Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 32
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीवाल्मीकिरुवाच ।
वदत्येवं मनोमोहविनिवृत्तिकरं वचः ।
रामे राजीवपत्राक्षे तस्मिन्राजकुमारके
2
Keep
सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः ।
भिन्नाम्बरा देहरुहैर्गिरः श्रोतुमिवोद्धुरैः
3
Keep
विरागवासनापास्तसमस्तभववासनाः ।
मुहूर्तममृताम्भोधिवीचीविलुलिता इव
4
Keep
ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव ।
संश्रुताः श्रृणुकैरन्तरानन्दपदपीवरैः
5
Keep
वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः ।
जयन्तधृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः
6
Keep
नृपैर्दशरथप्रख्यैः पौरैः पारशवादिभिः ।
सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः
7
Keep
तथा भृत्यैऽरमात्यैश्च पञ्जरस्थैश्च पक्षिभिः ।
क्रीडामृगैर्गतस्पन्दैस्तुरंगैस्त्यक्तचर्वणैः
8
Keep
कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः ।
संशान्तभूषणारावैरस्पन्दैर्वनितागणैः
9
Keep
उद्यानवल्लीनिलयैर्विटङ्कनिलयैरपि ।
अक्षुब्धपक्षततिभिर्विहङ्गैर्विरतारवैः
10
Keep
सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः ।
नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः
11
Keep
अन्यैश्च देवदेवेशविद्याधरमहोरगैः ।
रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः
12
Keep
अथ तूष्णीं स्थितवति रामे राजीवलोचने ।
तस्मिन्रघुकुलाकाशशशाङ्के शशिसुन्दरे
13
Keep
साधुवादगिरा सार्धं सिद्धसार्थसमीरिता ।
वितानकसमा व्योम्नः पौष्पी वृष्टिः पपात ह
14
Keep
मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी ।
मधुरामोदसौन्दर्यमुदितोन्मदमानवा
15
Keep
व्योमवातविनुन्नेव तारकाणां परम्परा ।
पतितेव धरापीठे स्वर्गस्त्रीहसितच्छटा
16
Keep
वृष्यमूककचन्मेघलवावलिरिव च्युता ।
हैयंगवीनपिण्डानामीरितेव परम्परा
17
Keep
हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा ।
ऐन्दवी रश्मिमालेव क्षीरोर्मीणामिवाततिः
18
Keep
किञ्जल्काम्भोजवलिता भ्रमद्भृङ्गकदम्बका ।
सीत्कारगायदामोदिमधुरानिललोलिता
19
Keep
प्रभ्रमत्केतकीव्यूहा प्रस्फुरत्कैरवोत्करा ।
प्रपतत्कुन्दवलया चलत्कुवलयालया
20
Keep
आपूरिताङ्गणरसा गृहाच्छादनचत्वरा ।
उद्ग्रीवपुरवास्तव्यनरनारीविलोकिता
21
Keep
निरभ्रोत्पलसंकाशव्योमवृष्टिरनाकुला ।
अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया
22
Keep
अदृश्याम्बरसिद्धौघकरोत्करसमीरिता ।
सा मुहूर्तचतुर्भागं पुष्पवृष्टिः पपात ह
23
Keep
आपूरितसभालोके शान्ते कुसुमवर्षणे ।
इमं सिद्धगणालापं शुश्रुवुस्ते सभागताः
24
Keep
आकल्पं सिद्धसेनासु भ्रमद्भिरभितोदिवम् ।
अपूर्वमिदमस्माभिः श्रुतं श्रुतिरसायनम्
25
Keep
यदनेन किलोदारमुक्तं रघुकुलेन्दुना ।
वीतरागतया तद्धि वाक्पतेरप्यगोचरम्
26
Keep
अहो बत महत्पुण्यमद्यास्माभिरिदं श्रुतम् ।
वचो राममुखोद्भूतं महाह्लादकरं धियः
27
Keep
उपशमामृतसुन्दरमादरा
दधिगतोत्तमतापदमेष यत् ।
कथितवानुचितं रघुनन्दनः
सपदि तेन वयं प्रतिबोधिताः
Previous
←
Sarga 31
Next
Sarga 33
→