावलिः ।
जपानां जपापुष्पाणाम्, उपलक्षणम्
अन्येषामारक्तवर्णानाम् भावलिः पङ्किः दृष्टान्तत्वेन कविभि
रुत्प्रेक्षिता ।
कान्त्या अप्राकृतस्वच्छपरमानन्दचिद्भासा धूताः
परित्यक्ताः प्राकृतत्वेन अल्पकान्तिमत्तया उपमायोग्यतया
यया सा ; 'न हि महान्तो नीचैरुपमीयन्ते ' इति न्यायादिति भावः ॥
ॐ कान्तिधूतजपावल्यै नमः ॥
कलालापा ।
कलाः चतुःषष्टिकलाः आलापो व्यावहारिकशब्दः यस्याः सा तथा, ' वेदशास्त्रमयी वाणी यस्याः
सा परदेवता' इति वचनात् ।
कलः अव्यक्तमधुरः सप्रयोजनः आलापः संलापो यस्थाः सेति वा तथा ;
भारती तथा' इति महापुरुषसामुद्रिकवचनात् ॥
ॐ
कलालापायै नमः ॥
' अव्यक्ता
कम्बुकण्ठी ।
कम्बुशब्देन अत्र शङ्खनिष्ठरेखात्रयं लक्ष्यते ।
तद्वान्कण्ठो यस्याः सेति तथा गुणनामेदम् ॥
ॐ
कम्बुकण्ठ्यै नमः ॥
करनिर्जितपल्लवा ।
करशब्देन करतलं लक्ष्यते ।
पलवशब्देन तन्निष्ठपाटल्यं स्निग्धता लक्षणया इत्यर्थः ।
तथा
p. 227
च अन्योन्यगुणयोर्जयपराजये, अर्थात्तद्वतोरपि तौ सिद्धाविति तन्नामोपपत्तिः ।
' विवाहश्च विवादश्च समयोरेव शोभते'
इति वचनात् करतले तत्साम्यध्वनिरनेन नाम्ना कृतः ।
करेण निर्जिताः पल्लवाः यस्याः सा तथा ॥
ॐ करनिर्जितपल्लवायै नमः ॥
कल्पवल्लीसमभुजा कस्तूरीतिलकाश्चिता ।
हकारार्था हंसगतिहटकाभरणोज्ज्वला ॥
कल्पवल्लीसमभुजा ।
यथा दिव्यवृक्षाः नन्दनोद्याने प्रसिद्धाः तथा तदलंकाराय वल्ल्यादयोऽपि, कल्पयन्ति संपादयन्तीति कल्पा : ; कल्पाश्च ता वल्ल्यश्च व्रतत्यः, ताभिः
समाः भुजाः हस्ताः यस्याः सा तथा ।
कविसंप्रदायप्राध्या
स्त्रीभुजानां वल्लीसाम्योक्तिरिति मन्तव्यम् ।
अत्र समपदस्वारस्येन तेषामपि तदवच्छिन्न चैतन्यद्वारा यथाप्रारब्धं चेतनवल्लोकवाञ्छितफलकर्तृत्वमिति ध्वनितम् ।
'एकस्तथा
सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च' इति श्रुतेः,
' तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम्' इति स्मृतौ च
भगवता स्वकीय सच्चिदानन्दस्वरूपावस्थितिरेवोक्ता ।
अत एव
परदेवीभुजानां नैव साम्योक्तिरिति शङ्का निरस्ता वेदि
p. 228
तव्या, औपाधिकचैतन्येन तथाभूतचैतन्यस्य साम्योपपत्तेः ॥
ॐ कल्पवल्लीसमभुजायै नमः ॥
कस्तूरीतिलकाचिता ।
कस्तूरीतिलकेन ललाटदेश संस्थापितबिन्द्वाकारमृगनाभिना अश्चिता चिह्निता अलंकृतेत्यर्थः ॥
ॐ कस्तूरीतिलकाञ्चितायै नमः ॥
हकारार्था ।
हकारस्य आकाशबीजस्य अर्था, अर्थः स्वरूपचैतन्यम् आकाशविग्रहेत्यर्थः, 'आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इति श्रुतेः ॥
ॐ
ढकारार्थायै नमः ॥
हंसगतिः ।
हन्ति गच्छतीति हंसः प्राणः आदित्यो वा ।
इंसस्य प्राणस्य गतिः गमनागमने लक्षणया तज्जाप्याजपामन्त्ररूपा यस्याः सा तथा, 'हकारेण बहिर्याति सकारेण
पुनर्विशेत्' इति वचनात् ।
यद्वा, तदभिमानिदेवतारूपाप्रीषोमात्मकसूर्यचन्द्रगती अहोरात्रात्मककालस्वरूपायाः यस्याः सा ।
अथवा, हन्ति देहाद्देहान्तरं गच्छति स्वकर्मवशेनेति हंसो जीवः, तस्य गतिः प्राप्यस्थानं मुक्तिरित्यर्थः ; 'ब्रह्मविदाप्नोति परम्' 'यद्गत्वा न निवर्तन्ते '
इति श्रुतिस्मृतिवचनात् ।
अथवा, हन्ति स्वकार्यभूतं
जगत्प्रविशतीति हंसः ।
' हंसस्तु परमेश्वरः' इति नृसिंहता-
p. 229
पनीये ।
गम्यते प्राप्यते शरणत्वेन प्रपद्यते चतुर्विधभक्तैरिति गतिः ।
हंसश्चासौ गतिश्चेति सामानाधिकरण्यसमासः,
'हसः शुचिषत्' इति श्रुतेः ।
आहोस्वित्, हंसस्य ब्रह्मवाहनस्य गतिरिव गमनं यस्याः सा तथा ।
उताहो, हंसशब्देन
नामैकदेशेन इंसकं पादकटकमुच्यते ; गम्यते अनेनेति
गतिः चरणम् ; हंसयुक्ते गती पादारविन्दे यस्याः सा
तथा यद्वा, हंसशब्देन नित्यानित्यसारासारजडाजडादिवस्तुविवेकसमर्थाः, हन्ति गच्छन्ति प्रतिग्रामं प्रतिदेशम्
इति हंसाः परिव्राजकाः चतुर्थाश्रमिणः निष्कामाः ; तेषां
गतिः गम्यते ज्ञायते साक्षात्क्रियत इति गतिः ; ' संन्यासयो -
गाद्यतयः शुद्धसत्वाः' इति श्रुतेः ।
' ये पूर्व देवा ऋषयश्च
तद्विदुः ते तन्मया अमृता वै बभूवुः' इति श्रुतेः ।
जीवन्मुक्तपुरुषानुभूयमानपरमानन्दमुक्तिस्वरूपेत्यर्थः ॥
ॐ हंसगत्यै नमः ॥
हाटकाभरणोज्ज्वला ।
हाटकस्य सुवर्णस्य कार्याणि च
तानि आभरणानि च हाटकाभरणानि तैरुज्ज्वला तथा,
प्रकाशिता अलंकृतेत्यर्थः ।
हाटकस्य सुवर्णरूपब्रह्माण्डस्य
आभरणवदुज्ज्वला प्रकाशकरी सत्तास्फूर्तिकरीत्यर्थः ।
यद्वा,
तस्मिन्नाभरणैः मङ्गलसूत्रादिभिः सनाथस्त्रीमण्डल स्वरूपैरु-
p. 230
कलितात्रिशतीभाष्यम् ।
ज्ज्वलतीति ।
आहोस्वित्, कार्यकारणद्वयरूपवसुदानेन वसुस्वरूपेण वा उज्ज्वलति प्रकाशत इति तथा, 'वसुरन्तरिक्षसत्' इति श्रुतेः ॥
ॐ हाटकाभरणोज्ज्वलायै नमः ॥
हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥
हारहारिकुचाभोगा ।
हरस्य परमेश्वरस्य इमे संबन्धिनः
द्वाराः ईश्वरत्वाप्तकामत्वनित्यतृप्तत्वादयो गुणाः; तान् हरति
तद्विपरीताविद्याद्याधानेन उत्सादयतीति हारहारी, कुचयोराभोगः पर्यन्तभूमिः यस्याः सा तथा ।
परमेश्वरस्य
तद्विषयकवाञ्छया तदेकसक्तमनस्त्वेन तत्कारणीभूताविद्यावशवृत्तित्वेन वशीकृतमायत्व स्वरूपेश्वरत्वसमानाधिकरणाप्तकामत्वादयः अपहृताः, जीवेश्वरयोरेकल तेषां तद्गुणानां च सामानाधिकरण्यायोगादित्यर्थः ।
तथा च ईश्वरस्य
मदिष्टसाधनमित्यन्यत्र पदार्थे बुद्धिमत्त्वस्यैव बहुभवनरूपतया तस्य जगदाकारत्वाधायका - इत्यधिकगुणोत्प्रेक्षाविषयत्वेन
भोगस्यातिशयोक्तिरिति द्रष्टव्यम् ।
अथवा, हारान् मुक्तास्रजः हरति आदत्ते इति हारहारी कुचाभोगो यस्याः सेति
तथा षट्प्रकारेण मुक्ताहारेण यथोचितकालं भूषितवतीति
भावः ॥
ॐ हारहारिकुचाभोगायै नमः ॥
p. 231
हाकिनी ।
हाकयति जन्ममरणयो छेदयतीति हा
किनी , 'हाक् च्छेदे' इति धातुपाठात् । ।
ॐ हाकिन्यै
नम ॥
हल्यवर्जिता ।
हलसबन्धि हल्य कृष्यादिद्वारा जनक
त्वम् , तद्वर्जिता, कामादिविहीनशुद्धचैतन्यस्वरूपत्वात् ।
हल्य कपट मित्रेष्वप्यन्यथा स्वान्त करणाविष्कृति तेन व
जिता ।
अविद्याविरहिततत्त्वपदलक्ष्यार्थभूतत्वादिति यावत् ॥
ॐ हल्यवर्जितायै नम ॥
हरित्पतिसमाराध्या ।
हरिता दिशा पतय महेन्द्रादय ,
तै सम्यक् श्रद्धाभक्तिपूर्वकम् आराधितु योग्या ।
तद्विपक्ष
निबर्हणनेष्टप्रापकदैवतत्वादित्यभिसधि ॥
ॐ हरित्पतिस
माराध्यायै नम ॥
हठात्कारहतासुरा ।
हठात्कारेण अतिशीघ्रतया हता
पराभूता असुरा असुरपक्षा महिषादयो यया सा तथा,
समबलयो किल लोके सामाधुपाय बलाबलविचारणा
च भवति ।
प्रबलस्य तु दुर्बलेषु वैरिषु सिंहस्य मेषेष्विव
तदयोगेन अतित्वरयाविचारेणैव देवलोकसुखप्रदा-इति ना
मार्थविचारणायामितरेषु केमुतिकन्यायेन तत्कारणत्व ध्व
नितमिति योजनीयम् ॥
ॐ हठात्कारहतासुरायै नम ॥
p. 232
हर्षप्रदा हविर्भोक्त्री हार्दसंतमसापहा ।
हल्लीसलास्यसंतुष्टा हंसमन्त्रार्थरूपिणी ॥
हर्षप्रदा ।
हर्षः आनन्दकारकः मुखविकासादिकार्योन्नेयः
स्वात्मसंभावनेतरपरिभवनिमित्तचित्तवृत्तिविशेषः, कार्यस्य
कारणाविनाभावितया तत्प्रदानं तद्धेतोरप्याक्षिपतीति सुखप्रदेत्यर्थः ।
प्रददातीति प्रदा ।
अथवा, हर्ष धनयौवनादि -
सुखं पुत्रबन्धुवर्गादिरूपेण परिहृत्य प्रकर्षेण द्यति खण्डयतीति वा तथा ॥
ॐ हर्षप्रदायै नमः ॥
हविर्भोक्त्री ।
'स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्' इति श्रुतेः वसुरुद्रादित्याकारेण हवींषि
यजमानेन अग्नौ प्रक्षिप्तानि स्वाहामुखेन भुङ्क्त इति तथा ।
यद्वा हवींषि कालान्तरभाविफलानि अदृष्टात्मना सूक्ष्मरूपाणि तत्तद्यजमानजीवगतानि भूतसूक्ष्माभिधानानि समष्टिव्यष्टथात्मनेश्वरजीवोपाधिभूतानि मायाविद्याशब्दितानि मुक्तिपर्यन्तं भुनक्ति पालयतीति वा तथा ।
अन्यथा संसारस्यानादित्वाभावेन आदिमशरीराद्युत्पत्तौ अङ्गीक्रियमाणायाम् प्रपञ्चस्याकस्मिकत्वमकृताभ्यागमप्रसङ्गश्च स्यादिति
भावः ॥
ॐ हविर्भोक्त्र्यै नमः ॥
p. 233
हार्दसंतमसापहा ।
हृदयावच्छिन्नः हार्दः, 'यो वेद निहितं गुहायाम्' इति श्रुतेः ।
अस्मिन् यत्संतमसं आवारकत्वात् 'तम आसीत्' इति श्रुत्या च आत्मविषयकं तदाश्रयमज्ञानम् अनर्थकरम् अव्याकृताकाशमित्युच्यते, महावाक्यश्रवणजन्यधीवृत्तिप्रतिफलिताकारेणापहन्तीति सा तथा ।
नाहं ब्रह्मास्मि संसारी ब्रह्म नास्ति न भाति च - इत्यज्ञानस्य
सोऽहं ब्रह्मास्मि सच्चिदानन्दलक्षणः इति एकाकारवृत्तिबाध्यत्वनियमेन बाधाधिष्ठानम् 'नेह नाना' इति श्रुतिसिद्धब्रह्मरूपेति यावत् ॥
ॐ हार्दसंतमसापहायै नमः ॥
हल्लीसलास्यसंतुष्टा ।
हल्लीसैः चित्रदण्डैः कुमारिकाभिः
एकतालादियुक्तगीतपूर्वकं यल्लास्यं नर्तनं तस्मिन् संतुष्टा
प्रीतिमतीत्यर्थः ।
'नारीणां मण्डली नृत्यं बुधा हल्लीसकं
विदुः' इति हारावलीकोशात् मण्डलाकार नृत्य संतुष्टेत्यर्थः ॥
ॐ हल्लीसलास्यसंतुष्टायै नमः ॥
हंसमन्त्रार्थरूपिणी ।
हंसैः परमहंसैः उपास्यो यो मन्त्रः
प्रणवः तस्य शास्त्रवोधिततत्त्वार्थरूपिणी ।
वाच्यलक्ष्यार्थस्वरूपेण ज्ञायमानेत्यर्थः ।
अथवा, हंसमन्त्रः अजपा ।
हंकारसकारौ शोधिततत्त्वंपदार्थों, हुंकारस्य परोक्षवाचिनः सकारस्य तादृशस्य च भागत्यागलक्षणया निष्प्रपञ्चनित्यशुद्धमु-
p. 234
तबुद्धसच्चिदानन्दस्वरूपेत्यर्थः ॥
ॐ हंसमन्त्रार्थरूपिण्यै
नमः ॥
हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥
हानोपादाननिर्मुक्ता ।
अनिष्टसाधने हानं परित्यागक्रिया ।
इष्टसाधने उपादानं स्वीकारक्रिया ।
परिजिहीर्षा
आदित्सा वा ।
'अप्राणो ह्यमनाः शुभ्रः
96 अकायम्' 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति बहुश्रुतेः
अशरीरस्य ब्रह्मणोऽन्तःकरणादिधर्माणामसंभवात् ताभ्यां
निर्मुक्ता निःसङ्गेत्यर्थः, 'विमुक्तश्च विमुच्यते ' इति श्रुतेः ॥
ॐ हानोपादाननिर्मुक्तायै नमः ॥
हर्षिणी ।
' एष ह्येवानन्दयाति' इति श्रुतेः हर्षयति
संतोषयतीति तथा ॥
ॐ हर्षिण्यै नमः ॥
हरिसोदरी ।
हरिणा कृष्णेन समानं एकं उदरम् उत् ईषत्
अरं भेदकं अवच्छेदकमित्यर्थः ।
उचैररं कूटो वा अत्यल्पमि -
ध्याभूतमायोपाधिकचैतन्यावस्थाविशेषरूपा ।
' अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो
ययेदं धार्यते जगत्' 'देवात्मशक्तिं स्वगुणैर्निगूढाम्' इत्या-
p. 235
दिस्मृतिश्रुतिभ्याम् ईश्वरस्य रूपभेदवत्त्वावगमादिति मन्तव्यम् ॥
ॐ हरिसोदर्यै नमः ॥
हाहाहूहूमुखस्तुत्या ।
हाहाहूहूनामकगन्धर्वै मुख्यौ येषां
जनानां तैस्तथा ।
स्तुत्या गुणिनिष्ठगुणाभिधानं स्तुतिः ।
तदाश्रयत्वेन प्रतिपादनीयेत्यर्थः ॥
ॐ हाहाहूहूमुखस्तुत्यायै नमः ॥
हानिवृद्धिविवर्जिता ।
अवयवोपचयरूपा वृद्धिः ; तदपचयरूपा हानिः ; ताभ्यां वर्जिता, 'न कर्मणा वर्धते नो
कनीयान्' इति श्रुतेः ।
उपलक्षणम् ; षड्भावविकाराणां
शरीरधर्मत्वेन कर्मनिमित्तत्वादीश्वरे तदभावेन निर्विकारेत्यर्थः ।
ॐ हानिवृद्धिविवर्जितायै नमः ॥
हय्यङ्गवीनहृदया हरिगोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥
हय्यङ्गवीनहृदया ।
हय्यङ्गवीनवत् नवनीतसदृश विरलमृद्ववयवपरिणामद्रवत्वसादृश्ययोगिहृदयकृपारसरूपपरिणामवतीति सा तथा ।
हृदयाभावेऽपि सर्वात्मकतया तद्वत्त्वम् ।
ईक्षणादिवन्मायापरिणामरूपा दया वा हृदयशब्देन उच्यते ।
अवागमनाः' इति श्रुत्या सर्वनिषेधात् ॥
ॐ हय्यङ्गवीनहृदयायै नमः ॥
p. 236
5
हरिगोपारुणाशुका ।
हरिगोप इन्द्रगोप आद्रामघा-
नक्षत्रे वर्षासूद्भवा अष्टपादा रक्तवर्णा मृद्वङ्गा कीटवि-
शेषा , तथा शोणमशुक अम्बरम् ,
स्वार्थे कप्रत्यय ,
किरणानि वा यस्या सा तथा ।
ॐ हरिगोपारुणांशु-
कायै नम ॥
लकारख्या ।
लकारयुक्त मूलमन्त्र आख्या वाचक
शब्द यस्या सा तथा ।
लकारस्य शक्रबीजस्य वार्थ,
'सेन्द्र ' इति श्रुते ।
लकारयुक्तस्य मायाबीजस्य वा स्त-
ब्धमायेत्यर्थ ॥
ॐ लकाराख्यायै नम । ।
लतापूज्या ।
लवन्ति विनमन्ति अत्यन्तनम्रा भवन्तीति
लता परमपतिव्रता अरुन्धत्यादय स्त्रिय , ताभि स्थिरमा
ङ्गल्याय स्वेष्टदेवतात्वेन पूज्या पूजनीया ।
तदुक्तम्- 'समा
राध्य महेशानी भुक्ति मुक्तिं च विन्दति' इति ।
अथवा,
केदारादिगौरीविशेषमूर्तौ लताभि उपलक्षण बन्यपूजोपकरणै
पूज्या अलकृता ।
शबरी वा वनदुर्गा वेति भाव ॥
ॐ
लतापूज्यायै नमः ॥
लयस्थित्युद्भवेश्वरी ।
वैपरीत्येन विशेषण योज्यम् ।
उद्ध-
वतीत्युद्भव कार्यात्मना अभिव्यक्ति ।
स्थिति ज्ञानविषय
तायोग्यकालावच्छेद अनुभवसत्तावत्त्वमिति यावत् ।
लय
p. 237
उत्पन्नकार्यस्य कारणात्मना अवस्थिति वाचारम्भणयोग्यते
त्यर्थ ।
तासा क्रियाणाम् अचेतनकार्यत्वायोगेन घटादिकार्ये
चेतनस्य निमित्ततादर्शनात् एकतटस्थेश्वरत्व वा, गोपुरादौ
नानाचेतनदर्शनात्तादृशनानेश्वरत्व वेति विशये, 'यतो वा इ
मानि भूतानि जायन्ते' इति श्रुतौ 'यत ' इत्येकवचनपञ्च
म्या नानात्वतटस्थत्वे , 'जनिकर्तु प्रकृति ' इति सूत्रम् ।
जनि-
कर्तुं कार्यस्य प्रकृसिरुपादानमपादानसंज्ञा स्यात् ।
'अपादाने
पञ्चमी' इति शासनात् अभिन्ननिमित्तोपादनत्वमीश्वरत्वमिति
सिद्धान्त ।
तटस्थलक्षणमेतत् , ज्ञायमानस्य ब्रह्मण लक्षण
प्रमाणयो अवश्यवाच्यत्वादित्यभिप्राय ।
आदौ लयशब्दो
पादानेन अनादित्व प्रपञ्चस्य सूचितम् ।
जगत इति शब्द
पूरणन नाम योजनीयम् ।
तथा च जगत लयश्च स्थितिश्च
उद्भवश्च तेषामीश्वरी |
कूटस्थचैतन्यमात्रसच्चिदानन्दाधायक
तया विवर्तकारणमित्यर्थ ॥
ॐ लयस्थित्युद्भवेश्चर्यै
नमः ॥
लास्थदर्शनसतुष्टा लाशालाभाविवर्जिता ।
लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥
लास्यदर्शनसतुष्टा ।
यथा राजा सपूर्णकाम प्रयोजनम
p. 238
नुद्दिश्यापि मृगयादिलोलाविशेषान् पश्यति बालकादिनृत्य
वा, तथा अज्ञानाम् इष्टानिष्टमिश्रोदासीनपदार्थचतुष्टयानु-
भवजन्यहर्षशोकादिसभवन्मदोद्रेकशोकातिरेकहेतुकविहिता
दिकरणाकरणरूपचरणायकपरिस्पन्दरूपनानाविधप्राणिकाय
निकायजन्यलास्यदर्शनेन अनुद्दिश्यापि प्रयोजन सतुष्टा त
सत्कर्मानुसारेण फलप्रापकेश्वरतया सर्वसमानत्वात् , नाद-
त्ते कस्यचित्पाप न चैव सुकृत विभु ' इति भगवद्वचनात् ।
लास्य दवतादिवारवनितादिभि क्रियमाण तालगीतयुक्त
नृत्य तदर्शनेन सतुष्टा ।
तदीयफलप्रदानोन्मुखकपारसवती
त्यर्थ ॥
ॐ लास्यदर्शनसतुष्टायै नमः ।
लाभालाभविवर्जिता ।
अप्राप्तप्राप्तिर्लाभ , कृतेऽपि यत्ने
तदप्राप्तिरलाभ , ताभ्या विवर्जिता, पर्याप्तकामत्वेन नित्यतृ
प्तत्वात् , न मे पारित कर्तव्य त्रिषु लोकेषु किंचन'
इति भगवद्वचनात् ॥
ॐ लाभालाभविवर्जितायै नम ॥
लङ्घ्येतराज्ञा ।
इतरेषा जीवभ्रान्तिकल्पिताना गुणमूर्त्या
दीनाम् उपासनाविधिरूपा वा, कर्मविधिरूपा वा आज्ञा प्रेरणा
लङ्घ्या अविषयीकृता यया सा तथा ।
शुद्धचैतन्यस्य विशि
ष्टक्रियाद्यात्मकत्वाभावेन विभ्यविषयत्वादिति यावत् ।
अथ
बा, किंकरीत्वाभावेन इतरेषा देवतानाम् आज्ञा प्रेरणा लङ्घ्या
p. 239
उपेक्षणीया यया सा तथा, 'सर्वस्याधिपति सर्वस्येशान '
इति श्रुते ।
ईश्वरस्य सर्वनियन्तृत्वेन स्वेतरानियम्यत्वादिति
ज्ञातव्यम् ॥
ॐ लड़ध्येतराज्ञायै नम |
लावण्यशालिनी ।
लावण्य मौन्दर्य परमानन्दस्वरूपतया
अतिशयप्रीतिविषयत्व शालत इति तथा ।
सर्वावयवसाधा-
रणसु दरभाववतीति वा | |
ॐ लावण्यशालिन्यै नमः ॥
लघुसिद्धिदा ।
लघुना उपायेन सिद्धिं वान्छितार्थप्राप्तिं
ददासीति तथा, लघुशब्द लक्षणया लधिमासिद्धिपर ।
तथा च लघिमाद्यष्टैश्वर्थप्रदेति वा ।
अथवा, लघूना अत्य
न्ताल्पज्ञानभाग्यशरीररूपचरणवतामप्यतिनिकृष्टाना तिर्य-
गादीनामपि सिद्धिं मुक्तियोग्यताहेतुज्ञानादिसाधनसपत्तिं
तत्कार्यमहिमातिशयोग्नेया ददातीति सा तथा ॥
ॐ लघु-
सिद्धिदायै नमः ॥
लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्येतरा लब्धभक्तिसुलभा लागलायुधा । ।
लाक्षारससवर्णाभा ।
लाक्षारसेन लाक्षाद्रवेण समानो
वर्णो यस्या
मा तथाभूता शोभा कान्तिर्यस्या
तथा ।
अतिपाटलविग्रहप्रभेत्यर्थ ॥
ॐ लाक्षारससवर्णा
भायै नम ॥
p. 240
लक्ष्मणाप्रजपूजिता ।
अग्रे जायते इत्यग्रजौ रामभरतौ
लक्ष्मणस्यापि ज्येष्ठभूतरामाचारानुकारित्वेन चतुभिरपि दा-
शरथिभि पूजितेत्यर्थ ।
रामस्य शिवलिङ्गप्रतिष्ठाता- इति
नामवत्त्वान्यथानुपपत्त्या शिवदपतिपूजकत्वेन तदितरेषा तब्द-
शस्त्रीपुरुषाणा तत्सिद्धिरिति ध्वनितोऽर्थ ॥
ॐ लक्ष्मणाग्र-
जपूजितायै नम ॥
लभ्येतरा ।
लभ्यानि लब्धव्यानि कर्मोपासनाविशेषाणा
फलत्वेन साध्यानि भव्यानीत्यर्थ ।
तेभ्य इतरा विलक्षणा ।
'तत्सत्य स आत्मा' 'नित्यो नित्याना चेतनचेतनानामेको
बहूना यो विदधाति कामान् ।
तमात्मस्थम्' इति 'यत्साक्षाद
परोक्षाम' इत्यादिभि श्रुतिभि आत्मन नित्यप्राप्तस्वरूप
त्वेन प्राप्तप्राप्तव्यरूपतया मोक्षरूपत्वेन चतुर्विधक्रियाफलत्वा-
भावादिति मन्तव्यम् ।
अथवा, इतराणि धर्मार्थकामरूपत्रि-
वर्गरूपाणि फलानि लब्धव्यानि प्राप्तव्यानि यस्या
शादिति सा तथा, उक्तश्रुते ॥
ॐ लभ्येतरायै नम । ।
लब्धमक्तिसुलभा ।
भक्ति सामान्यविशेषाकारेण द्वि
विधा ।
तन्नाद्या आर्तजिन्नास्वार्थार्थिभि थैलब्धा तत्तत्फलो
द्देशेन समयविशेषे विच्छिद्य विच्छिद्य प्राप्ता तेषा सुलमा
तत्तत्प्रारब्धानुसारेण फलदानोन्मुखस्वात्मरूपतया सनिहित
p. 241
स्वात् ।
द्वितीया भक्तिस्तु ब्रह्मसाक्षात्कारवता पुरुषेण येनैकभ
क्तितया लब्धा, 'एकभक्तिविशिष्यते' इति स्मृते , तस्य सु
लभा, स्वात्मरूपतया सदा ज्ञायमानत्वात् ।
'ज्ञानी स्वात्मैव
मे मतम्' इति गीतासु ।
अथवा, लब्धा प्राप्ता सत्यपि कण्ठ
गतचामीकरवत् लब्धभक्तीना सुलभा सुखनानायासेन कष्टेन
विना साध्यतया लाभ प्राप्तिर्यस्या सा तथा, 'भक्त्या
मामभिजानाति' इति स्मृते ॥
ॐ लब्धमक्तिमुलभायै नमः । ।
लागलायुधा ।
शेषरूपतया हलायुधेत्यर्थ , 'अनन्त
श्वास्मि नागानाम्' इति श्रीभगवद्वचनात् । ।
ॐ लाडलायु
धायै नमः ॥
लग्नचामरहस्तश्रीशारदापरिवीजिता ।
लज्जापदसमाराध्या लपटा लकुलेश्वरी । ।
लमचामरहस्तश्रीशारदापरिवीजिता ।
लग्नौ करसबद्धौ
धृतावित्यर्थ , लग्नौ चामरौ ययोस्तौ तादृशौ हस्तौ ययोस्ते
श्रीश्च महालक्ष्मी शारदा च ते ताभ्या वीजिता परिवी
जिता ।
अनादिकालादारभ्य परिचर्थया वीज्यमानेत्यर्थ ॥
ॐ लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः । ।
p. 242
लज्जापदसमाराध्या ।
लज्जानाम अन्त करणधर्म जुगु
साहेतु गूहनसाधनम् , उपलक्षण मनोधर्माणाम् , तस्य पदम्
आश्रय'काम सकल्पा विचिकित्सा श्रद्धाश्रद्धा वृतिरधृ
तिह्रीर्धीर्भीरित्येतत्सर्वं मन एव' इति श्रुत ।
तस्मिन समा
राध्या चिन्तनीयेत्यर्थ ‘य आत्मनि तिष्ठन्नन्तरो यमयति'
'गुहाहित गह्वरेष्ठ पुराणम्' 'तमात्मस्थ येऽनुपश्यन्ति
धीरा' इत्यादिश्रुतिभ्य ।
अथवा, लज्जापद जीवचक्रम् ,
तस्मिन् तदधिष्वानानन्दाभिव्यक्तिहेतुतया बहियोगक्रमेण पू
जनीयेत्यर्थ ॥
ॐ लज्जापदसमाराध्यायै नमः ॥
लपटा ।
लमिति पृथ्वीवाचकबीजेन तदुपलक्षित जगल्ल
क्ष्यते , पटशब्दन आवारकत्वधर्मवत्तया अविद्या लक्ष्यते ,
लम जगत पट कारणीभूता अविद्या यस्या सा तथा
'मायिन तु महेश्वरम्' 'य एको जालवान्' इति श्रुते ।
'अज्ञानेनावृत ज्ञानम्' इति स्मृतेश्च ।
अथवा, लम्पटो नाम
तन्द्री आलस्यम् , कर्मोपासनाबाहुल्येऽपि प्रतिबन्धकभूयस्त्वे
शीघ्रतया परमेश्वरस्य फलदानोन्मुखताया राजादिवश्चिर-
विलम्बितसेवाफलदानवैमुख्ये तद्वत्तोपचारात् , लम्पटो यस्या
सा तथा ।
अथवा, लम्पटादीनामन्त करणधर्माणामध्यास-
वशेन तदवच्छिन्ने चैतन्ये सत्त्वरजस्तम कार्याणामुपलब्धे
p. 243
स्तद्वत्त्व वा ॥
ॐ लपटायै नमः ॥
लकुलेश्वरी ।
कु पृथिव्युपलक्षितजगत् लीयते अस्मि
निति कुलम् , मायोपाधिकचैतन्यम् , प्रलयाधिष्ठानम् ।
यत्प्रयन्त्यभिमविशन्ति' इति श्रुते ।
लीयमान कुल लकुल
निरुपाधिकमित्यर्थ ।
तच्च सा ईश्वरी च सा तथा ।
अथवा,
लकुल स्थानविशेष स्वाधिष्ठान मणिपूरक वा, तस्थेश्वरी,
विष्णुरुद्रात्मिकेत्यथ , भूतसृष्टिश्रुतौ प्रथिव्या उदके तस्य
तेजमि तस्य परमात्मनि लयश्रवणात् ।
'सदायतना सत्य
तिष्ठा ' इति ।
तस्येश्वरी विभूतिविशेषो वा ॥
ॐ लकुले
श्वर्यै नमः ॥
लब्धमाना लब्धरसा लब्धसप
त्समुन्नति ।
ह्रींकारिणीच हींकारी ह्रींमध्या ह्रींशिखामाण ॥
लब्धमाना ।
सर्वै प्राणिभि लब्ध मान अध्यस्ताहका
आभमानात्मकस्तद्वदहकार प्रकीर्त्यते' इति स्मरणात् ।
अध्यासेनाहकाराधिष्ठानेत्यथ ।
अथवा, 'मान पूजायाम्' इति
स्मरणात् यैयै प्राणिभि विद्यैश्वर्यकुलसौन्दर्यातिशयादि
वशात् पूजा लभ्यते सुखहेतु सा तदन्तर्यामिणा पूर्वमेव
लब्धा, पूजादिजन्योपकारस्य सुखादे स्वस्वरूपतया लब्ध-
>
p. 244
स्वात् ।
यद्वा मान परिमाण अणुमहद्दीघहस्त्रभेदेन प्रसि
द्ध ।
'म वा एष महानज आत्मा महान प्रभुर्बै पुरुष
'अणोदीयान् महता महीयान' इत्यादिवेदवाक्यैर्जलसूर्या
दिवदुपाधिधर्माणामुपहित्ते गजस्तम्भमत्कुणसादौ प्रतीयमा
नत्वात्,
लब्ध मान परिमाण उपहिततया जगत यया
सा तथा । ।
ॐ लब्धमानायै नम ॥
लब्धरसा ।
'रसो वैस इति श्रुते रसवत् रस्यते
सबध्यत इति अत्यन्तप्रीतिविषय आनन्द स स्वस्वरूप
त्वन लब्धो यया सा तथा ।
शृङ्गाररसो वा,
अलाभरणपुष्पालकारवस्वादिति भाव ।
शुद्धसत्त्वप्रधान-
मायोपाधिकतया, 'रखा स्निग्धा स्थिरा हृद्या आहारा
सात्त्विकप्रिया ' इति गीतावचनात् नैवेद्यादौ कट्वाम्ललव
णादीना देवादिविषये निषेधाश्च प्रीतिविषयत्वेन मधुररसो
लब्धो ययेति वा तथा ॥
ॐ लब्धरसायै नम ॥
लब्धसपत्समुन्नति ।
लब्धा स्वस्वरूपतया स्वत सि
द्धा या संपदः सत्यकामत्वादय सच्चिदानन्दादयो वा
ताभि समुन्नति सर्वोत्कृष्टता यस्या सेति तथा ।
ब्रह्मण
मायामानापाधिना अभिव्यज्यमाना गुणा कर्मानुभूतत्वा
p. 245
दनाकस्मिकाः सन्तः सर्वोत्कृष्टभावं ब्रह्मणः ज्ञापयन्ति ।
'तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं ।
पतिं पतीनां परमं पुरस्ताद्विदाम देवं भुवनेशमीड्यम्'
सत्यकामः सत्यसंकल्पः ' ' एष सर्वेश्वर एष. सर्वज्ञ एषो -
ऽन्तर्याम्येष योनिः सर्वस्य' इति ' गतिर्भर्ता प्रभुः साक्षी '
इत्यादिश्रुतिस्मृतिशतेभ्यः एष नित्यो महिमा ब्राह्मणस्य '
इति प्रसिद्धनित्योत्कर्षवत्त्वं ब्रह्मस्वरूपमेवेति नात्र विचारणीयं
किंचिदस्तीत्यभिप्रायः ।
ॐ लब्धसंपत्समुन्नत्यै नमः ॥
ह्रींकारिणी ।
ह्रींकारः द्वितीयखण्डसमाप्त्यवयवत्तया वाच्यवाचकसंबन्धेन अस्या अस्तीति तथा ॥
ॐ ह्रींकारिण्यै नमः ॥
ह्रींकाराया ।
अब ह्रींकारशब्देन तत्कार्यभूताः वेदाः,
तेषामप्यर्थतया कारणतया वा आया आदौ भवा पूर्वभावीत्यर्थः ।
शब्दस्य अर्थविषयत्वेन प्रवृत्तेः शक्तिग्रहादौ
काव्यादिकृतौ च अर्थज्ञानपूर्वकशब्द प्रयोगदर्शनादर्थस्य पूर्वभावित्वमुक्तमिति भावः ॥
ॐ ह्रींकाराद्यायै नमः ॥
ह्रींमध्या ।
अस्य बीजस्य जगदभिन्ननिमित्तोपादानभूतमायाविशिष्टचैतन्यवाचकतया तत्प्रतीकत्वेन तन्निष्ठयावद्गुणवत्त्वं तदुपासनातिशयमहिम्नाभिव्यज्यते ।
अन्यथा मन्त्रपुर-
p. 246
श्वर्यास्विष्टसिद्ध्यभावप्रसङ्गः स्यात् ।
अव्यवहितपूर्वनाम्नानभिव्यक्तस्त्ररूपस्यापि शब्दजालस्य एतद्बीजमात्रात्मनैवाङ्करितबीजार्थवत्तया पूर्व भावित्वमुक्तम् ।
इदानीमभिव्यक्तात्मकस्वार्थकतया विवर्तवादमाश्रित्य वाचारम्भणाकारेण नामरूपद्वयवत्त्वमुच्यते ।
ह्रींकारबीजार्थः तेन शब्देन लक्ष्यते ।
मध्ये व्यवहारकाले ह्रीं यस्याः सा तथा ।
घटादिषु वस्तुषु
सच्चिदानन्दप्रतीत्या व्यवहारकालेऽपि प्रपश्वकारणं ब्रह्मानुस्यूततया भासमानं जगत्कारणमिति सिद्धान्तः ।
अनेनाचेतनपरिणामारम्भादिवादाः निष्प्रमाणतया युक्त्याद्याभासकत्वेन निरस्ताः वेदितव्याः ॥
ॐ ह्रींमध्यायै नमः ॥
ह्रींशिखामणिः ।
लोके यथा चूडामणिः सर्वाङ्गरचिताभरणापेक्षया तद्विजातीय प्रकाशसत्ताद्याश्रयवान् उत्तमाङ्गस्थानविशेषे स्थापितः महदैश्वर्यादि तद्वतः पुरुषस्य ज्ञापयति, तथा सर्वशब्दजालतद्वाच्यार्थ भूतचिज्जड संबन्धरूपप्रपञ्चवाचकातिसूक्ष्महीं वर्णात्मक श्रीविद्या राजवीजस्य सत्यज्ञानानन्दात्मकलक्ष्यार्थभूता सती हींबीजजापकानां सर्वार्थप्रदानेन पारमैश्वर्य व्यञ्जयतीति गुणयोगकृतनामेदम् ।
तथा च हीमः शिखामणिः परमतात्पर्येण ज्ञापयतीत्यर्थः ॥
ॐ हींशिखामणये नमः ॥
p. 247
ह्रींकारकुण्डाग्निशिखा ह्रींकारशशिचन्द्रिका ।
ह्रींकार भास्कररुचिह्रींकाराम्भोदचञ्चला ॥
ह्रींकारकुण्डाग्निशिखा ।
ह्रींकार एव कुण्डं वाच्यवाचकसंबन्धेन परब्रह्मावच्छेदकतया आहवनीयादिसदृशम्, तस्याग्निशिखा, 'उद्दीप्तेऽग्नौ जुहोति ' - इति प्रमाणेन 'आहवनीये जुहोति' - इति विधिवाक्यावगत होमाधारतायाः
केवलाहवनीयस्यायोग्यतया साग्निज्वालस्य होमाधारतायां
ज्ञायमानायामदृष्टद्वारा स्वर्गसंबन्धेन स्वार्थकतया तज्ज्ञापकवेदवाक्यस्यापि पुरुषार्थ संबन्धित्वमाहवनीयनिष्ठ होमाधिकरणदीप्ताग्निज्वालास्वाधारभूतकुण्डसार्थक्य संपादकेवाभाति ।
तथा स्ववाचकबीजस्यापि 'मन्त्रैरुपासीत' इति त्रिधिगतदेवतोपासनकरणानां मन्त्राणामपि स्ववाचकतया सार्थक्यसंपादनात्तथोच्यते ॥
ॐ ह्रींकारकुण्डाग्निशिखायै
नमः ॥
ह्रींकारशशिचन्द्रिका ।
ह्रींकार एव शशी चन्द्रः तस्य
स्वरूपाभेदभूतप्रकाशचैतन्यं चन्द्रिकापदेनोपमीयते ।
यथा
चन्द्रस्वरूपभूतामृतप्रसारभूता ज्योत्स्ना देवादिसर्वलोकानां
संजीवकतयोपकरोति, तथा दृढतरभक्तिपरवशपुरुषधौरेया-
p. 248
दीनां ह्रींकारस्वाच्यार्थतया तदभिन्नत्वेऽपि जगद्विवर्तकारणतया सच्चिदानन्दाधायकत्वेन संजीवयतीति भावः ॥
ॐ
ह्रींकारशशिचन्द्रिकायै नमः ॥
ह्रींकारभास्कररुचिः ।
भासः कान्तीः करोति प्रसारयति
लोकोपकारायेति तथा सूर्यः, तस्य रुचिः प्रचण्डभानुः ।
यथा लोके सूर्यः वर्षास्वतिगाढतरस्रवदुदकधारासंव्याप्तदिगन्तरासु दिवा विद्यमानोऽपि सूर्यः साक्षादयमिति चाक्षुषज्ञानगोचरो न भवति, तदभावे शिष्टानां भोजनादिसंजीवकव्यवहाराभावेन तदुपायासिद्धयाप्रसन्नमनांसि भवन्ति,
तथा ज्ञानमार्गानधिकारिणां मोक्षमार्गोपायभूताविदितदेवतारूपह्रींकाराणां जनानां बहुतरपुण्यमहिम्ना महावातेनेव मेघावलौ दूरीकृतायां चण्डभानुरिव सुखसाधनं गुरुकृपापाङ्गावलोकनरूपदीक्षावशेन प्रतिबन्धकदुरितापगमे परदेवतारूपं
हूकार : पुरश्चर्यया साक्षाद्वाच्यार्थापरोक्षज्ञानहेतुर्भवति ।
चिरकालनैरन्तर्यभावनाप्रकर्षेण तस्मिन्नभिमुखे सति तल्लक्ष्यार्थरूपपरमानन्दचित्कला स्वयमेवाभिव्यक्ता सत्यानन्दानुभवामृतेन सुखयतीति तथोच्यते ॥
ॐ ह्रींकारभास्कररुचये नमः ॥
ह्रींकाराम्भोदचञ्चला ।
अम्भांसि अमृतानि ददतीत्य-
p. 249
.
म्भोदाः, ह्रींकारोऽपि कामवर्षत्वेन तैरुपमीयते ।
तेषु चञ्चला विद्युल्लता विद्यमाना तदभिन्नप्रकाशमाना सती वर्षोदकद्वारा सस्याद्युत्पादकत्वं यथा व्यनक्ति तथा ह्रींकारवाच्यतया तदभिन्नापि तत्स्वरूपविचारणायां शुद्धलक्ष्यार्थस्वरूपा
सत्यपि अनिर्वचनीयस्ववाचक मन्त्रप्रकाशितदेवतात्वेन स्वाभीष्ट पुरुषार्थप्राप्तिहेतुभूतेत्यभिसंधिः ॥
ॐ ह्रींकाराम्भोदचञ्चलायै नमः ॥
ह्रींकारकन्दाङ्कुरिका ह्रींकारैकपरायणा ।
ह्रींकार दीर्घिकाहंसी ह्रींकारोद्यानकेकिनी ॥
ह्रींकारकन्दाङ्कुरिका ।
ह्रींकार एवं कन्दम् दृढतरबीजभावः तस्य अङ्करिका आदिप्रसवः नूतनाभिव्यक्तिरित्यर्थः ।
यथा लोके अङ्कुरादिकं कन्दादिनिष्ठोत्पादकशक्तिमनभिभूयैव स्वयं स्कन्धशाखापत्रपुष्पफलाद्यात्मना यथा विवर्तमानं तत्सामर्थ्यप्रकटनकारणं भवति, तथा ह्रींकारस्य वेदैकदेशत्वेन इतरप्रमाणानपेक्षतया स्ववाच्यार्थज्ञापनेन स्वतः प्रामाण्ये स्थितेऽपि तज्जन्यज्ञानविषयतावच्छेदकधर्मरूपनानाप्रकारजगत्परिणामहेतुत्वसाधका घटित घटनापटीय सीमायोपाधिकत्वेन तदर्थद्वयरूपा सती तन्मात्रप्रमाणवेद्येत्यर्थः ॥
ॐ
p. 250
ह्रींकारकन्दाङ्कुरिकायै नमः ॥
ह्रींकारैकपरायणा ।
ह्रींकार एव एकं अनितरसाधारणंचतुर्विधपुरुषार्थसाधकतया परम् अयनं ज्ञापकं प्रमाणं
यस्याः सा तथा ।
अस्य बीजस्य वाच्यार्थो माया, सा निरधिष्ठाना न सिध्यतीति तदाश्रयत्वविषयत्वाभ्यां तद्रहितं तेन
ज्ञाप्यत इति भावः ॥
ॐ ह्रींकारैकपरायणायै नमः ॥
ह्रींकारदीर्घिकाहंसी ।
ह्रींकार एव दीर्घिका राजोद्यानवनक्रीडावापी ।
संसारकाननसंचारिलोकविश्रान्तिकारणत्वेन ह्रींकारः तयोपमीयते, 'आराममस्य पश्यन्ति न तं
पश्यति कश्चन' इति श्रुतेः ।
आ समन्ताद्रमत्यस्मिन् इत्यारामः अथवा जगत् ।
तत्रोपासनादिना परमानन्दप्रापकतया वा ह्रींकारः उपमीयते ।
तस्मिन् हंसी स्त्रीहंसः ।
यथा
लोके सारासारविवेकिहंस्या आधारसुवर्णकमलादिमती वापि -
का महाराज संबन्धिनी विज्ञाप्यते, तद्वद्वाच्यार्थरूपतया प्रकाशमाना सती स्वसंबन्धिबीजस्य सुखोत्पादकत्व मोक्षहेतुत्वं
द्योतयतीत्यभिप्रायः ।
ॐ ह्रींकारदीर्घिकास्यै नमः ॥
हंकारोद्यानकेकिनी ।
ह्रींकार एव उद्यानवत् फलानुभावकत्वात् तथोच्यते तस्य केकिनी मयूरी ।
यथा लोके
p. 251
बहुषु पक्षिषु आरण्यकेषु सत्स्वपि तस्याः रूपध्वनिभ्यां
सुखतया दर्शनश्रवणादिजन्य प्रमोदसाधकतया उद्यानालंकरिष्णुत्वम्, तथा ह्रींकाररूपदेवताध्वनेः सच्चिदानन्दरूपतद्वाच्यार्थस्य च परमपुरुषार्थसाधकत्वेन अविशिष्टत्वेऽपि त्रह्मविष्णुरुद्रादिमूर्तिषु उद्यानतरुवल्लिकक्षगुल्मादिवदुत्तमनीचदेवतिर्यङ्मनुष्यादिषु च मयूरीव स्वेच्छया सर्वव्यापकत्वेन
तदात्मरूपतया
शरीरेन्द्रियप्राणाद्याधारपरमप्रेमास्पदपरमानन्दरूप प्रत्यग्गोचरावृत्तिव्याप्यत यैतद्बीजप्रकाश्या भवतीत्यर्थः ।
ॐ ह्रींकारोद्यानकेकिन्यै नमः ।
ह्रींकारारण्यहरिणी ह्रींकारावालवल्लरी ।
ह्रींकारपञ्जरशुकी ह्रींकाराङ्गणदीपिका ॥
ह्रींकारारण्यहरिणी ।
ह्रींकारवाच्यार्थैकदेशभूतमायाविद्यातत्कार्याणां बन्धरूपतया गहने व्याघ्रादीनामिव भयहे
तूनां सद्भावेन दुष्प्रवेशत्वरूपधर्मसाम्येन ह्रींकारस्य अरण्योपमितत्वम् ।
तथा च अरण्यमिव ह्रींकार इति सर्वत्रोपमा -
नोत्तरपदसमासः ।
तत्रैवं सति यथारण्यगतपुरुषस्य शीघ्रं
दृष्टिपथं गता हरिणी एणी व्याघ्राद्यभावनिश्चयेन तदधिगमफलप्राप्तिसाधनतामवगमयति धीरपुरुषस्य, तथा निरन्तरभ-
p. 252
क्तिभजनपरप्राणिलोकस्य उपासनापरिपाकमहिना अपरोक्षीकृताज्ञाननिवृत्तिपूर्वकं भयापकरणेनानन्दं प्रापयतीति तयो -
पमितेति भावः ।
'तमेव विदित्वातिमृत्युमेति' इति श्रुतेः ॥
ॐ ह्रींकारारण्यहरिण्यै नमः ॥
ह्रींकारावालवल्लरी ।
ह्रींकारमन्त्रवाचकतानिरूपितवाच्यतानामक संबन्धावच्छिन्न परदेवतास्वरूपत्वेन तदुपासनाविषय फलदानसमर्था सती आवालमात्रप्ररोहद्विवृद्धवल्लयोंपमीयते ।
तथा च तत्संबन्धितया ह्रींकारः जपादिना आवाल इव सर्वदा संरक्षणीय इति तात्पर्यार्थः परिनिष्पन्न
इति यावत् ॥
ॐ ह्रींकारावालवल्लयै नमः ॥
ह्रींकारपञ्जरशुकी ।
मन्दाधिकारिणामप्युपासनाकारणसाधारणपार्वतीप्रतीकतया ह्रींकारस्य बालका दिलालनविषयत्वधर्मपुरस्कारेण पञ्जरोपमा ।
तथा च तत्रत्यशुकीव संलापादिना मनुष्यादिचित्तरश्ञ्जिनी ।
एवं तत्तददृष्टानुसारेण फलदात्री सती तयोपमितेति द्रष्टव्यम् ।
ह्रींकारः पञ्जरमिव
तस्य शुकी तत्सार्थक्यकारिणीत्यभिप्रायः ॥
ॐ ह्रींकारपअरशुक्यै नमः ॥
ह्रींकाराङ्गणदीपिका ।
अङ्गणवत् सर्वसाधारण विश्रान्तिस्थानतया ह्रींकारस्य तदुपमा तस्य दीपिका ।
यथाङ्गणारो-
p. 253
पितदीपः बाह्याभ्यन्तरवस्तुजातं प्रकाशयन् तत्रत्यलोकाना -
मन्धकारादिनिवर्तनपूर्वकमभीष्टव्यवहारहेतुतया सर्वान् ला
घयति स्वयमपि तैः संरक्ष्यते, तथा ह्रींकारबीजार्थश्रवणमनननिदिध्यासननिरन्तराभ्यासादपरोक्षीकृतस्वयंप्रकाशानन्दरूपा सती स्वसेवकान् सर्वोत्कर्षयतीति तदुपमिता सती
तथोच्यते ॥
ॐ ह्रींकाराङ्गणदीपिकायै नमः ॥
ह्रींकारकन्दरासिंही ह्रींकाराम्भोजभृङ्गिका ।
ह्रींकार सुमनोमाध्वी ह्रींकारतरुमञ्जरी ॥
ह्रींकारकन्दरासिंही ।
पर्वतशिखाप्रवर्तिगुहा कन्दरा दरीत्यर्थः ।
वेदमौलिपठितह्रींकारस्य ग्राम्यविषयलिप्सुप्राणिप्रवेशयोग्यताविकलतया कन्दरोपमा ।
तत्र यथा सिंही
स्वेतरक्षुद्रमृगप्रवेशभयहेतुसटादिस्वव्याप्यचिह्नानुमिता तस्याः
स्वाश्रयमात्नतां धीरस्य तत्परिसरनखनिर्घातमुक्ताफलादिप्राप्तिं च नयति, तथा मन्दभक्तितन्द्रीबुभुक्षादिकलुषितपरिच्छिन्नाभिमानदेवतान्तरप्रतिपादकवीजतया स्वदेवतैकभावं कामितार्थे च प्रापयतीति सिंधुपमिता सती तथोच्यते ॥
ॐ ह्रींकारकन्दरासिंयै नमः ॥
ह्रींकाराम्भोजभृङ्गिका ।
ड्रींकारस्य अष्टैश्वर्यात्मकपुरुषा-
p. 254
र्थसाधकनानाशक्तिमत्तया नानाप्रकारवर्णान्तरघटितत्वेन परागपरिमलादिमत्कमलोपमितत्वमिति योजनीयम् ।
कमले
यथा मधुमात्रसारग्राहिणी भृङ्गी रमते सर्वपुष्परसमधुपानस्वाभाव्येन सर्वसमापि मध्वाधिक्य विविदिषया प्रभूतमधुवत्त्वेन च तस्मिन्नेव विशिष्यासक्तिमती, तथा सर्वमन्त्रबीजवाच्यदेवतात्मना सर्वानुगतापि ह्रींकारस्य विशिष्टगुणवत्त्वेन सर्वोपादानसगुणब्रह्मप्रतिपादकतया तदीयस्वरूपतटस्थलक्षणवत्त्वेन तदभिन्नस्वरूपतया सर्वशब्दजालप्रकृतित्वेन च रूढ्या लक्षणया वा तत्संबन्धिनी सती तदुपासकानां तदधिष्ठानतया च तैर्लक्ष्यत इति भृङ्ग्युपमया वर्णितेति तात्पर्यम् ॥
ॐ ह्रींकाराम्भोजभृङ्गिकायै नमः ॥
ह्रींकारसुमनोमाध्वी ।
ह्रींकारस्य वाञ्छितफलप्रदानसाधकतया सुमनःसादृश्यम् ।
अथवा, पुष्पाणि व्यवहारसमये
बहुसावधानतया व्यवहर्तव्यानि परममार्दवाधिकरणत्वेन बहुमान्यत्वात्, तथा ह्रींकारोऽप्युपासनवेलायां परब्रह्मवाचकत्वेन
प्रयत्नपूर्वकमेकाग्रमनसा देवताभिन्नत्वेन ध्यातव्य इति नियमसंपादनार्थे पुष्पोपममिति विभावनीयम् ।
तथा च वाय्वादिना शुष्काणि पुष्पाणि निर्मधुत्वेन फलान्यजनयित्वा
परिपतन्ति फलजनकशक्तेरभावेन; तदितराणि तु तद्वत्वेन
p. 255
तज्जनकानि लोके दृष्टानि; पुष्परसश्च पृथिवीकारणभूतोदकतन्मात्रस्वरूपमधुररसात्मकत्वात् पुष्पाणां फलजनकशक्तिज्ञापको भवति ; तथा ह्रींकारस्यापि सर्वजनकताशक्याधायकतदधिष्ठान सच्चिदानन्दपरब्रह्मस्वरूपा सती तन्मन्त्रप्राप्त्या
यथोक्तफळ हेतुतया तदर्थरूपेण तद्वृत्तिर्भवतीति माध्वीसमानधर्मवत्त्वमस्या उपपद्यत इति विवेचनीयमिति यावत् ॥
ॐ ह्रींकारसुमनोमाध्व्यै नमः ॥
ह्रींकारतरुमञ्जरी ।
फलार्थिनः स्वारूढजनान् पतनादिभ्यः प्रतिबन्धकेभ्यस्तारयति पारं प्रापयति फललाभेन संतोषयतीति तरुः ।
ह्रींकारस्य कल्पादितरुर्दृष्टान्तीकृतः ।
प्रेक्षावतां संवादिप्रवृत्तिजनकत्वेन शाखोपशाखाप्रगता पुष्पमञ्जरी फलकारणयोग्यतां ज्ञापयतीव पुरुषार्थार्थिनां असंशयप्रवर्तकत्वेन प्रत्यक्स्वरूपा सती गुरूपदिष्टमन्त्रदेवतात्मकतया मन्त्रोपासनायामभिमुखीकरणेन पुरुषार्थान् प्रापयतीति मञ्जरीसादृश्यं प्राप्तं परदेवताया इति विवेचनीयम् ॥
ॐ ह्रींकारतरुमञ्जर्यै नमः ॥
सकाराख्या समरसा सकलागमसंस्तुता ।
सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया ॥
सकाराख्या ।
सकारयुक्ता श्रीविद्यानामिका आख्या
p. 256
वाचकशब्दः यस्याः सा तथा ।
ॐ सकाराख्यायै नमः ॥
समरसा ।
समः एकः रसः मधुरादिरसवगुडपिण्डादावेकरूपेण कार्ये व्यवस्थितेत्यर्थः ।
अथवा, संसारदशायां
सर्वज्ञत्वकिंचिज्ज्ञत्वादिविशेषणभेदेन भिन्नरसवत् भिन्नस्वभाववत् प्रतीयमानयोरीश्वरजीवयोर्वेदान्तश्रवणादिना जन्याखण्डाकारवृत्तिव्याप्त्या अहं ब्रह्मास्मि इत्यभेदानुभवदशायामेकरूपतया साक्षात्क्रियते इति सा तथोच्यते, 'रसो वै
सः' इति श्रुतेः, रसशब्दार्थः परब्रह्म समः अभिन्नं यस्याः
सा तथा ।
तैत्तिरीयोपनिषत्प्रतिपाद्येत्यर्थः ॥
ॐ समरसायै
नमः ॥
सकलागमसंस्तुता ।
आ समन्तात् गमयन्तीति आगमाः,
सकलपदार्थगोचरसविकल्पक प्रमाजनकवेदा इत्यर्थः ।
सकलैरन्यूना नतिरेकेणेतिहासपुराणसहितयावदङ्गोपाङ्गरहस्यादियोगित्वं सकलशब्दार्थः ।
तैः संस्तुता सम्यक् नातः परं किंचिदस्तीति निश्चयपूर्वकं स्तुता गुणिनिष्ठगुणाभिधानविषयतया
तदुपजीवकेत्यर्थः ।
सर्वार्थप्रकाशकवेदानां सर्वज्ञत्वेदं पर्येण
तदीयस्तुतिविषयतया शुद्धचैतन्यात्मकतया मोक्षकारणीभूतज्ञानस्वरूपत्वेन जिज्ञास्येति ध्वनितोऽर्थः ॥
ॐ सकलागमसंस्तुतायै नमः ॥
p. 257
सर्ववेदान्ततात्पर्यभूमिः ।
वेदानामन्तः अवसानं तत्त्वमस्यादिमहावाक्यानि, तेषां तात्पर्यं समन्वयः सामानाधिकरण्यमित्यर्थः ।
तस्य भूमिः विषयः ज्ञाप्यमिति यावत् ।
' उपक्रमोपसंहारावभ्यासांऽपूर्वता फलम् ।
अर्थवादोपपत्ती च
लिङ्ग तात्पर्यनिर्णये' इति वचनोक्ततात्पर्यनिर्णायकप्रमाणबलेनातीन्द्रियधर्मादिगोचरवाक्यवत् सर्वेषां वेदान्तानामुपासनाज्ञानविधिं विनाकर्मशेषतया अज्ञातज्ञापकत्वेन
शंसनादेव शास्त्रशब्दवाच्यानामद्वैते ब्रह्मणि गतिसामान्येन
कर्मोपासनाकाण्डद्वयार्थोपकार्यत्वेन मोक्षहेतुज्ञानजनकत्वेन
पर्यवसानमिति तात्पर्यविषयता अखण्डचैतन्यस्येति सिद्धान्तार्थ इत्यभिसंधिः ।
'सामानाधिकरण्यं च विशेषणविशेष्यता ।
लक्ष्यलक्षणभावश्च पदार्थप्रत्यगात्मनाम् ' इति
न्यायेन संबन्धत्रयेण अखण्डार्थं वेदान्ताः बोधयन्तीति
' तत्तु समन्वयात्' इत्यधिकरणे प्रतिष्ठापितमित्यलमतिविस्तरेण ॥
ॐ सर्ववेदान्ततात्पर्यभूमये नमः ॥
सदसदाश्रया ।
अपरोक्षतया सन्निति प्रतीतिविषयतया
व्यवह्रियमाणं सत्कार्य रूपादिवत्तया व्यावहारिकसत्ताश्रयं
पृथिव्यप्तेजोभूतत्रयं सदित्युच्यते ।
असत् सद्भिन्नतया परोक्षज्ञानगोचरं वाय्वाकाशादि तत्कार्य च रूपादिभिन्नगुणाश्र-
p. 258
यमुच्यत इत्यर्थः ।
तयोराश्रया उपादानत्वेन तदधिष्ठानभूतेत्यर्थः ।
आरोपितस्याधिष्ठानसत्तातिरिक्तसत्ताशून्यतया सत्तास्फूर्तिप्रदत्वेन सर्वदा तदनुस्यूतेति ध्येयम् ॥
ॐ सदसदाश्रयायै नमः ॥
सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिव कुटुम्बिनी ॥
सकला ।
आरोपितकलाभिः उपासनार्थं कल्पिताभिः
जाबालिना सत्यकामं प्रत्युक्तषोडशकलायुक्तपुरुषोपासनप्रतिपादकच्छान्दोग्यवचनरीत्या कलाशब्दितावयवैः सह वर्तते
इति सा तथा ।
चतुःषष्टिचन्द्रकलाभ्यां वा सहिता ।
अथवा, कलाशब्दः सुखादिकान्तिवचनः तया सहितेति
वा ॥
ॐ सकलायै नमः ॥
सच्चिदानन्दा ।
सच्चासौ चिश्च सच्चित् सञ्चिच्चासौ आनन्दश्च ; कालत्रयाबाध्यत्वं सत्त्वम्, स्वेतरप्रकाशाप्रकाश्यत्वं
चित्त्वम्, परमप्रेमास्पदत्वमानन्दत्वम्, 'सत्यं ज्ञानमनन्तम्'
'विज्ञानमानन्दम्' 'सदेव सोम्येदमग्र आसीत् ' ' प्रज्ञा
प्रतिष्ठा प्रज्ञानं ब्रह्म' ' आनन्दो ब्रह्मेति व्यजानात् '
'
'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इत्यादिश्रुतिभ्यः ।
p. 259
ते स्वरूपं यस्याः सा तथोक्ता ।
वेदान्तशास्त्रोक्तब्रह्मस्वरूपलक्षणलक्षितेत्यर्थः ॥
ॐ सच्चिदानन्दायै नमः ॥ ॥
साध्या ।
कर्मोपासनादिभिः महावाक्यश्रवणजन्यब्रह्मविद्यात्वेन साधनचतुष्टयसंपन्नाधिकारिणा अपरोक्षतया
साधितुं प्राप्तुमर्हा, फलस्वरूपत्वादित्यर्थः ।
साध्वीति वा
पाठे साधोः स्त्री, सत्त्वगुणसंपन्नत्वात् साधुः; सकलविद्यापारगत्वे सति सदाचारसंपन्नः देवीसंपत्तिमानित्यर्थः ।
तदेकनिष्ठा परमपतिव्रता सती स्त्रीणां पातिव्रत्य संप्रदायप्रवर्तकेति यावत् ॥
ॐ साध्यायै नमः ॥
सद्गतिदायिनी ।
समीचीना पुनरावृत्तिरहिता सुखमात्ररूपा गतिः, गम्यते ज्ञायते प्राप्यते इति वा गतिः ।
यत्
ज्ञायते तदेव गतिः, तदन्यस्याज्ञातत्वात् गतित्वानुपपत्तेः ।
ज्ञाते फले इच्छया तत्साधनेषु पुरुषः प्रवर्तते ; न त्वज्ञातफलसाधने - इत्यन्वयव्यतिरेकाभ्याम्, 'ब्रह्मविदाप्नोति
परम् ' ' ब्रह्म वेद ब्रह्मैव भवति' 'ये पूर्व देवा ऋषयश्च
तद्विदुः ते तन्मया अमृता वै बभूवुः' इत्यादिश्रुत्या च
परदेवतास्वरूपमेव मुक्तिस्वरूपतया सद्गतिः ।
तदावारकाज्ञानाभिभवेन स्वरूपानन्दमभिव्यञ्जयतीति दायिनी ।
अभेदेऽपि गतिदानयोः कर्मकर्तृप्रयोगः उपपद्यते ।
' तदा-
p. 260
त्मानँ स्वयमकुरुत' इत्यादिवदित्यर्थः ।
सतीं वा सत्त्वगुणयुक्तां देवयानादिगतिं वा ददातीति सा तथा ॥
ॐ सद्गतिदायिन्यै नमः ॥
सनकादिमुनिध्येया ।
मननशीलाः मुनयः, मननशब्देन
लक्षणया तत्साक्षात्कारवन्त इत्यर्थः, ब्रह्मणः मानसिकपुत्राः
ज्ञानवैराग्यादिबहुलाः मोक्षमार्गप्रवर्तकाः; सनकः आदिः
येषां ते मुनयः सनन्दनसनातन सनत्कुमारप्रमुखाः निरैषणाः निश्चिन्ताः ; तैर्येया अत्यादरेण स्वात्माभेदज्ञानेन सर्वदा विषयीकृतेत्यर्थः ; 'त्वं वा अहमस्मि भगवो देवते अहं
वै त्वमसि' ' क्षेत्रज्ञं चापि मां विद्धि' 'आत्मानं चेद्विजानीयादहमस्मीति पूरुषः ' ' अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः ' ' मृत्योः
स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यादिश्रुतिस्मृतिशतेभ्यः ॥
ॐ सनकादिमुनिध्येयायै नमः ॥
सदाशिवकुटुम्बिनी ।
सदाशिवः कुटुम्बम् अस्या अस्तीति
तथा ॥
ॐ सदाशिवकुटुम्बिन्यै नमः ॥
सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्चनिर्मात्री समानाधिकवर्जिता ॥
p. 261
सकलाधिष्ठानरूपा ।
'अथात आदेशो नेति नेति'
'नेह नानास्ति किंचन' इत्यादिनिषेधश्रुतिभ्यः प्रतिपन्ना ।
'सर्वं खल्विदं ब्रह्म' इत्यादिबाधायाः सामानाधिकरण्यमवगम्यते ।
कार्यस्य कारणाभेदज्ञानं बाधा ।
तद्भिन्नता-
ज्ञानस्य भ्रमरूपत्वात् ।
तथा च श्रुतिनिषेधस्थावध्यपेक्षायाः
प्रकृत्यादीनामपि तत्त्वज्ञानेन निवृत्तौ भूतपूर्वगत्या सर्वाधिष्ठानत्वेन अनुभूयते इति भावः ॥
ॐ सकलाधिष्ठानरूपायै नमः ॥
सत्यरूपा ।
सत्यं जडानृतपरिच्छिन्नव्यावृत्तत्वं सचिदानन्दरूपं यस्याः सा तथा ।
परिणामवादमाश्रित्य सत् अपरोक्षज्ञानयोग्यानि पृथिव्यप्तेजांसि, त्यत्तु परोक्षज्ञानविषया नित्यानुमेया इत्यर्थः , 'सच्च त्यच्चाभवत्' इति श्रुतेः ।
सत्यं रूपं यस्याः सा तथा । ।
ॐ सत्यरूपायै नमः ।
समाकृति ।
समा अभिन्ना सच्चिदानन्दरूपैकरसा आकृतिः मूर्तिः स्वरूपं यस्याः सा तथोक्ता ।
समा अन्यूनानतिरिक्ता यथाशास्त्रप्रमाणं मूर्तिविग्रहो यस्याः सेति वा ।
समा सदाशिवेन गुणसौन्दर्यबलवीर्ययशोगाम्भीर्यधैर्येङ्गितादिपरिज्ञानसर्वज्ञत्वादिबहुलधर्मविशेषैः मूर्तिर्यस्याः सेति वा ।
चतुर्विधभूतग्रामेषु तत्त्प्राब्धानुसारेण
p. 262
तत्र तत्र निवासयोग्या मूर्तिर्यस्या मति वा ।
कर्माध्यक्षतया तत्तत्फलविशेषदानेषु समा पक्षपातरहिता मूर्तिर्यस्याः सा ।
समा बाल्यस्थविरत्वादिभावविकारवर्जिता एकप्रकारा नित्ययौवनशालिनी मूर्तिर्यस्याः सा ।
'मम सर्वेषु भूतेषु मद्भक्तिं लभते पराम्' अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सनिविष्टः ' इति स्मृतिश्रुतिभ्यामेकरूपत्वावगमादित्याशयः । ।
ॐ समाकृतये नमः ॥
सर्वप्रपञ्चनिर्मात्री ।
संसारस्थानादितया मोक्षस्थायित्वेन च भूतभविष्यद्वर्तमानगत्या सर्वशब्दवाच्यत्वं प्रपञ्चस्य, प्रपञ्च्यते विस्तायते विवर्तत इति प्रपञ्च, 'एकं बीजं बहुधा यः करोति' इति श्रुतेः ।
तस्य निर्मात्री निर्माणमभिव्यक्तिः तन्निमित्ततया तत्तत्कर्तृत्वमुपचर्यते, देवदत्तः पचतीतिवत् । ।
ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः । ।
समानाधिकवर्जिता ।
फुलशीलजातिगुणादिभिः तुल्य समान , तै श्रेयानधिक , तैवर्जिता ।
'न तस्य प्रतिमास्ति' विश्वाधिको रुद्रो महर्षि ' इति श्रुतेः , ' सर्वाधिपत्य कुरुते महात्मा' इति एकमेवाद्वितीयम्'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रये' इत्यादिश्रुतिस्मृतिभ्यां चेति भावः ।
एतद्दृष्टया समाननीय समानपूजनी
p. 263
योऽधिक तद्द्वयेन वर्जिता ।
'एकमेवाद्वितीयं ब्रह्म' इत्यादिश्रुतेरिति वार्थः ॥
ॐ समानाधिकवर्जितायै नमः ।
सर्वोत्तुङ्गा सगहीना सगुणा सकलेश्वरी ।
ककारिणी काव्यलोला कामेश्वरमनोहरा । ।
सर्वोत्तुङ्गा ।
कार्यापेक्षया कारणस्याधिकत्वात् सर्वापेक्षया उत्तुङ्गा उन्नता, 'पादोऽस्य विश्वा भूतानि ।
त्रिपादस्यामृतं दिवि' इति श्रुतेः ॥
ॐ सर्वोत्तुङ्गायै नमः । ।
सगहीना ।
निरवयवत्वेन निष्कारणत्वेन वा निर्गुणत्वेन वा निराश्रयत्वेन वा नित्यशुद्धबुद्धमुक्तस्वरूपत्वेन सबन्धरहिता वा, ' असगो न हि सज्जते' 'न चास्य कश्चिज्जनिता न चाधिप' इत्यादिश्रुतेरित्याशयः ॥
ॐ सगहीनायै नमः । ।
सगुणा ।
समा एकप्रकारा गुणा सत्यकामत्वादय यस्याः सा तथा ।
'गुणी सर्वविद्य' सत्यकाम सत्यसंकल्प' इत्यादिश्रुतेः ।
त्रिमूर्तिस्वरूपतया सत्त्वरजस्तमोगुणैः सह वर्तते इति वा तथा । ।
ॐ सगुणायै नमः । ।
सकलेष्टदा ।
इच्छाविषयभूतानि इष्टानि काम्यानीत्यर्थः, सकलानि च तानीत्यभेदसमास अन्यथा जीवादि.
p. 264
वत् कस्मिंश्चिद्विषये असामर्थ्यशङ्का स्यात् ।
एकस्य पदार्थस्य
बहूनामिच्छाविषयत्वदर्शनात् , एकत्र कामनायामपि तत्सहभावित्वेन सर्वप्रापकत्वोक्तौ परदेवताया बहुफलप्रदातृत्वेन
अत्यन्तविश्वसनीयतया अतिशयप्रतिभानाच्चेत्यर्थः ।
अथवा,
परिच्छिन्नपरिमितभाग्यवत्प्राणिन सर्वस्य सर्वत्र इच्छायामपि, यानि सर्वाणि स्वबुद्ध्या शास्त्राविरोधेनेष्टानि एषितव्यानि वाञ्छितव्यानि, तान्येव प्रयच्छति ददाति, न तदधिकानि, लोकेच्छाया बहुप्रकारत्वेन दुष्पूरणीयत्वादिति भावः ।
सर्वेषां प्राणिनामिष्ट्या इज्यया पूजया विषयीकृता,
यज्ञेन वा समाराधिता तस्य फलप्रदेत्यर्थः ।
' अह च सर्वयज्ञानां भोक्ता च प्रभुरेव च' 'एष एव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषति' इति स्मृतिश्रुतिभ्यां
परमेश्वरार्पणबुद्धया क्रियमाणस्यैव कर्मणः शुभफलत्वात् मुक्तिहेतुत्वेन, काम्यफलार्थिना जन्ममरणादिबन्धकत्वेन स्वल्पफलतथा अनादरणीयत्वादित्यर्थः ।
अथवा, कलाभिः अवयवैः तरतमभावैरित्यर्थः ।
तैः सहितानि इष्टानि फलानि मनुष्यानन्दादिब्रह्मानन्दपर्यन्तानि फलानि आनन्दस्वरूपाणि ददातीति तथा ॥
ॐ सकलेष्टदायै नमः ॥
ककारिणी ।
तृतीयखण्डाद्वितीयवर्णरूपककारावयव
p. 265
वाचकः अस्या अस्तीति तथा ।
ॐ ककारिण्यै नमः ॥
काव्यलोला ।
वाल्मीकिवेदव्यासादिकृतेषु काव्येषु लोला, वाच्यलक्ष्यार्थभेदेन तत्र संबद्धेत्यर्थः ।
अथवा, कविभिः कृतेषु स्तुतिविशेषेषु प्रीतिमतीत्यर्थः ॥
ॐ काव्यलोलायै नमः ॥
कामेश्वरमनोहरा ।
कामेश्वरस्य मनः हरतीति तथा ।
ॐ कामेश्वरमनोहरायै नमः ॥
कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥
कामेश्वरप्राणनाडी ।
कामेश्वरस्य प्राणनाडी यथा नाड्या प्राणः संचरति सा तथा, जीवनाडीत्यर्थः ।
‘इडया तु बहिर्याति’ इति लयखण्डवचनात् ।
लोके विशस्यमाने पशो हृदयं पुण्डरीकाकारं मांसखण्डात्मकान्तःसुषिराष्टदलोपेतमङ्गुष्ठपरिमाणसुषिरयुताधोभागकर्णिकामध्यं दृश्यते, तस्याः कर्णिकायाः केसरायमानाः एकशतं नाडीनामङ्कुराः तद्वेष्टनपुरीतन्नामकनाडीसुषिरविन्यस्तमूलाः भवन्ति ।
तत्र सुषुम्नानामकनाडी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं गता ।
तस्यां षट् चक्राणि मूलाधारादीनि तत्तन्मातृकावर्णसहितयोगशास्त्रोक्तदलसंयु-
p. 266
तानि सनद्धानि वर्तन्त ।
तस्या मूल पृथ्वीदेवता बिस्रतन्तुतनीयसी कुण्डलिन्यधोमुखावरणशक्तिर्निद्राति ।
तस्या दक्षिणभागे इलानामनाडी भ्रूमध्यपर्यन्त प्रसृता ।
वामे पिङ्गला तथा ।
तथा च जाग्रदवस्थाया नेत्रयो दपत्यात्मना
श्रुतिप्रतिपादित , स्वप्ने मनउपाधिक,सुषुप्तावज्ञानोपाधिक , जाग्रति स्थूलशरीराभिमानी विश्व इत्युच्यत,सूक्ष्माभिमानी तैजस , सुषुप्तौ कारणाभिमानी प्राज्ञ ।
सुषुप्तौ कारणात्मना स्थितानि स्थूलसूक्ष्मशरीरजन्यभोगमाधनप्रारब्धकर्मवशेन पुरीतद्द्वारा नाडीमार्गेण तत्तद्गोलकानि प्रविशन्ति इन्द्रियाणि ।
तदुपरमप्रारब्धोद्बोधे आन्दोलिकाया विद्यमानो राजा गृहान्तरे सोपानमागद्वारा प्रासादे विहृत्य तदवच्छिन्नान्तः पुरपर्यङ्के शयान इव नाडीद्वारा पुरीतत्प्रविश्य तदवच्छिन्नहृदयोपाधिक परमात्मान यदा प्रविशति तदा
सुप्त इत्युच्यते ।
लिङ्गशरीर कारणात्मना लीयत ।
तदा प्राणादिवायवः प्रलीनवृत्तयः सन्तः आयुःस्वरूपेण शरीरं रक्षन्ति ।
तथा च भाविजाग्रत्स्वप्नभोगानुकूलकर्मानुबन्धप्रणधारण सुषुप्तौ सोपाधिकचैतन्यस्यैव दृश्यतेय तत्सत्तया च नाडीनां
प्राणसचारयोग्यतापि ।
एवं च सति न प्राणेन नापानेनमत्यों जीवति कश्चन ।
इत्तरेण तु जीवन्ति यस्मिन्नेतावुपा-
p. 267
ललितात्रिहतीभाष्यम् ।
श्रितौ' इति श्रुत्या 'जीव प्राणधारणे' इति धातुपाठाच्च प्राणनाडीशब्दस्य लक्षणया परमात्मैवोच्यते ।
कामेश्वरस्यैव
प्रारब्धकर्मजन्यशरीरमात्राभावेऽपि घृतकाठिन्यन्यायेन मूर्तिमत्तया तदन्तर्यामिसभावनया एतन्नाम ।
कामेश्वरस्य प्राणनाडी तदधिष्ठानचैतन्यमिति फलितोऽर्थः । ।
ॐ कामेश्वरप्राणनाड्यै नमः ॥
कामशोत्संगवासिनी ।
कामेशस्य उत्सगे वामांके वसतीति तथा ।
'अनेकमन्मथाकारकामेशोत्संगवासिनी' इति
ललितातापनीये । ।
ॐ कामेशोत्संगवासिन्यै नमः ॥
कामेश्वरालिङ्गिताङ्गी ।
तेन आलिङ्गितम् अङ्गीकृतम् अङ्गं
यस्याः सा तथा । ।
ॐ कामेश्वरालिङ्गितायै नमः ॥
कामेश्वरसुखप्रदा ।
कामेश्वराय सुखं प्रददातीति वा ।
कामेश्वरस्य यत्सुखं ब्रह्मस्वरूपसच्चिदानन्दसाक्षात्कारात्मकम्
'दवो भूत्वा देवानप्येति' इति श्रुत्युक्तन्यायात् स्वकीयभक्तानां कामेश्वराभेदरूपं सच्चिदानन्दघनात्मकं मोक्षं
ददातीत्यर्थः ॥
ॐ कामेश्वरसुखप्रदायै नमः ॥
कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतपःसिद्धि कामेश्वरमनःप्रिया । ।
p. 268
कामेश्वरप्रणयिनी ।
कामेश्वरस्य स्वस्वरूपे परमानन्दघने या प्रीतिः तद्विषयभूतेत्यर्थः ॥
ॐ कामेश्वरप्रणयिन्यै
नमः ॥
कामेश्वरविलासिनी ।
कामेश्वरस्य विलासकार्यात्मना
विवर्तोऽस्या असीति तथा ॥
ॐ कामेश्वरविलासिन्यै नमः ॥
कामेश्वरतपःसिद्धि ।
कामेश्वरस्य तपः जगदालोचनात्मकम् , सिध्यत्यनयेति सिद्धि , तपसः साधनभूतेत्यर्थः ।
स्त्रीपुरुषात्मना कल्पितभेदवशात् जगत्सर्जनसाधनभूतत्यर्थः । ।
ॐ कामेश्वरतपःसिद्ध्यै नमः ॥
कामेश्वरमनःप्रिया ।
मनसः प्रिया तथा, निरवधिकप्रेमास्पदेत्यर्थः ॥
ॐ कामेश्वरमनःप्रियायै नमः । ।
कामेश्वरप्राणनाथा कामेश्वरविमोहिनी ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥
कामेश्वरप्राणनाथा ।
कामेश्वरस्य प्राणः हिरण्यगर्भः तं नाथयति पालयतीति तथा ।
कामेश्वरः प्राणनाथो वल्लभो
यस्याः सेति वा तथा । ।
ॐ कामेश्वरमाणनाथायै नमः | |
कामेश्वरविमोहिनी ।
विमोहयति स्वयं भिन्नविग्रहवती
p. 269
सती आवां दपती-इति द्विप्रकारकज्ञानवन्तं करोतीति सा तथा ।
अभेदज्ञानवतः तद्विपरीतज्ञानवत्वं मोहः तत्करोतीति सा तथा ।
अथवा, मोहो नाम बुद्धरेकालम्बनतया तदन्याविषयकत्वम् परमेश्वरस्य स्वस्वरूपपरदेवतापरमानन्दसाक्षात्कारेण स्थाणुवन्निश्चलतया उपचारेण मोहवत्तया तदितरप्रपञ्चाकारकृत्याद्याश्रयतादर्शनेन मोहयतीत्युपचारनाम ।
मोहयतीवेत्यर्थः ।
अन्तःपुरगतं राजानं स्त्रियासक्तमितिवदित्यर्थः ॥
ॐ कामेश्वरविमोहिन्यै नमं । ।
कामेश्वरब्रह्मविद्या ।
कामेश्वरस्य तत्त्वपदार्थसाक्षात्कारभूतेत्यर्थः , 'यः साक्षादपरोक्षाब्रह्म' इति श्रुतेः ॥
ॐ
कामेश्वरब्रह्मविद्यायै नमः ॥
कामेश्वरगृहेश्वरी ।
गृह्यत इति ग्रह सर्वज्ञानम् तस्य ईश्वरी विषयाधिष्ठानभूतत्वेन नियामिकेत्यर्थः ।
अथवा, 'गृहिणी
गृहमुच्यते' इति न्यायात् कामेश्वर गृहेश्वर स्वस्याधिपति अस्या अस्तीति सा तथा ॥
कामेश्वरगृहेश्वर्यै नमः । ।
कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥
कामेश्वराह्लादकरी ।
आह्लादः तृप्तिजन्यसुखं परमेश्वरस्य
p. 270
नित्यतृप्तत्वरूपा शक्तिः, परदेवतात्मकतया तं करोतीति तथा ॥
ॐ कामेश्वराह्लादकर्यै नमः ॥
कामेश्वरमहेश्वरी ।
महती च सा ईश्वरी निरुपाधिकैश्वर्यवती, ‘महान्प्रभुर्वै पुरुषः’ इति श्रुतेः ।
कामेश्वरस्य महदैश्वर्यम् अस्याः अस्तीति तथा; भगवतीत्यर्थः ।
‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ ‘तमीश्वराणां परमं महेश्वरम्’ इति श्रुतेः ॥
ॐ कामेश्वरमहेश्वर्यै नमः ॥
कामेश्वरी ।
मन्मथोपासितकादिविद्यारूपेत्यर्थः ॥
ॐ कामेश्वर्यै नमः ॥
कामकोटिनिलया ।
षण्णवतिपीठेषु मध्ये कामकोटिः श्रीचक्रमित्यर्थः ।
निलयं गृहं यस्याः सा तथा ॥
ॐ कामकोटिनिलयायै नमः ॥
काङ्क्षितार्थदा ।
काङ्क्षितान् काङ्क्षाविषयीभूतान्; प्राप्तसजातीयच्छा काङ्क्षा; तद्गोचरान् पदार्थान् ददातीति तथा ।
काङ्क्षिता सती उपास्यदेवता मे प्रसन्ना भूयादितीच्छया चिरकालोपासिता सती पुरुषार्थान् अप्रार्थयमानस्यापि स्वयमेव ददातीत्यर्थः ॥
ॐ काङ्क्षितार्थदायै नमः ॥
p. 271
लकारिणी लब्धरूपा लब्धधीर्लब्धवाल्छिता ।
लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ।
लकारिणी तृतीयखण्डतृतीयवर्णत्वेन वाचकतया अस्या अस्तीति सा तथा ॥
ॐ लकारिण्यै नमः ॥
लन्धरूपा ।
रूप्यते ज्ञाप्यत एभिरिति रूपाणि लक्षणानि स्वरूपतटस्थभेदेन सगुणनिर्गुणपराणि, लब्धानि यया
सा सथा ।
रूप्यते ज्ञाप्यत इति रूपम् अर्थः , उपलक्षण नाम्नोऽपि, लब्धे नामरूपे यया सा तथा ।
आदौ स्वयं मायोपाधिना शब्दार्थभावमापद्य पश्चात् न्याकरणमकरोदिति भावः । ।
ॐ लब्धरूयायै नमः ॥
लन्धधीः ।
निश्चयात्मिका सविकल्पनामका अन्तःकरणवृत्तयो धियः , ता उपाधित्वेन प्रतिबिम्बाधिष्ठानत्वेन लब्धा यया सा तथा ।
वृत्त्यारूढ चैतन्य ज्ञानमिति वा, चैतन्यव्याप्ता वृत्तिर्वेति वेदान्तसिद्धान्तः ।
जडानां विषयाणां ग्रहणे
तादृशीनां वृत्तीनां असामर्थ्ये जगदान्ध्यप्रसङ्गेन स्वरूपचैतन्यमन्तःकरणाद्युपहितफलचैतन्यतया प्रकाशयति ।
तथा
च ‘ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरिहेष्यते' इति न्यायेन लब्धा धीः तत्त्वमस्यादिमहावाक्यश्रवणजन्यवृत्तिव्याप्तिर्यया
p. 272
सत्यर्थः ।
अथवा, धीशब्देन सर्वज्ञत्वादिकमुच्यते , तत् लब्धं ययेति वा, 'यः सर्वज्ञः सर्ववित्' इति श्रुतेः ॥
ॐ
लब्धधिये नमः ॥
लब्धवाञ्छिता ।
वाञ्छाया विषयीभूतं वाञ्छितम् इष्टफलमित्यर्थः ।
लब्ध पूर्वमेव प्राप्त तद्ययेति तथा ।
आप्तकामेति
यावन् ।
ॐ लब्धवाञ्छितायै नमः । ।
लब्धपापमनोदूरा ।
पापप्रधानानि च तानि मनांसि च पापमनांसि लब्धानि पापमनांसि यैस्ते सदा पापचिन्तका इत्यर्थः ।
तषा दूरा अवेद्येत्यर्थः , 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् इति श्रुतेः ।
'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति श्रुत्या विहितानां तत्तद्वर्णाश्रमधर्माणामीश्वरार्पणबुद्धया क्रियमाणानामात्मज्ञानसाधनतया श्रूयमाणत्वात् तदन्येषा दुखप्राप्तिसाधनत्वेन पापवासनाप्रधानत्वेन दुरधिगमेत्यर्थः ॥
ॐ लब्धपापमनोदूरायै नमः ॥
लब्धाहंकारदुर्गमा ।
अहंकारोऽभिमान उपलक्षण तत्कार्याणामासुरसपत्तिविशेषाणाम् ।
लब्धः अहकारो राजसतामसात्मकः यैस्ते दुःखेनाप्यधिकप्रयत्नेन क्रियमाणसाधनकलापेन अधिगन्तु ज्ञातुमशक्याः ।
सत्त्वगुणाभावे देहे
p. 273
न्द्रियादौ सुखप्रकाशाव्याप्तौ मनःस्थैर्याभावेन रजसः प्रवर्तकस्य विक्षेपकस्य तमसश्चावरणप्रधानस्य विवेकज्ञानप्रतिबन्धकस्य निद्रालस्यादिसमुद्भवस्य कार्येण जामित्वादिरूपेण श्रेयोमार्गसाधनानुष्ठाने गुरुवेदयोः श्रद्धाक्षये बाह्यविषयसंपादनव्यग्रे मनसि लाभालाहेतुकहर्षशोकजन्यरागद्वेषपरतन्त्रे अनात्मज्ञासुरसंपत्तिमता चित्ते न भातीत्याशयः
प्रत्युत जननमरणप्रवाहरूपसंसारमेवानुभवन्ति,
'तानहं द्विषतः क्रूरान्' इति भगवद्वचनात् ।
अतो निरभिमानपुरुषेण स्वाभीष्टलाभाय चित्त सदा चिन्तनीयेत्यर्थः ।
'यतयः शुद्धसत्त्वा' इत्यादिप्रमाणेभ्य इति द्रष्टव्यम् ॥
ॐ लब्धा
हंकारदुर्गमायै नमः ॥
लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नति ।
लब्धवृद्धिर्लब्धलीला लब्धयौवनलिनी । ।
लब्धशक्ति ।
लब्धा शक्तिः सकलसामर्थ्यहेतुभूता मायात्मिका यया सा तथा,'ते ध्यानयोगानुगता अपश्यन्
देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति श्रुतेः ॥
ॐ लब्धशक्त्यै नमः ॥
लब्धदेहा ।
लब्धो देहो विग्रहो यया सा तथा ।
स्वे
p. 274
च्छावलम्बितमूर्ति घृतकाठिन्यन्यायेन जीवत्वाभावेन कर्माधीनत्वाभावात् ।
तथा च सति अध्यस्तमायाशक्ते भेदकत्वस्वाभाव्येन ‘पतिश्च पत्नी चाभवताम्' इति श्रुत्या च
दंपतिमूर्तिमत्ती बभूवेत्यभिप्रायः ॥
ॐ लब्धदेहायै नमः ॥
लब्धैश्वर्यसमुन्नति ।
ऐश्वर्याणां समुन्नति आधिक्यं पर्यवसानमित्यर्थः , लब्धा ऐश्वर्यसमुन्नतिः यया सा तथा,
'समीश्वराणां परमं महेश्वरम्' इति श्रुतेः नान्तोऽसि मम दिव्यानां विभूतीनां परंतप' इति स्मृतेश्च ।
'सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य' इति
श्रुतौ निरुपाधिकमहदैश्वर्यसंपत्ते तदुपासकानामगस्त्यादिमहर्षीणां दर्शनात् तदीयमहदैश्वर्यस्य निरवधिकत्वमिति किमु वक्तव्यमिति ज्ञायते इत्यभिप्रायः | |
ॐ लब्धैश्वर्यसमुन्नत्यै नमः ॥
लब्धवृद्धि ।
वृद्धिर्नाम व्याप्तिपरिपूर्णतेत्यथ , अवयवोपचयात्मका न, तस्याः कर्मजन्यत्वेन विनाशहेतुत्वात् ,
'स वा एष महानज आत्मा न वर्धते कर्मणा' इति श्रुतिवचनात् , 'निष्क्रियं निष्कलम्' इति अवयवमात्रनिषेधाच्च, तथा च लब्धा वृद्धि सर्वव्यापकता स्वस्वरूपैव
सती उपाधिभिर्जन्यैस्तदाश्रयभूतैः अभिव्यज्यत ।
न
p. 275
त्वविद्यमानारोपिता इति निष्कर्षार्थः ॥
ॐ लब्धवृद्ध्यै नमः । ।
लब्धलीला ।
लीला अन्यप्रयोजनार्थव्यापारा स्वहर्षमात्रहेतुका वा, तत्सत्कालोचितशृङ्गारादिनवरसाङ्गीकारसमये
तदुचितभङ्गीविशेषा वा लब्धा यया सा तथा ॥
ॐ लब्धलीलायै नम: ॥
लब्धयौवनशालिनी ।
अस्तित्वजननवर्धनभावविकारावस्था बाल्यम्, परिणामः अपक्षयो नाश, उत्तरावस्था जरा, दहाभावेन तदुभयनिषेधे अर्थाद्यौवनम् , यौति गच्छत्तीति युवा दृढबलवीर्य , तस्य भावः योवन तदुमयवयोऽवस्थाराहित्येनैकस्वरूपता, तलब्ध प्राप्त यौवन यया सा तथा 'अजरोऽमृतोऽभयो ब्रह्म' इति श्रुतेः सर्वदा एकप्रकारस्वरूपवतीत भावः | |
ॐ लब्धयौवनशालिन्यै नमः ॥
लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा ।
लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥
लब्धातिशयसर्वाङ्गसौन्दर्या ।
सुन्दरो रुचिरस्तस्य भावः सौन्दर्यम् , अवयवानां सर्वेषां सौन्दर्यमतिशायि सर्वाङ्गेषु सर्वावयवेषु लब्ध यया सा तथा, यथाशास्त्रोक्ता
p. 276
वयवविन्यासविशेषत्वेन सर्वमोहरमूर्तिवतीत्यर्थः
'न तस्य प्रतिमास्ति' इति श्रुतेः ॥
ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः ॥
लन्धविभ्रमा ।
विभ्रमो बालक्रीडा लब्धा यया
सा तथा, सर्वात्मकतया सर्वकर्तृत्वादिति भावः ॥
ॐ लब्धविभ्रमायै नमः ॥
लब्धरागा ।
लब्ध सजातीयो राग काम
'सोऽका-मयत' इति श्रुत्या जगत्सर्जनस्य कामनापूर्वकत्वप्रतिपादनात्, लब्धो रागो यया सा तथा इत्यर्थः ॥
ॐ लब्धरागायै नमः ॥
लब्धपति ।
लब्ध स्वेच्छयैव स्वयंवरे पतिः कामेश्वरो यया सा तथा ॥
ॐ लब्धपतये नमः ॥
लब्धनानागमस्थिति ।
आ मम तात नानाप्रकारैः कर्मोपासनाज्ञानकाण्डतदकत्वादिभिः गमयन्ति स्वार्थान् प्रकाशयन्तीत्यागमा वेदा नाना अनेकशाखाप्रभिन्नसामादय
तेषा स्थितिः परिपालन लब्धा यया सा तथा ।
नानागमस्थिति वेदचतुष्टयोक्तमर्यादा काण्डनयविषया लब्धा यया सेति वा ।
संसारस्थानादित्वेन निरपेक्षप्रमाणभूतान्
वेदान् ‘सर्वे वेदा यत्रैक भवन्ति' इति श्रुतेः स्वस्वरूपभूतान्
p. 277
महाप्रलये संरक्ष्य सर्गादौ जायमानहिरण्यगर्भस्यान्यूनानतिरेकेण तानेव प्रतिभासयति स्वयं दंपती भूत्वा तदुकधर्माननुष्ठाय परेषामप्यनुष्ठापयतीति च ।
'वेदशास्त्रे ममैवाज्ञे वर्त एव च कर्मणि ।
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्' इत्यादिभगवद्वचनादिति द्रष्टव्यम् ॥
ॐ लब्धनानागमस्थित्यै नमः ॥
लब्धभोगा लब्धमुखा लब्धहर्षाभिपूजिता ।
ह्रींकारमूर्तिह्रींकारसौधशृङ्गकपोतिका ॥ ५४ ॥
लब्धभोगा ।
भोग सुखमात्रानुभव दुखानुभवे उच्यमाने जीवाविशेषप्रसङ्गात् ।
लब्ध भोग यया सा तथा ।
जीववत् क्रमिकस्वेष्टपदार्थानुभवानन्तरकालीन सुखं न भवति, स्वस्या आनन्दरूपत्वेन सिद्धस्वरूपत्वात् , साधनभूतभोगोऽप्येतद्विषये सिद्ध इत्युपचर्यते इति लब्धभोगेत्युच्यते । ।
ॐ लब्धभोगायै नमः ॥
लब्धसुखा ।
लब्धं सुख अनुकूलवेदनीय स्वस्वरूपभूत
सुख तत्साधनं च धर्म यया सा तथा ॥
ॐ लब्धसुखायै नमः ॥
p. 278
लब्धहर्षाभिपूरिता ।
लब्ध या हर्ष तृप्तिनिमित्तकचित्तोल्लासविशेष मुखप्रसादशरीरपुष्ट्यादिकार्योन्मेय जगत्या
स्वाभीष्टपदार्थानुभवादिजन्य संतोष इति प्रसिद्ध , तेनाभिपूरिता अभितः समन्तादन्यूनानतिरेकेणाविच्छिन्नरूपतया
पूरिता भरिता ।
तद्विपरीतदुःखाद्यनुत्पादेन तन्मात्रसमाश्रया नित्यप्रसन्नमुखीत्यर्थः ॥
ॐ लब्धहर्षाभिपूरितायै नमः । ।
ह्रींकारमूर्ति ।
वाच्यवाचकताभेदसबन्धेन ह्रीकार मूर्ति विग्रहो यस्था सा तथा ॥
ॐ ह्रींकारमूर्त्यै नमः ॥
ह्रींकारसौधशतकपोतिका ।
सुधामय सौधम् , सुधाविकार अट्टालिकेत्यर्थः , तस्य शृङ्गं शिखर चन्द्रशालादिभित्त्युपरिभाग , निरुपाधिकविश्रान्तिजन्यसुखानुभवहेतुतया ह्रींकारस्य सौधोपमा , तत्र हकारस्य श्रेतवर्णतया अट्टालिकसादृश्यम्, रेफस्य लोहितरूपतया इष्टकादिकृता
घोभित्त्युपमा, इकारोपरि ईकारस्य शृङ्गोपमा, ऊर्ध्वगत्वसाम्यात् , तदुपरितनबिन्दु सर्वप्रकातभूतशब्दार्थात्मकतया तदवयवत्वेन विचित्रस्वरूपोऽपि सूक्ष्मतया अपवरकगतकपोतकान्तेव जागरूक दृश्यत इति तदर्थत्वेन परदवतोपमानशब्देनाभिधीयत इति भावः । ।
ॐ हींकारसौषशृङ्गकपोतिकायै नमः ॥
p. 279
ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेन्दिरा ।
ह्रींकारमणिदीपार्चिह्रींकारतरुशारिका । ।
हकारदुग्धाब्धिसुधा ।
दोहानिष्पन्नं दुग्धम् ।
स्तनगतस्य पयसः स्वीयतापादनहस्तक्रियाविशेषो दोहः ।
उपलक्षणं चोषणादीनाम् , तथा च प्रदीपालकार सिद्ध , अनन्तोदकप्रसारितनिम्नभूप्रदेश अब्धिरुच्यते ।
आप धीयते अस्मिन्निति तथा ।
तस्मिन् सजीवकत्व धर्म ।
डिम्भक सजीवने स्तन्यादी दर्शनात् ।
ह्रींकारस्यापि हकारयुक्ततया श्वेतवर्णत्वादमृतहेतोश्च तत्सादृश्यम् ।
तस्य सुधेव सुधा
तदभिव्यक्तत्वाविशेषात्तत्सेवकाना नित्यत्वे सति बहुविधमहिमशालितया दर्शनादिति भावः ॥
ॐ ह्रींकारदुग्धाब्धिसुधायै नमः ॥
हींकारकमलेन्दिरा ।
ह्रींकारबीजस्य विचित्रवर्णतया परमप्रीतिविषयतया च कमलोपमा ।
तस्य वाच्यार्थतया तदुपरितनत्वेन सर्वपुरुषार्थप्रदातृत्वाच्च कमलशब्देनाभिधीयते ।
तस्या पद्मालयत्वात् ह्रींकारकमलस्य इन्दिरा सदधीनब्रह्मविद्यत्यर्थ ॥
ॐ ह्रींकारकमलेन्दिरायै नमः । ।
ह्रींकारमणिदीपार्चि ।
आधिदैविकाद्युपद्रवानभिभूतत्वे
p. 280
सति चिरकालावस्थायित्व मणिदीपसाहश्यम् ह्रींकारस्य ।
तस्य प्रकाश अनितरसाधारणमहातिशयवत्त्वेन अनर्घत्वमावेदयति ।
तदुपासकस्य निरवधिकमहत्त्वापादकह्रींकारवाच्यतया तत्प्रकाशकेत्यर्थः ।
तथा च निरन्तरतमोऽपाकरणेन स्वेष्टपदार्थापादनेन च सुखयतीति फलितोऽर्थः ॥
ॐ
ह्रींकारमणिदीपार्चिषे नमः ॥
ह्रींकारतरुशारिका ।
तारयति फलार्थिन स्वारूढान् पतनादे रक्षतीति तरु , तस्य शारिका पिङ्गतुण्डनेत्रचरणा शारिका अभ्यासातिशयेन मनुष्यभाषायामपि भाषते ।
भूतभविष्यद्वर्तमानलोकयात्रापरिज्ञात्री सती शुभाशुभफलप्राप्तिं च स्वभाषया वदति ।
अस्य बीजस्य वाच्यार्थतया
सत्सबन्धिनी सती वेदवाचा सर्वं प्रकाशयतीत्यर्थः ॥
ॐ
ह्रींकारतरुशारिकायै नमः ॥
ह्रींकारपेटकमणिर्ह्रींकारादर्शविम्बिता ।
ह्रींकारकोशामिलता ह्रींकारास्थाननर्तकी ।
ह्रींकारपेटकमणि ।
गूहनसाधनतया ह्रींकार पेटफेन दृष्टान्तीक्रियते ।
तस्य मणि वैडू मित्यर्थ ।
यथा हीरादिमणि पेटकादौ गापितोऽपि स्वकान्त्या बाह्याभ्यन्तर तस्य
p. 281
प्रकाशयन्नितरपेटकेभ्य तं व्यावर्तयति, तथेदमपि बीजं स्ववाचकतयेतरवर्णेभ्य निरतिशयमहिम्ना भेदयतीति भावः । ।
ॐ ह्रींकारपेटकमणये नमः । ।
ह्रींकारादर्शबिम्बिता ।
अस्य बीजस्य इतरप्रमाणानपेक्षवेदान्तर्गततया निर्दोषत्वादादशसाम्यम् ।
तस्मिन् बिम्बिता
प्रतिबिम्बिता, मायाप्रतिबिम्बचैतन्यस्यैव जगत्कारणतया सर्वत्र दर्पणे मुखमिव प्रतिफलतीति तात्पर्यार्थः ॥
ॐ
हींकारादर्शविम्बितायै नमः ॥
ह्रींकारकोशासिलता ।
ह्रींकार एव कोश तस्यासिलता अतिदीर्घखड्गमित्यर्थः ।
सर्ववैर्यादिजन्यदुखविवर्तकत्वमसिलताया इव परदेवताया अपि ।
तथात्वेन बहिः प्रकटनायोग्यतामादृश्येन आच्छादकापेक्षया ह्रींकारस्य वाचकशब्दतया अर्थावारकत्वौपम्यादसिकोशतुल्यता ।
तथा च ह्रींकारकाशे विद्यमाना असिलतेव दुखनिवारकत्वे सति भक्ताभयकरीति भावः ।
सर्वेषामायुधविशेषाणाम् असिपदमुपलक्षणम् ।
'महद्भयं वनमुद्यतम् ' ' भीषास्माद्वात पवते' इत्यादिश्रुतेः ॥
ॐ ह्रींकारकोशासिलतायै नमः ।
ह्रींकारास्थाननर्तकी ।
ह्रींकार एव आस्थान सभामण्डप सर्वाश्रयत्वात् ।
तस्य नर्तकी नटनसबन्धभूसयोगचरणवि
p. 282
न्यासोपलक्षिततालानुसारिहस्ताद्यङ्गचेष्टा नर्तनम् , तत्कर्त्री नर्तकी ।
ह्रींकारवाच्यार्थतया मायादिसबन्धासबन्धनिमित्तकविचित्रतरकार्योदनव्यापारानुकारविकार्यविकारिस्वरूपवत्तया द्रष्टुलोकमनोवृत्तिभेदेन तीव्रमन्दमन्दनरप्रीतिरूपभक्तिविषयतयाभिव्नभिव्यक्तेष्टफलसाधनतया स्वकीयपुण्यादितारतम्येन बुद्धिशुद्धिभेदात्प्रतिभातीत्यर्थः ॥
ॐ ह्रींकारास्थाननर्तक्यै नमः ॥
ह्रींकारशुक्तिकामुक्तामणिह्रींकारबाधिता ।
ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥
ह्रींकारशुक्तिकामुक्तामणि ।
ह्रींकार एव शुक्तिका नीलपृष्ठत्रिकोणाकारा, तस्या मुक्तिकेव मुक्ताफलामवाभिव्यज्यमाना-- यथा स्वातीमहानक्षत्र सर्वदेशेषु मेघसंघात्पतज्जलबिन्दु शुक्तिकान्त पतित समुद्रदेशविशेषे मुक्ताकारेण परिणमते, तथा सत्त्वरजस्तमोगुणात्मकह्रींबीजावच्छेदेन मनोहरवाचामगोचरसुन्दरतरपरदेवतामूर्त्यां सर्वगतमपि चैतन्य विशिष्याभिव्यज्यते ।
तथा च मौक्तिकार्थिना शुक्त्युपादानवत् परदेवतासाक्षात्कारेप्सूना ह्रींकारोपादानमावश्यकमिति भावः ॥
ॐ ह्रींकारशुक्तिकामुक्तामणये नमः । ।
p. 283
ह्रींकारबोधिता ।
सिद्धे पदार्थे इन्द्रियादिसबन्धे सति स्वत एव ज्ञानोत्पत्तिदर्शनान्न ज्ञाने विधिरपेक्षित , क्रियाफलत्वाभावात् ।
तर्हि नित्यापरोक्षधर्मादिज्ञानवत् शुद्धब्रह्माभेद
वेदैकदेशह्रींकारेणैव बोध्यते, अज्ञातज्ञापकत्वेन वेदस्य स्वत प्रामाण्याभ्युपगमात् , परचैतन्यस्य च ज्ञायमानस्य परमानन्दरूपतया पुरुषार्थरूपत्वात् ।
अत ह्रींकारेणैव
मूलमन्त्रात्मना बोधिता ज्ञापिता ।
हकाररेफेकाराणां व्यस्तत्वदशायां भिन्नभिन्नार्थकानां मेलने ह्रींकारात्मना परिणामे
सच्चिदानन्दस्वरूपश्रीत्रिपुरसुन्दर्या तदर्थत्वेन अद्वैतस्वरूपतया प्रतिभानात् ।
'नान्योऽतोऽस्ति द्रष्टा, इदं सर्वं यदयमात्मा' 'एक एव तु भूतात्मा भूते भूते व्यवस्थित ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिश्रुतेः ।
आत्मा वा अरे दृष्टव्य तद्विजिज्ञासस्व' 'आत्मानं पश्येत्' इत्यादिलिङ्लोट्तव्यप्रत्ययानामर्हतार्थकतया न विधित्वमिति सिद्धान्त ॥
ॐ हींकारबोधितायै नमः । ।
ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ।
पिङ्गलपृथ्वीरेणु सुवर्णमित्युच्यते ।
अनुन्छिद्यमानद्रवत्वस्य नैमित्तिकत्वेऽपि
तैजसान्तर प्रदीपप्रभादाववर्शनात् ।
पदार्थान्तरसंयोगे रजतादिवदतितेज संयोगात् भस्मभावापत्तेश्च हीरमणौ लोहले
p. 284
रूयत्वाभाववत्त्वेऽपि पार्थिवत्ववदत्र पार्थिवत्वे बाधाभावात् ।
द्रवत्वस्यादकस्वभावत्वेन तत्कायपृथिव्यामपि उपलम्भोपपत्तेश्च ।
तद्विकार , सौवणश्रासौ स्तम्भश्च ।
सौवर्णस्तम्भस्य नवरत्नमण्डपभाररवाहित्वे सति तदभिन्नत्वेन तदलंकारभूतत्वस्येव साधर्म्यस्य ह्रींकारेऽपि जगदाश्रयत्वे सति तत्कारणत्वे सति तदन्तर्भूतत्वे सति परमानन्दजनकत्वस्य सत्त्वेन ह्रींकारमय इत्यभेदोपचार प्रदीपालकारद्योतनार्थ इति ज्ञातव्यम् ।
ह्रींकारे उपमेये मयशब्देनोपमानाभेदकल्पनात् ।
तस्मिन्त्रिचित्रपिङ्गप्रधानरूपे तत्सबन्धितया विद्रुमपुत्रिकेव प्रतीयमाना विद्रुमन प्रवालन कृता पुत्रिका सालभञ्जिका ।
सौवर्णस्तम्भशब्द उपलक्षण भित्त्यादीनाम् , प्रायस्त्वदर्शनात् तदुपादान स्वत मनोज्ञस्य स्तम्भस्यातिशयदर्शनीयतायै ।
दुर्लभतरप्रवालपुत्रिका स्तम्भमण्डप तत्स्वामिन तद्दश च प्रकृष्टीकरोति तथा श्रीपरदेवतापि रूढ्यैतद्बीजार्थतया तदवच्छिन्ना सती तदादीन् सर्वान् भूषयति सफलीकरोतीत्यर्थः ॥
ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः ।
ह्रींकारवेदोपनिषद्ध्रींकाराध्वरदक्षिणा ।
ह्रींकारनन्दनारामनवकल्पकवल्लरी ॥ ८७ ॥
p. 285
ह्रींकारवेदोपनिषत् ।
वेद्यन्ते ज्ञायन्ते सर्वे पदार्था अनेनेति वेद ।
जात्येकवचनम् ।
ह्रींकार एव वेद ।
ज्ञापकत्वाविशेषात् ।
तस्य उपनिषद्वेदान्तभाग लक्ष्यार्थो
वा, तत् ब्रह्मोपनिषत्परमिति श्रुत ।
कर्मोपासनाज्ञानकाण्डभेदेन चत्वाराऽपि वेदा त्रिप्रकारा ।
'तमेत वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति वाक्येन ज्ञानसाधनतया
कर्मोपासनयो विनियुक्तत्वात् , 'अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रता ' इति श्रुत्या तदुभयो संसारफलकत्वेन निन्दितत्वाच्च,
आत्मानं चेद्विजानीयादयमस्मीति पुरुष ।
किमिच्छन् कस्य कामाय शरीरमनुसज्वरेत' ' आत्मकाम आप्तकाम' इत्यादिश्रुतिभ्य अद्वैतज्ञानोत्पादकवेदभागस्योपनिषच्छब्दवाच्यस्य मोक्षफलकत्वेनफलप्रतिपादनात्तदुभयप्रतिपादकवदभागापेक्षया श्रेष्ठत्वम् , लोके साधनापेक्षया फलस्य श्रेष्ठत्वेनोत्तमत्त्वप्रसिद्धे ।
तथा च पूर्वकाण्डद्वयार्थस्य जन्यतया
तत्प्रतिपादकवेदभागस्योपनिषन्छेषत्ववत् ह्रींकारस्यापि परदेवताप्रकाशकत्येन तच्छेषत्वात्तस्या प्राधान्यमुक्तमिति द्रष्टव्यम् ।
वेदान्तेषूपनिषच्छब्द तज्जन्यतारूपशक्यसबन्धेन प्रवर्तते ।
मुख्यया वृत्त्या तु ब्रह्मविद्यायामेव ।
तथाहि-उप
p. 286
शब्द समीपदेशार्थक ।
ब्रह्मण्यध्यस्तमायासमीपदेशक तत्पदार्थप्रतिबिम्बितमविद्योपाधिकचैतन्य जीवशब्दवान् यमुपशब्दार्थ लक्षणया प्रतिपाद्यते ।
नि शब्द षद् इति पदस्य
विशेषणम् ।
सत् इति पद सदनगत्यवसादनेषु भवति ।
तथा च उपशब्दवाच्यो जीव अविद्या निहत्य त्यक्त्वाब्रह्मस्वरूपेण निषीदति वर्तत इति उपनिषदित्येकोऽर्थः ।
जीव ब्रह्म स्वरूपत्वेन निगच्छति जानातीत्यन्योऽर्थः ।
जीव ब्रह्मस्वरूपेण अवसीदति परिसमाप्नोतीति तृतीयोऽर्थः ।
एवमुपनिषच्छब्दस्य ब्रह्मविद्यावाचकत्वेन प्रसिद्धस्य तद्वाचकवेदभागे लक्षणवत्त्वेऽप्युपनिषन्छब्दवाच्यो भवति ।
तथा
च ह्रींकार एव वेद तस्य उपानषत्प्रधानभूता ब्रह्मविद्येत्यर्थः ।
ॐ ह्रींकारवेदोपनिषदे नमः ॥
ह्रींकाराध्वरदक्षिणा ।
ह्रींकार एव अध्वर यज्ञ
दक्षिणा समापिसाधनम् , दक्षिणाया दत्ताया यज्ञसमाप्तिदर्शनात् ।
ह्रींकारस्यापि जप यजनात्मकतया अध्वान राति गच्छतीत्यध्वर मार्गसाधक इत्यर्थ ।
दक्षिणापद
फलबाचि ऋत्विग्व्यापाराणा दक्षिणाफलत्वदर्शनात् ।
ह्रींकाराध्वरस्य हींकारजपयज्ञस्य दक्षिणा फलसाधनीभूतपुरुषार्थरूपा ।
अथवा ह्रींकाराध्वरस्य दक्षिणा पत्नी,मखस्य
p. 287
दक्षिणा पत्नी’ इति वचनात् ।
‘ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः’ इति भगवद्वचनात् ।
ह्रींकारलक्ष्यार्थज्ञानमेव ह्रींकाराध्वरः ह्रींकारज्ञानयज्ञः, ‘प्रधानं दक्षिणा मखे’ इति वचनात् दक्षिणावत्फलभूतत्वेन प्रधानभूतेति वा ।
देवतोद्देशेन द्रव्यत्यागो याग इत्युच्यते ।
त्यक्तद्रव्यस्य अग्नौ प्रक्षेपो होमः ।
ऋत्विगुद्देशेन वेद्यामर्थविभागो दक्षिणा ।
अर्थिभ्यः वेदिबहिर्देशेऽर्थविभागो दानमिति तेषां भेदः ॥
ॐ ह्रींकाराध्वरदक्षिणायै नमः ॥
ह्रींकारनन्दनारामनवकल्पकवल्लरी ।
नन्दयत्यानन्दयतीति नन्दनः स चासौ आरामश्च तथा ।
देवेन्द्रोद्यानं विचित्रस्वरूपतया विजातीयार्थकत्वात् ।
ह्रींकार एव नन्दनारामः सुखकर्तृविश्रामभूमिः, तस्य नवा नूतना अतिकोमलेत्यर्थः ।
कल्पयतीति कल्पका, कल्पका च सा वल्लरी चेति तथा ।
देवोद्याने विद्यमानानां वृक्षगुल्मलतातृणादीनाम् एतल्लोकातिशायिपुष्पफलादिमत्त्वेऽपि न सर्वोत्तमताप्रसिद्धिः ।
कल्पवल्ल्यास्तु यथाकर्म यथासेवमुपासकानां सर्वार्थप्रदानशक्तिमत्त्वेन सर्वोत्कृष्टता ।
तथा ब्रह्मविष्णुरुद्राणां तद्वाचकवर्णभेदानाम् अन्योन्यसंबन्धतया एकत्र प्रतीयमानत्वेन चिरजीवित्वफलादिप्रदानेन आनन्दकतया संसारता-
p. 288
पशामकत्वेन च ह्रींकारस्य नन्दनोपमा ।
तत्र सर्वार्थप्रदातृत्वेन कामेश्वरालिङ्गितकोमलतरसुन्दरमूर्त्या विशिष्टपुरुषार्थचतुष्टयकल्पनेन सगुणनिर्गुणोपासकानां तद्देवतात्मना प्राधान्येन समष्टिरूपतया सादृश्येन नवकल्पकवल्लरीत्युच्यत इति भावः ॥
ॐ ह्रींकारनन्दनारामनवकल्पकवल्लर्यै नमः ॥
ह्रींकारहिमवद्गङ्गा ह्रींकारार्णवकौस्तुभा ।
ह्रींकारमन्त्रसर्वस्वा ह्रींकारपरसौख्यदा ॥
ह्रींकारहिमवद्गङ्गा ।
हिमान्यस्मिन् सन्तीति हिमवान् शीतलपर्वतराजः ।
ह्रींकारस्य अमृतादिसाधकतया शीतलता बोध्या ।
तस्माद्गङ्गेव पावनी सर्वपुरुषार्थप्रदा मन्त्रदेवतात्मनाभिव्यक्तेत्यर्थः ॥
ॐ ह्रींकारहिमवद्गङ्गायै नमः ॥
ह्रींकारार्णवकौस्तुभा ।
कौस्तुभः क्षीराब्धिजन्मसु चतुर्दशरत्नेषु यथा श्रेष्ठः सर्वाधिकप्रकाशादिगुणतया, तथा परदेवतापि अपारमहिमापरिच्छिन्नह्रींकारमन्त्रवेद्यत्वेन तन्निष्पन्ना सती ‘अत्रायं पुरुषः स्वयं ज्योतिः’ इति श्रुतेः स्वयंप्रकाशतया विद्योतत इत्यर्थः ।
अत्र कौस्तुभहृदयस्य लक्ष्मी-
p. 289
पतित्वसर्वदेवोत्तमत्वसकलसुन्दरतमत्वगुणा इव विष्णो र्ह्रींकारार्णवविद्योतमानहींकारदेवतोपासकस्यापि नारायणाभेदेन श्रीकान्तत्वादिधर्मा स्वत एव सिध्यन्तीति कौस्तुभपदेन ध्वनितमिति द्रष्टव्यम् ॥
ॐ ह्रींकारार्णवकौस्तुभायै नमः ॥
ह्रींकारमन्त्रसर्वस्वा ।
सर्वाणि च तानि स्वानि च धनानि अणिमाद्यष्टैश्वर्यजनकत्वादीनि तानि तथा ।
ह्रींकारघटिता ह्रींकारो वा तेषां सर्वस्वा सकलसंपत् सर्वार्थसाधकशक्तिरित्यर्थः ॥
ॐ ह्रींकारमन्त्रसर्वस्वायै नमः । ।
ह्रींकारपरसौख्यदा ।
ह्रींकारपरा हींकारमन्त्रजपपरा ह्रींकारघटितश्रीविद्याजपपरा वा ।
तेषां सौख्य चतुर्विधपुरुषार्थप्राप्तिजन्यानन्द तद्दातीति तथा ।
ह्रींकाराणां व्यष्टिरूपेण वाच्यार्थना त्रिमूर्तीना पर सौख्य सामरस्यसुख एकीभावानन्द ददातीति वार्थः ।
'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ।
यत्रान्यत्पश्यत्यन्यन्छृणोत्यन्यद्विजानाति तदल्पम्' 'नाल्पे सुखमस्ति' इति,
आनन्द ब्रह्मणो विद्वान् न बिभेति कुतश्चन' इति यदा ह्मवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभय प्रतिष्ठा विन्दते ।
अथ सोऽभय गतो भवति', 'विज्ञानमानन्द ब्रह्म
रातिर्दातु परायणम्' इत्यादिबहुश्रुतिभ्य अखण्डसचिदा
p. 290
नन्दब्रह्मास्वरूपतया सैव फलं भवति, अन्यज्ञानादन्यफलप्राप्तेरयोगात् ।
ब्रह्म वेद ब्रह्मैव भवति ।
सरति शोकमात्मवित्', 'येन मामुपयान्ति ते ।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्' 'ब्रह्मैव सन् ब्रह्माप्यति' इत्यादिश्रुतिस्मृतिशतेभ्य स्वस्वरूपप्राप्तरेव पुरुषार्थस्य प्रदातृत्वं सिद्धम् ॥
ॐ ह्रींकारपरसौख्यदायै नमः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ
श्रीललितात्रिशतीभाष्यमं संपूर्णम् ॥
इत्येव ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वागोपनीयं त्वया मुने ।
शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्त्यक्षराणि नामानि कामेशकथितानि च । ।
उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३ ॥
नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं संभवेन्नात्र सशयः ॥
p. 291
इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलितकलुषोऽभूचित्तपर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५ ॥
अगस्त्य उवाच-
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥
उभयोरपि वर्णानि कानि वा वद देशिक ।
इति पृष्ट कुम्भजेन हयग्रीवोऽवदत्पुनः ॥ ७ ॥
तव गोप्य किमस्तीय साक्षादम्बानुशासनात् ।
इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज ।
एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् ।
कत्रय हद्वय चैव शैवो भागः प्रकीर्तितः ॥ ९ ॥
शक्त्यक्षराणि शेषाणि हींकार उभयात्मकः ।
एव विभागमज्ञात्वा ये विद्याजपशालिनः ॥
p. 292
न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ।
नवचकैश्च संसिद्ध श्रीचक्र शिवयार्वपु ।
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ १२ ॥
चतुर्दशार चैतानि शक्तिचक्राणि पश्च च ।
बिन्दुश्चाष्टदल पश्म पद्म षोडशपत्रकम् ॥ १३ ॥
चतुरश्र च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दव श्लिष्ट अष्टारेष्टदलाम्बुजम् । ।
दशारयो षोडशार भूगृह भुवनाश्रके ।
शैवानामपि शाक्ताना चक्राणा च परस्परम् ॥
अविनाभावसबन्ध यो जानाति स चक्रवित् ।
त्रिकोणरूपिणी शक्तिबिन्दुरूपपर शिव ॥
अविनाभावसबन्ध तस्माद्बिन्दुत्रिकोणयो ।
एवं विभागमज्ञात्वा श्रीचक्र यः समर्चयेत् । ।
p. 293
न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेऽस्मिन्श्रीविद्याचक्रवेदिनः ॥
मामान्यवेदिन सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयंविद्याविशेषज्ञो विशेषज्ञ समर्चयेत् ॥ १९ ॥
तस्मै देय ततो ग्राह्यमशक्तस्तस्य दापयेत् ।
अन्धं तमः प्रविशन्ति येऽविद्यां समुपासते । ।
इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निन्दत्यारणिकी श्रुतिः ॥
अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः ।
स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निं च ये विदुः । ।
सिकता इव मयन्ति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥
यस्य नो पश्चिम जन्म यदि वा शंकर स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥
p. 294
इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मौक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः । ।
न शिल्पादिज्ञानयुक्त विद्वच्छब्द प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥
तस्माद्विद्याविदेवात्र विद्यान्विद्वानितीर्यते ।
स्वयं विद्याविदे दद्यात्ख्यापयत्तद्गुणान्सुधीः ।
स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि ।
विद्याविद नार्चयेच्चेत्को वा त पूजयेज्जनः ॥ २८ ॥
प्रसङ्गादिदमुक्त त प्रकृत शृणु कुम्भज |
य कीर्तयत्सकृद्भक्त्या दिव्यनामशतत्रयम् ।
तस्य पुण्यमहं वक्ष्ये शृणु स्व कुम्भसंभव ।
रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३० ॥
तत्फलं कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्यां कृत नामशतत्रयम् । ।
p. 295
नान्येन तुलयेदेतत्स्तोत्रेणान्यकृतेन च ।
श्रिय परम्परा यस्य भावि वा चोत्तरोत्तरम् । ।
तेनैव लभ्यते चैतत्पश्चाच्छ्रेय परीक्षयेत् ।
अस्या नाना त्रिशत्यास्तु महिमा केन वर्ण्यते ॥
या स्वय शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता ।
नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥
अभ्यक्तास्तिलतैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च्य गन्धपुष्पाद्यै कामेश्वर्यादिनामभिः ॥
सूपापूपै शर्कराद्यै पायसै फलसयुतै ।
विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् । ।
एवं नित्यार्चन् कुर्यादादौ ब्राह्मणभोजनम् ।
त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् । ।
तैलाभ्यङ्गादिक दत्वा विभवे सति भक्तित ।
शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥
p. 296
ललिलात्रिशतीभाष्यम् ।
दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया ।
दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनै ॥
त्रिंशत्यष्टि शतविप्रा सभोज्यास्त्रिंशतः क्रमात् एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥
तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा ।
रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ ४१ ॥
आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् ।
रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२ ॥
सशीकराणुरत्रैकनाम्नो महिमवारिधेः ।
वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥ ४३ ॥
सत्फल कोटिगुणित नाम्नोऽप्येकस्य कीर्तनात् ।
एतदन्यैर्जपै स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥
तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ।
वाग्देवीरचिस्तोत्रे तादृशो महिमा यदि ॥
p. 297
साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति ।
सकृत्सकीर्तनादेव नाम्नामस्मिञ्शतत्रये ॥ ४६ ॥
भवेच्चित्तस्य पर्याप्तिन्यूनमन्यानपेक्षिणी ।
न ज्ञातव्यमितोऽप्यन्यन्न जप्तव्य च कुम्भज । ।
यद्यत्साध्यतमं कार्यं तत्तदर्थमिद जपेत् ।
तत्सत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥
ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्वं सिध्यति क्षिप्र नामत्रिशतकीर्तनात् ॥
आयुष्कर पुष्टिकर पुत्रद वश्यकारकम् ।
विद्याप्रद कीर्तिकर सुकवित्वप्रदायकम् ॥ ५० ॥
सर्वसंपत्प्रद सर्वभोगद सर्वसौख्यदम् ।
सर्वाभीष्टप्रद चैव देव्या नामशतत्रयम् ॥ ११ ॥
एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।
एतत्कीर्तनसंतुष्टा श्रीदेवी ललिताम्बिका । ।
p. 298
भक्तस्य यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् ।
तस्मात्कुम्भोद्भव मुने कीर्तय त्वमिदं सदा । ।
नापरं किंचिदपि ते बोद्धव्यं नावशिष्यते ।
इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥
यो ब्रूयात्त्रिशतीं नाम्ना तस्यानर्थो महान्भवेत् ।
इत्याज्ञाशाकरी प्रोक्ता तस्मागोप्यमिदं त्वया ।
ललिताप्रेरितनैव मयोक्तं स्तोत्रमुत्तमम् ।
रहस्यनामसाहस्रादपि गोप्यमिद मुने ॥ ५७ । ।
एवमुक्त्या हयग्रीव कुम्भज तापसोत्तमम् ।
स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्द्रीम् ॥
आनन्दलहरीमनमानसः समवर्तत ॥ ५९ ॥
इति श्रीललितात्रिशतीस्तोत्रं सपूर्णम् ॥