Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vedasāraśivastotram · Work 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
पशूनां
पतिं
पापनाशं
परेशं
गजेन्द्रस्य
कृत्तिं
वसानं
वरेण्यम्
।
जटाजूटमध्ये
स्फुरद्गाङ्गवारिं
महादेवमेकं
स्मरामि
स्मरारिम्
॥ १ ॥
2
▾
Meaning
Keep
महेशं
सुरेशं
सुरारातिनाशं
विभुं
विश्वनाथं
विभूत्यङ्गभूषम्
।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे
प्रभुं
पञ्चवक्त्रम्
॥ २ ॥
3
▾
Meaning
Keep
गिरीशं
गणेशं
गले
नीलवर्णं
गवेन्द्राधिरूढं
गुणातीतरूपम्
।
भवं
भास्वरं
भस्मना
भूषिताङ्गं
भवानीकलत्रं
भजे
पञ्चवक्त्रम्
॥ ३ ॥
4
▾
Meaning
Keep
शिवाकान्त
शंभो
शशाङ्कार्धमौले
महेशान
शूलिञ्जटाजूटधारिन्
।
त्वमेको
जगद्व्यापको
विश्वरूपः
प्रसीद
प्रसीद
प्रभो
पूर्णरूप
॥ ४ ॥
5
▾
Meaning
Keep
परात्मानमेकं
जगद्बीजमाद्यं
निरीहं
निराकारमोंकारवेद्यम्
।
यतो
जायते
पाल्यते
येन
विश्वं
तमीशं
भजे
लीयते
यत्र
विश्वम्
॥ ५ ॥
6
▾
Meaning
Keep
न
भूमिर्न
चापो
न
वह्निर्न
वायु-
र्न
चाकाशमास्ते
न
तन्द्रा
न
निद्रा
।
न
चोष्णं
न
शीतं
न
देशो
न
वेषो
न
यस्यास्ति
मूर्तिस्त्रिमूर्तिं
तमीडे
॥ ६ ॥
7
▾
Meaning
Keep
अजं
शाश्वतं
कारणं
कारणानां
शिवं
केवलं
भासकं
भासकानाम्
।
तुरीयं
तमःपारमाद्यन्तहीनं
प्रपद्ये
परं
पावनं
द्वैतहीनम्
॥ ७ ॥
8
▾
Meaning
Keep
नमस्ते
नमस्ते
विभो
विश्वमूर्ते
नमस्ते
नमस्ते
चिदानन्दमूर्ते
।
नमस्ते
नमस्ते
तपोयोगगम्य
नमस्ते
नमस्ते
श्रुतिज्ञानगम्य
॥ ८ ॥
9
▾
Meaning
Keep
प्रभो
शूलपाणे
विभो
विश्वनाथ
महादेव
शंभो
महेश
त्रिनेत्र
।
शिवाकान्त
शान्त
स्मरारे
पुरारे
त्वदन्यो
वरेण्यो
न
मान्यो
न
गण्यः
॥ ९ ॥
10
▾
Meaning
Keep
शंभो
महेश
करुणामय
शूलपाणे
गौरीपते
पशुपते
पशुपाशनाशिन्
।
काशीपते
करुणया
जगदेतदेक-
स्त्वंहंसि
पासि
विदधासि
महेश्वरोऽसि
॥ १० ॥
11
▾
Meaning
Keep
त्वत्तो
जगद्भवति
देव
भव
स्मरारे
त्वय्येव
तिष्ठति
जगन्मृड
विश्वनाथ
।
त्वय्येव
गच्छति
लयं
जगदेतदीश
लिङ्गात्मके
हर
चराचरविश्वरूपिन्
॥ ११ ॥