Contents
The Divine Mother
Home
Library
Find
Shelf
Settings
←
Leave
Mātṛkāpuṣpamālā · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
कल्लोलोल्लसितामृताब्धिलहरीमध्ये
विराजन्मणि-
द्वीपे
कल्पकवाटिकापरिवृते
कादम्बवाट्युज्ज्वले
।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये
विमानोत्तमे
चिन्तारत्नविनिर्मितं
जननि
ते
सिंहासनं
भावये
॥ १ ॥
2
▾
Meaning
Keep
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये
स्थितां
बालार्कद्युतिभासुरां
करतलैः
पाशाङ्कुशौ
बिभ्रतीम्
।
चापं
बाणमपि
प्रसन्नवदनां
कौसुम्भवस्त्रान्वितां
तां
त्वां
चन्द्रकलावतंसमकुटां
चारुस्मितां
भावये
॥ २ ॥
3
▾
Meaning
Keep
ईशानादिपदं
शिवैकफलदं
रत्नासनं
ते
शुभं
पाद्यं
कुङ्कुमचन्दनादिभरितैरर्घ्यं
सरत्नाक्षतैः
।
शुद्धैराचमनीयकं
तव
जलैर्भक्त्या
मया
कल्पितं
कारुण्यामृतवारिधे
तदखिलं
संतुष्टये
कल्पताम्
॥ ३ ॥
4
▾
Meaning
Keep
लक्ष्ये
योगिजनस्य
रक्षितजगज्जाले
विशालेक्षणे
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः
।
गोक्षीरैरपि
नारिकेलसलिलैः
शुद्धोदकैर्मन्त्रितैः
स्नानं
देवि
धिया
मयैतदखिलं
संतुष्टये
कल्पताम्
॥ ४ ॥
5
▾
Meaning
Keep
ह्रींकाराङ्कितमन्त्रलक्षिततनो
हेमाचलात्संचितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं
कौसुम्भवर्णांशुकम्
।
मुक्तासंततियज्ञसूत्रममलं
सौवर्णतन्तूद्भवं
दत्तं
देवि
धिया
मयैतदखिलं
संतुष्टये
कल्पताम्
॥ ५ ॥
6
▾
Meaning
Keep
हंसैरप्यतिलोभनीयगमने
हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे
हेमाङ्गदेकङ्कणे
।
मञ्जीरौ
मणिकुण्डले
मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ
काञ्चीमपि
स्वीकुरु
॥ ६ ॥
7
▾
Meaning
Keep
सर्वाङ्गे
घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं
च
फालफलके
गोरोचनापत्रकम्
।
गण्डादर्शनमण्डले
नयनयोर्दिव्याञ्जनं
तेऽञ्चितं
कण्ठाब्जे
मृगनाभिपङ्कममलं
त्वत्प्रीतये
कल्पताम्
॥ ७ ॥
8
▾
Meaning
Keep
कल्हारोत्पलमल्लिकामरुवकैः
सौवर्णपङ्केरुहै-
र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः
।
केतक्या
करवीरकैर्बहुविधैः
कॢप्ताः
स्रजो
मालिकाः
संकल्पेन
समर्पयामि
वरदे
संतुष्टये
गृह्यताम्
॥ ८ ॥
9
▾
Meaning
Keep
हन्तारं
मदनस्य
नन्दयसि
यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि
तस्याशयम्
।
तानीमानि
तवाम्ब
कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय
दशाङ्गगुग्गुलुघृतैर्धूपैरहं
धूपये
॥ ९ ॥
10
▾
Meaning
Keep
लक्ष्मीमुज्ज्वलयामि
रत्ननिवहोद्भास्वत्तरे
मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु
संभावितैः
।
चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै-
र्दिव्यैर्दीपगणैर्धिया
गिरिसुते
संतुष्टये
कल्पताम्
॥
11
▾
Meaning
Keep
ह्रींकारेश्वरि
तप्तहाटककृतैः
स्थालीसहस्रैर्भृतं
दिव्यान्नं
घृतसूपशाकभरितं
चित्रान्नभेदं
तथा
।
दुग्धान्नं
मधुशर्करादधियुतं
माणिक्यपात्रे
स्थितं
माषापूपसहस्रमम्ब
सफलं
नैवेद्यमावेदये
॥ ११ ॥
12
▾
Meaning
Keep
सच्छायैर्वरकेतकीदलरुचा
ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः
सुगन्धिमधुरैः
कर्पूरखण्डोज्ज्वलैः
।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
पूर्णा
रत्नकलाचिका
तव
मुदे
न्यस्ता
पुरस्तादुमे
॥ १२ ॥
13
▾
Meaning
Keep
कन्याभिः
कमनीयकान्तिभिरलंकारामलारार्तिका
पात्रे
मौक्तिकचित्रपङ्क्तिविलसत्कर्पूरदीपालिभिः
।
तत्तत्तालमृदङ्गगीतसहितं
नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं
सुविहितं
नीराजनं
गृह्यताम्
॥
14
▾
Meaning
Keep
लक्ष्मी
र्मौक्तिक
लक्ष
कल्पित
सित
च्छत्रं
तु
धत्ते
रसा-
दिन्द्राणी
च
रति
श्च
चामर
वरे
धत्ते
स्वयं
भारती
।
वीणामेण
विलोचनाः
सुमनसां
नृत्यन्ति
तद्रागव-
द्भावैराङ्गिक
सात्त्विकैः
स्फुट
रसं मातस्तदाकर्ण्यताम् ॥
15
▾
Meaning
Keep
ह्रींकारत्रयसंपुटेन
मनुनोपास्ये
त्रयीमौलिभि-
र्वाक्यैर्लक्ष्यतनो
तव
स्तुतिविधौ
को
वा
क्षमेताम्बिके
।
सल्लापाः
स्तुतयः
प्रदक्षिणशतं
संचार
एवास्तु
ते
संवेशो
नमसः
सहस्रमखिलं
त्वत्प्रीतये
कल्पताम्
॥
16
▾
Meaning
Keep
श्रीमन्त्राक्षरमालया
गिरिसुतां
यः
पूजयेच्चेतसा
संध्यासु
प्रतिवासरं
सुनियतस्तस्यामलं
स्यान्मनः
।
चित्ताम्भोरुहमण्डपे
गिरिसुता
नृत्तं
विधत्ते
रसा-
द्वाणी
वक्त्रसरोरुहे
जलधिजा
गेहे
जगन्मङ्गला
॥ १६ ॥
17
▾
Meaning
Keep
इति
गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती
सूक्तिसौरभ्यसारैः
।
शिवपदमकरन्दस्यन्दिनीयं
निबद्धा
मदयतु
कविभृङ्गान्मातृकापुष्पमाला
॥ १७ ॥