Bhashya
तत्रैतच्चिन्त्यम्-कथमनुप्राविशदिति ।किम्, य स्रष्टा, स तेनैवात्मनानुप्राविशत्, उत अन्येनेति ? किं तावद्युक्तम् ? क्त्वाप्रत्ययश्रवणात्, य स्रष्टा, स एवानुप्राविशदिति ।ननु न युक्त मृद्वत्सेत्कारण ब्रह्म, तदात्मकत्वात्कार्यस्य, कारणमेव हि कार्यात्मना परिणमते, अत अप्रविष्टस्यैव कार्योत्पनामरूपकार्यव्यतिरेकानुवादिन्य श्रुतयो विरुध्येरन्, तदापत्तौ मोक्षामभवाच्च ।न हि यतो मुच्यमान , तदेव आपद्यते ।न हि शृङ्खलापत्ति बद्धस्य तस्करादे ।बाह्यान्तर्भेदेन परिणतमिति चेत्—तदेव कारण ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतमिति चेत्, न, बहिष्ठस्य प्रवेशोपपत्ते ।न हि यो यस्यान्तस्थ स एव तत्प्रविष्ट उच्यते ।बहिष्ठस्यानुप्रवेश स्यात्, प्रवेशशब्दार्थस्यैव दृष्टत्वात्—यथा गृहं कृत्वा प्राविशदिति ।जलसूर्यकादिप्रतिबिम्बवत् प्रवेश स्यादिति चेत्, न, अपरिच्छिन्नत्वादमूर्तत्वाच्च ।परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदय स्यात्, न त्वात्मन , अमूर्तत्वात्, आकाशादिकारणस्य आत्मन व्यापकत्वात ।तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो न युक्त ।एव तर्हि नैवास्ति प्रवेश , न च गत्यन्तरमुपलभामहे, ‘तदेवानुप्राविशत्’ इति श्रुते ।श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम् ।न चास्माद्वाक्यात् यत्नवतामपि विज्ञानमुत्पद्यते ।हन्त तर्ह्यनर्थकत्वादपोह्यमेतद्वाक्यम् ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति, न, अन्यार्थत्वात् ।किमर्थमस्थाने चर्चा ? प्रकृतो ह्यन्योगुहाया बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येव विशेषवदुपल- भ्यते ।स एव तस्य प्रवेश , तस्मादस्ति तत्कारण ब्रह्म ।अत अस्तित्वार्दस्तीत्येवोपलब्धव्य तत् ।तत् कार्यमनुप्र विश्य , किम् ? सच्च मूर्तं त्यच्च अमूर्तम् अभवत् ।मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतैन आत्मना व्याक्रियेते मूर्तामूर्तशब्दवाच्ये ।ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते ।किं च, निरुक्त चानि रुक्त च, निरुक्त नाम निष्कृष्य समानासमानजातीयेभ्य देशकालविशिष्टतया इद तदित्युक्तम् , अनिरुक्त तद्विपरीतम्, निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे ।यथा सच्च त्यच्च प्रत्यक्षपरोक्ष, तथा निलयन चानिलयन च ।निल- यन नीडम् आश्रय मूर्तस्यैव धर्म , अनिलयन तद्विपरीतम् अमूर्तस्यैव धर्म ।त्यदनिरुक्तानिलयनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव, सर्गोत्तरकालभावश्रवणात् ।त्यदिति प्राणाद्यनिरुक्त तदेवानिलयन च ।अतः विशेषणानि अमू र्तस्य व्याकृतविषयाण्येवैतानि ।विज्ञान चेतनम्, अविज्ञान तद्रहितमचेतन पाषाणादि ।सत्य च व्यवहारविषयम्, अ धिकारात्, न परमार्थसत्यम्, एकमेव हि परमार्थसत्य ब्रह्म ।इह पुन व्यवहारविषयमापेक्षिक सत्यम् , मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते ।अनृतं च तद्विपरी-तम् ।कि पुन ? एतत्सर्वमभवत् , सत्य परमार्थसत्यम् ,कि पुनस्तत् ? ब्रह्म, 'सत्य ज्ञानमनन्त ब्रह्म' इति प्रकृत-त्वात् ।यस्मात् सच्च्यदादिकं मूर्तामूर्तधर्मजात यत्किञ्चेद्सर्वमविशिष्ट विकारजातमेकमेव सच्छब्दवाच्य ब्रह्माभवत् ,तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात् तत् ब्रह्म स-त्यमित्याचक्षते ब्रह्मविद ।अस्ति नास्तीत्यनुप्रश्न प्रकृत ,तस्य प्रतिवचनविषये एतदुक्तम्-'आत्माकामयत बहु स्याम्'इति ।स यथाकाम च आकाशादिकार्य सच्च्यदादिलक्षणसृष्ट्वा तदनुप्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन् ब्रह्मभवत् ,तस्मात् तदेवेदमाकाशादिकारण कार्यस्थ परमे व्योमन् हृद-यगुहाया निहित तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्ती-त्येव विजानीयादित्युक्त भवति ।तत् एतस्मिन्नर्थे ब्राह्मणोक्तेएष श्लोक मन्त्र भवति ।यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशका पञ्चस्वपि, एव सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि म-न्त्र कार्यद्वारेण भवति ॥
In plain words
Here this question arises: How did the Creator enter into His creation? Did He enter as His own very Self, or through something else? What is the logical view? Because the text uses a gerund suffix, it indicates that the Creator Himself entered. But if Brahman is the material cause like clay—since the effect is non-different from its cause, and only the cause transforms into the effect—then how can we maintain the scriptural teaching that name and form are non-different from the unentered reality? If everything were merely a physical transformation, liberation would be impossible, for nothing can attain liberation by becoming bound again...
Close to the Sanskrit
There, this must be considered: how did He enter? What, the Creator, did He enter with that very Self, or with another? What is proper? From the hearing of the ktvā suffix, the Creator Himself entered. But if Brahman is the cause like clay, because the effect is of that nature, for the cause alone transforms in the form of the effect, then the shrutis restating the non-difference of name and form effects from the unentered would be contradicted, and upon that occurring, liberation would be impossible...