Contents
The Divine Mother
Home
Library
Find
Shelf
Settings
←
Leave
Nāmaratnanavaratnamālikā · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
हार
नूपुर
किरीट
कुण्डल
विभूषितावयव
शोभिनीं
कारणेश्वर
मौलि
कोटि
परिकल्प्यमान
पद
पीठिकाम्
।
काल
काल
फणि
पाश
बाण
धनुरङ्कुशामरुणमेखलां
फाल
भूति
लकलोचनां
मनसि
भावयामि
पर
देवताम्
॥ १ ॥
2
▾
Meaning
Keep
गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम्
।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं
मनसि
भावयामि
परदेवताम्
॥ २ ॥
3
▾
Meaning
Keep
स्मेरचारुमुखमण्डलां
विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम्
।
वीरगर्वहरनूपुरां
विविधकारणेश्वरपीठिकां
मारवैरिसहचारिणीं
मनसि
भावयामि
परदेवताम्
॥ ३ ॥
4
▾
Meaning
Keep
भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम्
।
वारिसारवहकुण्डलां
गगनशेखरीं
च
परमात्मिकां
चारुचन्द्ररविलोचनां
मनसि
भावयामि
परदेवताम्
॥ ४ ॥
5
▾
Meaning
Keep
कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-
त्पुण्डरीकमुखभेदिनीं
च
प्रचण्डभानुभासमुज्ज्वलाम्
।
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां
मनसि
भावयामि
परदेवताम्
॥
6
▾
Meaning
Keep
वारणाननमयूरवाहमुखदाहवारणपयोधरां
चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम्
।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां
मनसि
भावयामि
परदेवताम्
॥
7
▾
Meaning
Keep
पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम्
।
पद्मसंभवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं
प्रणवरूपिणीं
मनसि
भावयामि
परदेवताम्
॥
8
▾
Meaning
Keep
आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम्
।
मूलमन्त्रमुखमण्डलां
मुदितनादबिन्दुनवयौवनां
मातृकां
त्रिपुरसुन्दरीं
मनसि
भावयामि
परदेवताम्
॥
9
▾
Meaning
Keep
कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम्
।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
कालिकामखिलनायिकां
मनसि
भावयामि
परदेवताम्
॥
10
▾
Meaning
Keep
नित्यमेव
नियमेन
जल्पतां
भुक्तिमुक्तिफलदामभीष्टदाम्
।
शंकरेण
रचितां
सदा
जपे-
न्नामरत्ननवरत्नमालिकाम्
॥ १० ॥