Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Umāmaheśvarastotram · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
नमः
शिवाभ्यां
नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्यां
।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ १ ॥
2
▾
Meaning
Keep
नमः
शिवाभ्यां
सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम्
।
नारायणेनार्चितपादुकाभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ २ ॥
3
▾
Meaning
Keep
नमः
शिवाभ्यां
वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्
।
विभूतिपाटीरविलेपनाभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ३ ॥
4
▾
Meaning
Keep
नमः
शिवाभ्यां
जगदीश्वराभ्यां
जगत्पतिभ्यां
जयविग्रहाभ्याम्
।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ४ ॥
5
▾
Meaning
Keep
नमः
शिवाभ्यां
परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम्
।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ५ ॥
6
▾
Meaning
Keep
नमः
शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम्
।
अशेषलोकैकहितंकराभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ६ ॥
7
▾
Meaning
Keep
नमः
शिवाभ्यां
कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम्
।
कैलासशैलस्थितदेवताभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ७ ॥
8
▾
Meaning
Keep
नमः
शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम्
।
अकुण्ठिताभ्यां
स्मृतिसंभृताभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ८ ॥
9
▾
Meaning
Keep
नमः
शिवाभ्यां
रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम्
।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ९ ॥
10
▾
Meaning
Keep
नमः
शिवाभ्यां
जटिलन्धराभ्यां
जरामृतिभ्यां
च
विवर्जिताभ्याम्
।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ १० ॥
11
▾
Meaning
Keep
नमः
शिवाभ्यां
विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम्
।
शोभावतीशान्तवतीश्वराभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ ११ ॥
12
▾
Meaning
Keep
नमः
शिवाभ्यां
पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम्
।
समस्तदेवासुरपूजिताभ्यां
नमो
नमः
शंकरपार्वतीभ्याम्
॥ १२ ॥
13
▾
Meaning
Keep
स्तोत्रं
त्रिसन्ध्यं
शिवपार्वतीभ्यां
भक्त्या
पठेद्द्वादशकं
नरो
यः
।
स
सर्वसौभाग्यफलानि
भुङ्क्ते
शतायुरन्ते
शिवलोकमेति
॥ १३ ॥