Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śivāparādhakṣamāpaṇastotram · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
आदौ
कर्म
प्रसङ्गात्कलयति
कलुषं
मातृकुक्षौ
स्थितं
मां
विण्मूत्रामेध्यमध्ये
क्वथयति
नितरां
जाठरो
जातवेदाः
।
यद्यद्वै
तत्र
दुःखं
व्यथयति
नितरां
शक्यते
केन
वक्तुं
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ १ ॥
2
▾
Meaning
Keep
बाल्ये
दुःखातिरेकान्मललुलितवपुः
स्तन्यपाने
पिपासुर्नो
शक्तश्चेन्द्रियेभ्यो
भवमलजनिता
जन्तवो
मां
तुदन्ति
।
नानारोगातिदुःखाद्रुदितपरवशः
शङ्करं
न
स्मरामि
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ २ ॥
3
▾
Meaning
Keep
प्रौढोऽहं
यौवनस्थो
विषयविषधरैः
पञ्चभिर्मर्मसन्धौ
दष्टो
नष्टो
विवेकः
सुतधनयुवतिस्वादुसौख्ये
निषण्णः
।
शैवे
चिन्ताविहीनं
मम
हृदयमहो
मानगर्वाधिरूढं
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ३ ॥
4
▾
Meaning
Keep
वार्धक्ये
चेन्द्रियाणां
विकलगतिमतश्चाधिदैवादितापैः
प्राप्ते
रोगैर्वियोगैर्व्यसनकृशतनौ
जर्जरीभूतं
च
दीनम्
।
मिथ्यामोहाभिलाषैर्भ्रमति
मम
मनो
धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ४ ॥
5
▾
Meaning
Keep
स्नात्वा
प्रत्यूषकाले
स्नपनविधिविधौ
नाहृतं
गाङ्गतोयं
पूजार्थं
वा
कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं
वा
।
नानीता
पद्ममाला
सरसि
विकसिता
गन्धपुष्पैस्त्वदर्थं
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ५ ॥
6
▾
Meaning
Keep
दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः
स्नापितं
नैव
लिङ्गं
नो
लिप्तं
चन्दनाद्यैः
कनकविरचितैः
पूजितं
न
प्रसूनैः
।
धूपैः
कर्पूरदीपैर्विविधरसयुतैर्नैव
भक्ष्योपहारैः
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ६ ॥
7
▾
Meaning
Keep
नो
शक्यं
स्मार्तकर्म
प्रतिपदगहने
प्रत्यवायाकुलाख्ये
श्रौते
वार्ता
कथं
मे
द्विजकुलविहिते
ब्रह्ममार्गानुसारे
।
तत्त्वेऽज्ञाते
विचारे
श्रवणमननयोः
किं
निदिध्यासितव्यं
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ७ ॥
8
▾
Meaning
Keep
ध्यात्वा
चित्ते
शिवाख्यं
प्रचुरतरधनं
नैव
दत्तं
द्विजेभ्यो
हव्यं
ते
लक्षसङ्ख्यैर्हुतवहवदने
नार्पितं
बीजमन्त्रैः
।
नो
तप्तं
गाङ्गतीरे
व्रतजपनियमै
रुद्रजाप्यं
न
जप्तं
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ८ ॥
9
▾
Meaning
Keep
नग्नो
निःसङ्गशुद्धस्त्रिगुणविरहितो
ध्वस्तमोहान्धकारो
नासाग्रन्यस्तदृष्टिर्विदितभवगुणो
नैव
दृष्टः
कदाचित्
।
उन्मन्यावस्थया
त्वां
विगतगतिमतिः
शङ्करं
न
स्मरामि
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ९ ॥
10
▾
Meaning
Keep
स्थित्वा
स्थाने
सरोजे
प्रणवमयमरुत्कुम्भिते
सूक्ष्ममार्गे
शान्ते
स्वान्ते
प्रलीने
प्रकटितविभवे
दिव्यरूपे
शिवाख्ये
।
लिङ्गाग्रे
ब्रह्मवाक्ये
सकलतनुगतं
शङ्करं
न
स्मरामि
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ १० ॥
11
▾
Meaning
Keep
हृद्यं
वेदान्तवेद्यं
हृदयसरसिजे
दीप्तमुद्यत्प्रकाशं
सत्यं
शान्तस्वरूपं
सकलमुनिमनःपद्मषण्डैकवेद्यम्
।
जाग्रत्स्वप्ने
सुषुप्तौ
त्रिगुणविरहितं
शङ्करं
न
स्मरामि
क्षन्तव्यो
मेऽपराधः
शिव
शिव
शिव
भोः
श्रीमहादेव
शम्भो
॥ ११ ॥
12
▾
Meaning
Keep
चन्द्रोद्भासितशेखरे
स्मरहरे
गङ्गाधरे
शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे
नेत्रोत्थवैश्वानरे
।
दन्तित्वक्कृतसुन्दराम्बरधरे
त्रैलोक्यसारे
हरे
मोक्षार्थं
कुरु
चित्तवृत्तिमचलामन्यैस्तु
किं
कर्मभिः
॥ १२ ॥
13
▾
Meaning
Keep
किं
यानेन
धनेन
वाजिकरिभिः
प्राप्तेन
राज्येन
किं
किं
वा
पुत्रकलत्रमित्रपशुभिर्देहेन
गेहेन
किम्
।
ज्ञात्वैतत्क्षणभङ्गुरं
सपदि
रे
त्याज्यं
मनो
दूरतः
स्वात्मार्थं
गुरुवाक्यतो
भज
भज
श्रीपार्वतीवल्लभम्
॥ १३ ॥
14
▾
Meaning
Keep
पौरोहित्यं
रजनिचरितं
ग्रामणीत्वं
नियोगो
माठापत्यं
ह्यनृतवचनं
साक्षिवादः
परान्नम्
।
ब्रह्मद्वेषः
खलजनरतिः
प्राणिनां
निर्दयत्वं
मा
भूदेवं
मम
पशुपते
जन्मजन्मान्तरेषु
॥ १४ ॥
15
▾
Meaning
Keep
आयुर्नश्यति
पश्यतां
प्रतिदिनं
याति
क्षयं
यौवनं
प्रत्यायान्ति
गताः
पुनर्न
दिवसाः
कालो
जगद्भक्षकः
।
लक्ष्मीस्तोयतरङ्गभङ्गचपला
विद्युच्चलं
जीवितं
तस्मान्मां
शरणागतं
करुणया
त्वं
रक्ष
रक्षाधुना
॥ १५ ॥