Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Manīṣāpañcakam · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Prose passage
▾
Meaning
Keep
मनीषापञ्चकम्
1
▾
Meaning
Keep
जाग्रत्स्वप्नसुषुप्तिषु
स्फुटतरा
या
संविदुज्जृम्भते
या
ब्रह्मादिपिपीलिकान्ततनुषु
प्रोता
जगत्साक्षिणी
।
सैवाहं
न
च
दृश्यवस्त्विति
दृढप्रज्ञापि
यस्यास्ति
चेच्चाण्डालोऽस्तु
स
तु
द्विजोऽस्तु
गुरुरित्येषा
मनीषा
मम
॥ १ ॥
2
▾
Meaning
Keep
ब्रह्मैवाहमिदं
जगच्च
सकलं
चिन्मात्रविस्तारितं
सर्वं
चैतदविद्यया
त्रिगुणयाऽशेषं
मया
कल्पितम्
।
इत्थं
यस्य
दृढा
मतिः
सुखतरे
नित्ये
परे
निर्मले
चाण्डालोऽस्तु
स
तु
द्विजोऽस्तु
गुरुरित्येषा
मनीषा
मम
॥ २ ॥
3
▾
Meaning
Keep
शश्वन्नश्वरमेव
विश्वमखिलं
निश्चित्य
वाचा
गुरोर्नित्यं
ब्रह्म
निरन्तरं
विमृशता
निर्व्याजशान्तात्मना
।
भूतं
भावि
च
दुष्कृतं
प्रदहता
संविन्मये
पावके
प्रारब्धाय
समर्पितं
स्ववपुरित्येषा
मनीषा
मम
॥ ३ ॥
4
▾
Meaning
Keep
या
तिर्यङ्नरदेवताभिरहमित्यन्तः
स्फुटा
गृह्यते
यद्भासा
हृदयाक्षदेहविषया
भान्ति
स्वतोऽचेतनाः
।
तां
भास्यैः
पिहितार्कमण्डलनिभां
स्फूर्तिं
सदा
भावयन्योगी
निर्वृतमानसो
हि
गुरुरित्येषा
मनीषा
मम
॥ ४ ॥
5
▾
Meaning
Keep
यत्सौख्याम्बुधिलेशलेशत
इमे
शक्रादयो
निर्वृता
यच्चित्ते
नितरां
प्रशान्तकलने
लब्ध्वा
मुनिर्निर्वृतः
।
यस्मिन्नित्यसुखाम्बुधौ
गलितधीर्ब्रह्मैव
न
ब्रह्मविद्
यः
कश्चित्स
सुरेन्द्रवन्दितपदो
नूनं
मनीषा
मम
॥ ५ ॥