Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 7
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीवाल्मीकिरुवाच ।
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत
2
Keep
सदृशं राजशार्दूल तवैवैतन्महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः
3
Keep
यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।
कुरु त्वं राजशार्दूल धर्मं समनुपालय
4
Keep
अहं धर्मं समातिष्ठे सिद्धयर्थं पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः
5
Keep
यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान् ।
तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः
6
Keep
बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।
अकिरंस्ते महीं यागे मांसेन रुधिरेण च
7
Keep
अवधूते तथाभूते तस्मिन्यागकदम्बके ।
कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः
8
Keep
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।
तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते
9
Keep
ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।
त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम्
10
Keep
त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।
अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः
11
Keep
तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः
12
Keep
तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि
13
Keep
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे
14
Keep
श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् ।
त्रयाणामपि लोकानां येन पूज्यो भविष्यति
15
Keep
न च ते राममासाद्य स्थातुं शक्ता निशाचराः ।
क्रुद्धं केसरिणं दृष्ट्वा वनेरण इवैणकाः
16
Keep
तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् ।
ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव
17
Keep
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव
18
Keep
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
अनारतगता धारा जलदस्येव पांसवः
19
Keep
न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।
न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम्
20
Keep
हन्त नूनं विजानामि हतांस्तान्विद्धिराक्षसान् ।
नह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः
21
Keep
अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः
22
Keep
यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।
तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि
23
Keep
दशरात्रश्च मे यज्ञो यस्मिन्रामेण राक्षसाः ।
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः
24
Keep
अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।
वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय
25
Keep
नात्येति कालः कालज्ञ यथायं मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः
26
Keep
कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।
महदप्युपकारोऽपि रिक्ततामेत्यकालतः
27
Keep
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनीश्वरः
28
Keep
श्रुत्वा वचो मुनिवरस्य महानुभाव-
स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं
धीमानपूरितमनोऽभिमतश्च लोकः
Previous
←
Sarga 6
Next
Sarga 8
→