The works of Ādi Śaṅkarācārya

Taittirīyopaniṣadbhāṣyam

Bhashya

Bhashya

विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानांकर्मणामानर्थक्यं प्राप्तमित्येतन्मा प्रापदिति कर्मणा पुरुषार्थंप्रति साधनत्वप्रदर्शनार्थ इहोपन्यास — ऋतमिति व्याख्या-तम् ।स्वाध्याय अध्ययनम् ।प्रवचनमध्यापनं ब्रह्मयज्ञोवा ।एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेष ।सत्यं सत्यवचनं यथाव्याख्यातार्थं वा ।तप कृच्छ्रादि ।दम बाह्यकरणोपशम ।शम अन्त करणोपशम ।अग्नयश्च आधातव्या ।अग्निहोत्रं च होतव्यम् ।अति-थयश्च पूज्या ।मानुषमिति लौकिकं सव्यवहारं ।तच्च यथाप्राप्तमनुष्ठेयम् ।प्रजा च उत्पाद्या ।प्रजनश्च प्रजननम्, ऋतौ भार्यागमनमित्यर्थ ।प्रजाति पौत्रोत्पत्ति , पुत्रो निवेशयितव्य इत्येतत् ।सर्वैरेतै कर्मभिर्युक्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थंसर्वेण सह स्वाध्यायप्रवचनग्रहणम् ।स्वाध्यायाधीन ह्यर्थज्ञानम् ।अर्थज्ञानाधीन च पर श्रेय ।प्रवचन च तद्विस्मरणार्थं धर्मवृद्ध्यर्थं च ।तत स्वाध्यायप्रवचनयोरादरकार्य ।सत्यमिति सत्यमेवानुष्ठेयमिति सत्यवचा सत्यमेववचो यस्य सोऽय सत्यवचा , नाम वा तस्य , राथीतररथीतरसगोत्र राथीतर आचार्यो मन्यते ।तप इति तपएव कर्तव्यमिति तपोनित्य तपसि नित्य तप पर , तपो-नित्य इति वा नाम, पौरुशिष्टि पुरुशिष्टस्यापत्य पौरुशि-ष्टिराचार्यो मन्यते ।स्वाध्यायप्रवचने एव अनुष्ठेये इतिनाको नामत मुद्गलस्यापत्य मौद्गल्य आचार्यो मन्यते ।तद्धि तपस्तद्धि तप ।यस्मात्स्वाध्यायप्रवचने एव तप ,तस्मात्त एवानुष्ठेये इति ।उक्तानामपि सत्यतप स्वाध्यायप्र-वचनाना पुनग्रहणमादराथम् ॥

In plain words

Since scripture declares that supreme sovereignty is attained through knowledge alone, the text introduces these duties to prevent the mistaken conclusion that ritual actions are entirely useless, showing how action serves as a preliminary step toward the ultimate human goal.

Close to the Sanskrit

Because it is said that one attains self-sovereignty through knowledge alone, this section introduces duties so that the ritual actions enjoined by śruti and smṛti might not be thought useless, showing how action serves as an instrument toward the human goal.