Bhashya
तथा देवपितृकार्याभ्या न प्रमदितव्यम् , दैवपित्र्ये कर्मणि कर्त-व्ये ।मातृदेव माता देवो यस्य स , त्व मातृदेव भवस्या ।एव पितृदेवो भव , आचार्यदेवो भव , अतिथिदेवोभव , देवतावदुपास्या एते इत्यथ ।यान्यपि च अन्यानिअनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि, तानिसेवितव्यानि कर्तव्यानि त्वया ।नो न कर्तव्यानि इत-राणि सावद्यानि शिष्टकृतान्यपि ।यानि अस्माकम् आचा-र्याणा सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि,तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि नियमेनकर्तव्यानीत्येतत् ।नो इतराणि विपरीतान्याचार्यकृतान्यपि ।ये के च विशेषिता आचार्यत्वादिधर्मै अस्मत् अस्मत्तश्रेयास प्रशस्ततरा , त च ब्राह्मणा , न क्षत्रियादय,तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम् ,प्रश्वसन प्रश्वास श्रमापनय , तेषा श्रमस्त्वया अपनेतव्यइत्यथ ।तेषा वा आसन गोष्ठीनिमित्ते समुदिते, तेषु नप्रश्वसितव्य प्रश्वासोऽपि न कतव्य , केवल तदुक्तसारग्रा-हिणा भवितव्यम् ।किं च यत्किंचिद्देयम् , तत् श्रद्धयैवदातव्यम् ।अश्रद्धया अदेय न दातव्यम् ।श्रिया विभूत्यादय दातव्यम् ।ह्रिया लज्जया च देयम् ।भिया भीत्या चक्रियते, नोपासनज्ञानमपेक्षते ।उपासन च श्रुतज्ञानादर्थान्तर विधीयते मोक्षफलम्, अर्थान्तरप्रसिद्धेश्च स्यात्, 'श्रोतव्य' इत्युक्त्वा तद्व्यतिरेकेण 'मन्तव्यो निदिध्यासितव्य' इति यत्नान्तराविधानान् मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् ।एव तर्हि विद्यासव्यपेक्षेभ्य कर्मभ्य स्यान्मोक्ष, विद्यासहिताना च कर्मणा भवेत्कार्यान्तरारम्भसामर्थ्यम्, यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीना मन्त्रशर्करादिसंयुक्ताना कार्यान्तरारम्भसामर्थ्यम्, एव विद्यासहितै कर्मभि मोक्ष आरभ्यत इति चेत्, न, आरभ्यस्यानित्यत्वादित्युक्तो दोष ।वचनादारभ्याऽपि नित्य एवति चेत्, न, ज्ञापकत्वाद्वचनस्य ।वचन नाम यथाभूतस्यायस्य ज्ञापकम्, नाविद्यमानस्य कर्तृ ।न हि वचनशतेनापि नित्यमारभ्यते, आरन्ध वा अविनाशि भवेत् ।एतन विद्याकर्मणा महतयोर्मोक्षारम्भकत्व प्रत्युक्तम् ॥
In plain words
Likewise, one must never be negligent in fulfilling duties toward the gods and ancestors... Through this reasoning, the notion that knowledge and ritual combined can manufacture liberation is thoroughly refuted.
Close to the Sanskrit
Similarly, there must be no negligence regarding the duties to the gods and ancestors... By this reasoning, the capacity of knowledge and action combined to produce liberation has been refuted.