Bhashya
वेदमनूच्येत्येवादिकर्तव्यतोपदेशारम्भ प्राग्ब्रह्मात्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमथ , अनुशासनश्रुते पुरुषसंस्कारार्थत्वात् ।संस्कृतस्य हि विशुद्धसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते ।'तपसा कल्मष हन्ति विद्ययामृतमश्नुते' इति हि स्मृति ।वक्ष्यति च— 'तपसा ब्रह्म विजिज्ञासस्व' इति ।अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि ।अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्ति ।प्रागुपन्यासाच्च कर्मणाम् , केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि ।उदिताया च ब्रह्मविद्यायाम् 'अभय प्रतिष्ठा विन्दते' 'न बिभेति कुतश्चन' 'किमह साधु नाकरवम्' इत्यादिना कर्मनैष्किञ्च्य दर्शयिष्यति ।अत अवगम्यते— पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति ।मन्त्रवर्णाच्च— 'अविद्यया मृत्यु तीर्त्वा विद्ययामृतमश्नुते' इति ऋतादीना पूर्वोपदेश आनर्थक्यपरिहारार्थ , इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थ ।वेदम् अनूच्य अध्याप्य आचार्य अन्तेवासिन शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थ ग्राहयतीत्यर्थ ।अतोऽवगम्यते अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति ।'बुद्धा कर्माणिकुर्वीत' इति स्मृतेश्च ।कथमनुशास्तीत्यत आह—सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद ।तद्वत् धर्मं चर, धर्म इत्यनुष्ठेयानां सामान्यवचनम्, सत्यादिविशेषनिर्देशात् ।स्वाध्यायात् अध्ययनात् मा प्रमद प्रमादं मा कार्षीः ।आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयाथम् आचार्येण च अनुज्ञात अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा व्यवच्छेत्सीः, प्रजासंततेर्विच्छित्तिर्न कर्तव्या, अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्न कर्तव्य इत्यभिप्रायः, प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात्, अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत् ।सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यु , सत्याच्च प्रमदनमनृतप्रसङ्गः, प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः, अन्यथा असत्यवदनप्रतिषेध एव स्यात् ।धर्मात् न प्रमदितव्यम्, धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमाद , स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् ।एव कुशलात् आत्मरक्षार्थात्कर्मणो न प्रमदितव्यम् ।भूति विभूति, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणो न प्रमदितव्यम् ।स्वाध्यायप्रवचनाभ्या न प्रमदितव्यम्, ते हि नियमेन कर्तव्ये इत्यर्थः ।
In plain words
Instruction in duties begins immediately after Veda study, prescribing rituals derived from scripture and tradition as compulsory before the dawn of Self-knowledge, because these actions purify the inner instrument; for scripture and tradition declare that through purity and penance one destroys taint and easily attains the immortal Self.
Close to the Sanskrit
The beginning of instruction in duties starts with having studied the Veda, prescribing actions derived from śruti and smṛti prior to the knowledge of Brahman-Atman, because instruction is for the purification of the person; for a purified mind attains knowledge of the Self readily, as smṛti states.